TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भोजवृत्तिः - विभूतिपादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


विभूतिपादः
॥३.१॥ तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाविधानपूर्वकं बाह्याभ्यन्तरादि सिध्दिप्रतिपादनाय लक्षयितुमुपक्रमते ।

तत्र धारणायाः स्वरूपमाह ॥

॥३.२॥ तत्र तस्मिन्प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारद्वारेण यदेव

धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते । चरमं योगाङ्गं समाधिमाह ॥

॥३.३॥ तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपंन्यग्भूतज्ञानस्वरूपत्वेन

स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यगाधीयत काग्री क्रियते विक्षेपान्परिहृत्य मनो यत्र स समाधिः ।

उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह ॥

॥३.४॥ कस्मिन्विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते । तस्य फलमाह ॥

॥३.५॥ तस्य संयमस्य जयादभ्यासेन सात्म्योपादनात्प्रज्ञाया विवेकख्यातेरालोकः प्रसवो भवति । प्रज्ञा ज्ञेयं

सम्यगवभासयतीत्यर्थः । तस्योपयोगमाह ॥

॥३.६॥ तस्य संयमस्य भूमिषु स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः, अधरामधरां चित्तभूमिं जितां

जितां ज्ञात्वोत्तरस्यां भूमौ संयमः कार्यः । न ह्यनात्मीकृताधरभूमिरुत्तरस्यां भूमौ संयमंकुर्वाणः फलभाग्भवति । साधनपादे

योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्याशङ्क्याऽऽह ॥

॥३.७॥ पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्रयं संप्रज्ञातस्य समाधेरन्तरङ्गं

समाधिस्वरूपनिष्पादनात्॥ तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह ॥

॥३.८॥ निर्बीजस्य निरालम्बनस्य शून्यभावनापरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात् ।

इदानीं योगसिध्दिराख्यातुकामः संयमस्य विषयपरिशुध्दिं कर्तुं क्रमेण परिणामत्रयमाह ॥

॥३.९॥ व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयम् । निरोधः प्रकृष्टसत्त्वस्याङ्गितया चेतसः परिणामः । ताभ्यां

व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रममभिभवप्रादुर्भावौ यदा भवतः । अभिभवो न्यग्भूततया

कार्यकरणासामर्थ्येनावस्थानम् । प्रादुर्भावो वर्तमानेऽध्वनि अभिव्यक्तरूपतयाऽऽविर्भावः । तदा निरोधक्षणे

चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः ॥ यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति,

निरोधसंस्काररूपश्चाऽऽविर्भवति, धर्मिरूपतया च चित्तमुभेयान्वयित्वेऽपि निरोधात्मनाऽवस्थितं प्रतीयते, तदा स

निरोधपरिणामशब्देन व्यवह्रियते । चलत्वाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाऽपि वंभूतः परिणामः स्थैर्यमुच्यते ।

तस्यैव फलमाह ॥

॥३.१०॥ तस्य चेतसो निरुक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति । परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः ।

निरोधपरिणाममभिधाय समाधिपरिणाममाह ॥

॥३.११॥ सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः । कस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता, साऽपि

चित्तस्य धर्मः । तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽत्यन्ताभिभव काग्रतालक्षणस्य धर्मस्य

प्रादुर्भावोऽभिव्यक्तिश्चित्तस्योद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते । पूर्वस्मात्परिणामादस्यायं विशेषः ॥ तत्र

संस्कारलक्षणयोर्धर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः । उत्तरस्य

निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम् । इह तु क्षयोदयाविति सर्वार्थतारूपस्य

विक्षेपस्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय काग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम् ।

तृतीयमेकाग्रतापरिणाममाह ॥

॥३.१२॥ समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः ।

द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स

काग्रतापरिणाम इत्युच्यते । चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह ॥

॥३.१३॥ तेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेषु इन्द्रियेषु बुध्दिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदन

त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिर्धर्म परिणामः । यथा ॥ मृल्लक्षणस्य

धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथातस्यैव

घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः । तत्परित्यागेन चातीताध्वपरिग्रहः । अवस्थापरिणामो यथा ॥ तस्यैव घटस्य

प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिर्नापरिणममाना क्षणमप्यस्तिः । ननु कोऽयं धर्मीत्याशङ्क्य

धर्मिणो लक्षणमाह ॥

॥३.१४॥ शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः, उदिता येऽनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं

कुर्वन्ति, अव्यपदेश्या ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते तेषां नियतकार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह

धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्म योऽनुपतति अनुवर्ततेऽन्वयित्वेन स्वी करोति स शान्तोदिताव्यपदेश्यधर्मानुपाती

