TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हठयोगप्रदीपिका - द्वितीयोपदेशः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


द्वितीयोपदेशः
अथासने दृधे योगी वशी हित-मिताशनः।
गुरूपदिष्ट-मार्गेण प्राणायामान् समभ्यसेत् ॥१॥
चले वाते चलं चित्तं निश्चले निश्चलं भवेत्।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥२॥
यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् ॥३॥
मलाकलासु नाडीषु मारुतो नैव मध्यगः।
कथं स्याद् उन्मनीभावः कार्य-सिद्धिः कथं भवेत् ॥४॥
शुद्धम् एति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥५॥
प्राणायामं ततः कुर्यान् नित्यं सात्त्विकया धिया।
यथा सुषुम्णा-नाडीस्था मलाः शुद्धिं प्रयान्ति च ॥६॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥७॥
प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः।
विधिवत् कुम्भकं कृत्वा पुनश् चन्द्रेण रेचयेत् ॥८॥
येन त्यजेत् तेन पीत्वा धारयेद् अतिरोधतः।
रेचयेच् च ततोऽन्येन शनैर् एव न वेगतः ॥९॥

प्राणं चेद् इडया पिबेन् नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया।
सूर्य-चन्द्रमसोर् अनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयाद् ऊर्ध्वतः ॥१०॥

प्रातर् मध्यन्दिने सायम् अर्ध-रात्रे च कुम्भकान्।
शनैर् अशीति-पर्यन्तं चतुर् वारं समभ्यसेत् ॥११॥
कनीयसि भवेद् स्वेद कम्पो भवति मध्यमे।
उत्तमे स्थानम् आप्नोति ततो वायुं निबन्धयेत् ॥१२॥
जलेन श्रम-जातेन गात्र-मर्दनम् आचरेत्।
दृढता लघुता चैव तेन गात्रस्य जायते ॥१३॥
अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम्।
ततोऽभ्यासे दृढीभूते न तादृङ्-नियम-ग्रहः ॥१४॥
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः।
तथैव सेवितो वायुर् अन्यथा हन्ति साधकम् ॥१५॥
प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत्।
अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः ॥१६॥
हिक्का श्वासश् च कासश् च शिरः-कर्णाक्षि-वेदनाः।
भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥१७॥
युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बध्नीयाद् एवं सिद्धिम् अवाप्नुयात् ॥१८॥
यदा तु नाडी-शुद्धिः स्यात् तथा चिह्नानि बाह्यतः।
कायस्य कृशता कान्तिस् तदा जायते निश्चितम् ॥१९॥
यथेष्टं धारणं वायोर् अनलस्य प्रदीपनम्।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात् ॥२०॥
मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत्।
अन्यस् तु नाचरेत् तानि दोषाणां समभावतः ॥२१॥
धौतिर् बस्तिस् तथा नेतिस् त्राटकं नौलिकं तथा।
कपाल-भातिश् चैतानि षट्-कर्माणि प्रचक्षते ॥२२॥
कर्म षट्कम् इदं गोप्यं घट-शोधन-कारकम्।
विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः ॥२३॥

तत्र धौतिः- चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम्।
गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर् ग्रसेत्।
पुनः प्रत्याहरेच् चैतद् उदितं धौति-कर्म तत् ॥२४॥
कास-श्वास-प्लीह-कुष्ठं कफरोगाश् च विंशतिः।
धौति-कर्म-प्रभावेण प्रयान्त्य् एव न संशयः ॥२५॥

अथ बस्तिः- नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः।
आधाराकुञ्चनं कुर्यात् क्षालनं बस्ति-कर्म तत् ॥२६॥
गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः।
बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः ॥२७॥
धान्त्वद्रियान्तः-करण-प्रसादं दधाच् च कान्तिं दहन-प्रदीप्तम्।
अशेष-दोषोपचयं निहन्याद् अभ्यस्यमानं जल-बस्ति-कर्म ॥२८॥

अथ नेतिः- सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत्।
मुखान् निर्गमयेच् चैषा नेतिः सिद्धैर् निगद्यते ॥२९॥
कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी।
जत्रूर्ध्व-जात-रोगौघं नेतिर् आशु निहन्ति च ॥३०॥

अथ त्राटकम्- निरीक्षेन् निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः।
अश्रु-सम्पात-पर्यन्तम् आचार्यैस् त्राटकं स्मृतम् ॥३१॥
मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम्।
यत्नतस् त्राटकं गोप्यं यथा हाटक-पेटकम् ॥३२॥

अथ नौलिः- अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः।
नतांसो भ्रामयेद् एषा नौलिः सिद्धैः प्रशस्यते ॥३३॥
मन्दाग्नि-सन्दीपन-पाचनादि-सन्धापिकानन्द-करी सदैव।
अशेष-दोष-मय-शोषणी च हठ-क्रिया मौलिर् इयं च नौलिः ॥३४॥

अथ कपालभातिः- भस्त्रावल् लोह-कारस्य रेच-पूरौ ससम्भ्रमौ।
कपालभातिर् विख्याता कफ-दोष-विशोषणी ॥३५॥

षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः।
प्राणायामं ततः कुर्याद् अनायासेन सिद्ध्यति ॥३६॥
प्राणायामैर् एव सर्वे प्रशुष्यन्ति मला इति।
आचार्याणां तु केषांचिद् अन्यत् कर्म न संमतम् ॥३७॥

अथ गज-करणी- उदर-गत-पदार्थम् उद्वमन्ति पवनम् अपानम् उदीर्य कण्ठ-नाले।
क्रम-परिचय-वश्य-नाडि-चक्रा गज-करणीति निगद्यते हठज्ञैः ॥३८॥

ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः।
अभूवन्न् अन्तक-भ्यात् तस्मात् पवनम् अभ्यसेत् ॥३९॥
यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम्।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः ॥४०॥
विधिवत् प्राण-संयामैर् नाडी-चक्रे विशोधिते।
सुषुम्णा-वदनं भित्त्वा सुखाद् विशति मारुतः ॥४१॥

अथ मनोन्मनी- मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते।
यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी ॥४२॥
तत्-सिद्धये विधानज्ञाश् चित्रान् कुर्वन्ति कुम्भकान्।
विचित्र कुम्भकाभ्यासाद् विचित्रां सिद्धिम् आप्नुयात् ॥४३॥

अथ कुम्भक-भेदाः-- सूर्य-भेदनम् उज्जायी सीत्कारी शीतली तथा।
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्य् अष्ट-कुम्भकाः ॥४४॥
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः।
कुम्भकान्ते रेचकादौ कर्तव्यस् तूड्डियानकः ॥४५॥
अधस्तात् कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते।
मध्ये पश्चिम-तानेन स्यात् प्राणो ब्रह्म-नाडिगः ॥४६॥
आपानम् ऊर्ध्वम् उत्थाप्य प्राणं कण्ठाद् अधो नयेत्।
योगी जरा-विमुक्तः सन् षोडशाब्द-वया भवेत् ॥४७॥

अथ सूर्य-भेदनम्- आसने सुखदे योगी बद्ध्वा चैवासनं ततः।
दक्ष-नाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥४८॥
आकेशाद् आनखाग्राच् च निरोधावधि कुम्भयेत्।
ततः शनैः सव्य-नाड्या रेचयेत् पवनं शनैः ॥४९॥
कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत्।
पुनः पुनर् इदं कार्यं सूर्य-भेदनम् उत्तमम् ॥५०॥

अथ उज्जायी- मुखं संयम्य नाडीभ्याम् आकृष्य पवनं शनैः।
यथा लगति कण्ठात् तु हृदयावधि स-स्वनम् ॥५१॥
पूर्ववत् कुम्भयेत् प्राणं रेचयेद् इडया तथा।
श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम् ॥५२॥
नाडी-जलोदराधातु-गत-दोष-विनाशनम्।
गच्छता तिष्ठता कार्यम् उज्जाय्य् आख्यं तु कुम्भकम् ॥५३॥

अथ सीत्कारी- सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम्।
एवम् अभ्यास-योगेन काम-देवो द्वितीयकः ॥५४॥
योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥५५॥
भवेत् सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः।
अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले ॥५६॥

अथ शीतली- जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भ-साधनम्।
शनकैर् घ्राण-रन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥५७॥
गुल्म-प्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम्।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥५८॥

अथ भस्त्रिका- ऊर्वोर् उपरि संस्थाप्य शुभे पाद-तले उभे।
पद्मासनं भवेद् एतत् सर्व-पाप-प्रणाशनम् ॥५९॥
सम्यक् पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥६०॥
यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम्।
वेगेन पूरयेच् चापि हृत्-पद्मावधि मारुतम् ॥६१॥
पुनर् विरेचयेत् तद्वत् पूरयेच् च पुनः पुनः।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥६२॥
तथैव स्व-शरीर-स्थं चालयेत् पवनं धिया।
यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥६३॥
यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु।
धारयेन् नासिकां मध्या-तर्जनीभ्यां विना दृढम् ॥६४॥
विधिवत् कुम्भकं कृत्वा रेचयेद् इडयानिलम्।
वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम् ॥६५॥
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम्।
ब्रह्म-नाडी-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम् ॥६६॥
सम्यग् गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम्।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्व् इदम् ॥६७॥

अथ भ्रामरी- वेगाद् घोषं पूरकं भृङ्ग-नादं भृङ्गी-नादं रेचकं मन्द-मन्दम्।
योगीन्द्राणी̀अम् एवम् अभ्यास-योगाच् चित्ते जाता काचिद् आनन्द-लीला ॥६८॥

अथ मूर्च्छा- पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः।
रेचयेन् मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा ॥६९॥

अथ प्लाविनी- अन्तः प्रवर्तितोदार-मारुतापूरितोदरः।
पयस्य् अगाधेऽपि सुखात् प्लवते पद्म-पत्रवत् ॥७०॥

प्राणायामस् त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः।
सहितः केवलश् चेति कुम्भको द्विविधो मतः ॥७१॥
यावत् केवल-सिद्धिः स्यात् सहितं तावद् अभ्यसेत्।
रेचकं पूरकं मुक्त्वा सुखं यद् वायु-धारणम् ॥७२॥
प्राणायामोऽयम् इत्य् उक्तः स वै केवल-कुम्भकः।
कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते ॥७३॥
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते।
शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात् ॥७४॥
राज-योग-पदं चापि लभते नात्र संशयः।
कुम्भकात् कुण्डली-बोधः कुण्डली-बोधतो भवेत्।
अनर्गला सुषुम्णा च हठ-सिद्धिश् च जायते ॥७५॥
हठं विना राजयोगो राज-योगं विना हठः।
न सिध्यति ततो युग्मम् आनिष्पत्तेः समभ्यसेत् ॥७६॥
कुम्भक-प्राण-रोधान्ते कुर्याच् चित्तं निराश्रयम्।
एवम् अभ्यास-योगेन राज-योग-पदं व्रजेत् ॥७७॥

वपुः कृशत्वं वदने प्रसन्नता नाद-स्फुटत्वं नयने सुनिर्मले।
अरोगता बिन्दु-जयोऽग्नि-दीपनं नाडी-विशुद्धिर् हठ-सिद्धि-लक्षणम् ॥७८॥

इति हठ-प्रदीपिकायां द्वितीयोपदेशः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:41:26.0170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

teleontrol

  • न. दूरनियंत्रण 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.