धर्मीत्युच्यते । यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूप धर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु

कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते । एकस्य धर्मिणः कथमनेके

परिणामा इत्याशङ्कामपनेतुमाह ॥

॥३.१५॥ धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं तत् परिणामस्योक्तलक्षणस्यान्यत्वे नानविधत्वे

हेतुर्लिङ्गं ज्ञापकं भवति । अयमर्थः ॥ योऽयं नियतः क्रमो मृच्चूर्णान्मृत्पिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवंरूपः

परिदृश्यमानः परिणामस्यान्यत्वमावेदयति, तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्यावस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव

न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व व भावा नियतेनैव क्रमेण प्रतिक्षणं प्ररिणममानाः परिदृश्यन्ते । अतः सिध्दं

क्रमान्यत्वात्परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममनानां केचिध्दर्माः प्रत्यक्षेणैवोपलभ्यन्ते । यथा सुखादयः संस्थानादयश्च ।

केचिच्चैकान्तेनानुमानगम्याः । यथा ॥ धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगमः । इदानीमुक्तस्य

संयमस्य विषयप्रदर्शनद्वारेण सिध्दीः प्रतिपादयितुमाह ॥

॥३.१६॥ धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात्तस्मिविषये पूर्वोक्तसंयमस्य कारणादतीतानागतज्ञानं योगिनः

समाधेराविर्भवति । इदमत्र तात्पर्यम् ॥ अस्मिन्धर्मिणि अयं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं

व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किंचिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी

जानाति । यतश्चित्तस्य शुध्दसत्त्वप्रकाशरूपत्वात्सर्वार्थग्रहणसामर्थ्यमविद्यादिभिर्विक्षेपैरपक्रियते । यदा तु तैस्तैरुपायैर्विक्षेपाः

परिह्रियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति । सिद्ध्यन्तरमाह ॥

॥३.१७॥ शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितः स्फोटात्मा

शास्त्रसंस्कृतबुध्दिग्राह्यः । उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थो जातिगुणक्रियादिः । प्रत्ययो

ज्ञानं विषयाकारा बुध्दिवृत्तिः । षां शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासंपादनात्संकीर्णत्वम् । तथा

हि ॥ गामानयेत्युक्ते कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत्पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च

तद्ग्राहकमभेदेनैवाध्यवस्यति, न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथा

हि ॥ कोऽयमर्थः कोऽयं शब्दः किमिदं ज्ञानमिति पृष्ठः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति । स यद्येकरूपतां न प्रतिपद्यते

कथमेकरूपमुत्तरं प्रयच्छति । तस्मिन्स्थिते योऽयं प्रविभागं इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य

यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन्प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृगपशुपक्षिसरीसृपादीनां यद्रुतं यः

शब्दस्तत्र ज्ञानमुत्पद्यतेऽनेनैवाभिप्रायेणैतेन प्राणिनाऽयं शब्द समुच्चारित इति सर्वं जानाति । सिद्ध्यन्तरमाह ॥

॥३.१८॥ द्विविधाश्चित्तस्य वासनारूपाः संस्काराः । केचित्स्मृतिमात्रोत्पादनफलाः, केचिज्जात्यायुर्भोगलक्षणविपाकहेतवः, यथा धर्माधर्माख्याः । तेषु संस्कारेषु यदा संयमं करोति वं मया सोऽर्थोनुभूत वं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसंदधानो भावयन्नेव प्रबोधकमन्तरेणोद्बुध्दसंस्कारः सर्वमतीतं स्मरति । क्रमेण साक्षात्कृतेषूद्बुध्देषु संस्कारेषु पूर्वजन्मानुभूतानपि जात्यादीन्प्रत्यक्षेण पश्यति । सिद्ध्यन्तरमाह ॥

॥३.१९॥ प्रत्यस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं विरागं वेति । परचित्तगतानपि धर्माञ्जानातीत्यर्थः । अस्यैव परचित्तज्ञानस्य विशेषमाह ॥

॥३.२०॥ तस्य परस्य यच्चित्तं तत्सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात् । लिङ्गाच्चित्तमात्रं परस्यावगतं ननु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचित्तस्य यो विषयस्तत्र ज्ञानम् । तस्मात्परकीयचित्तं नाऽलम्बनसहितं गृह्यते, तस्वाऽऽलम्बनस्यागृहीतत्वात् । चित्तधर्माः पुनर्गृह्यन्त व । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत व । सिद्ध्यन्तरमाह ॥

॥३.२१॥ कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन्काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्यासंयोगे तद्ग्रहणव्यपाराभावे योगिनोऽन्तर्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः । तेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां

श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम् । सिद्ध्यन्तरमाह ॥

॥३.२२॥ आयुर्विपाकं यत्पूर्वकृतं कर्म तद्द्विप्रकारं सोपक्रमं निरुपक्रमं च । तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकारणाभिमुख्येन सह वर्तते । यथोष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति । उक्तरूपविपरीतं निरुपक्रमं यथा तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति । तस्मिन्द्विविधे कर्मणि यः संयमं करोति किं मम कर्म शीघ्रविपाकं चिरविपाकं वा, वं ध्यानदाढर्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगस्तस्मिञ्ज्ञानममुष्मिन्कालेऽमुष्मिन्देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि आध्यात्मिकाधिभौतिकाधिदैविकभेदेन ।

तत्राऽऽध्यात्मिकानि पिहितकर्णः कोष्ठयस्य वायोर्घोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि ।

आधिदैविकानि अकाण्ड व द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि । तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथाऽपि तेषां सामान्याकारेण तत्संशयरूपं, योगिनां पुनर्नियत देशकालतया प्रत्यक्षवदव्यभिचारि । परिकर्मनिष्पादिताः सिध्दिः प्रतिपादयितुमाह ॥

॥३.२३॥ मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तस्य बलानि मैत्र्यादीनां संबन्धीनि प्रादुर्भवन्ति । मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकमयं संपद्यते । सिद्ध्यन्तरमाह ॥

॥३.२४॥ हस्त्यादिसंबन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलानि आविर्भवन्ति । यदयमर्थः – यस्मिन्हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनायं संयमं करोति तत्तत्सामर्थ्ययुक्तत्वात्सर्वमस्य प्रादुर्भव तीत्यर्थः । सिद्ध्यन्तरमाह ॥

॥३.२५॥ प्रवृत्तिर्विषयवती ज्योतिष्मति च प्रागुक्ता तस्या योऽसावालोकः सात्त्विप्रकाशप्रसरस्तस्य निखिलेषु विषयेषु न्यासात्तद्वासितानां विषयाणां भावनात्सान्तःकरणेषु इन्द्रियेषु प्रकृष्टशक्तिमापन्नेषु सूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरापराश्ववर्तिनो रसायनादेज्र्ञानमुत्पद्यते । एतत्समानवृत्तान्तं सिद्ध्यन्तरमाह ॥

॥३.२६॥ सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवः स्वः प्रभृतिषु लोकेषु यानि भुवनानि तत्तत्संनिवेशभाञ्जि स्थानानि तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन्सूत्रे सात्त्विप्रकाश आलम्बनतयोक्त इह तु भौतिक इति विशेषः ।

भौतिकप्रकाशालम्बनद्वारेणैव सिद्ध्यन्तरमाह ॥

॥३.२७॥ ताराणां ज्योतिषां यो व्यूहो विशिष्टः संनिवेशस्तस्ंमिश्चन्द्रे कृतसंयमस्य ज्ञानमुत्पद्यते । सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथुगुपायोऽभिहितः । सिद्ध्यन्तरमाह ॥

॥३.२८॥ (ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते । इयं ताराऽयं ग्रह इयता कालेनामुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानमस्य फलमित्युक्तं भवति । बाह्याः सिध्दीः प्रतिपाद्याऽऽन्तराः सिध्दीः प्रतिपादयितुमुपक्रमते ॥

॥३.२९॥ शरीरमध्यवर्ति नाभिसंज्ञकं यत्षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो

विशिष्टरसमलधातुनाडयादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति ॥ नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाडयादीनां मूलभूतमतस्तत्र कृतावधानस्य समग्रसंनिवेशो यथावदाभाति । सिद्ध्यन्तरमाह ॥

॥३.३०॥ कण्ठे गले कूपः कण्ठकूपः, जिह्वामूले जिह्वातन्तोरधस्तात्कूप इव कूपो गर्ताकारः प्रदेशः प्राणोदेर्यत्संस्पर्शात्क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन्कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते । घण्टिकाधस्तात्स्रोतसा धार्यमाणे तस्मिन्भाविते भवत्येवंविधा सिध्दिः । सिद्ध्यन्तरमाह ॥

॥३.३१॥ कण्ठकूपस्याधस्ताद्या कूर्माख्या नाड़ी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न

भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित्स्पन्दयितुं शक्यत इत्यर्थः । सिद्ध्यन्तरमाह ॥

॥३.३२॥ शिरः कपाले ब्रह्मरंध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः । यथा ॥ गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विः प्रकाशः प्रसृतस्तत्र संपिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिध्दा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानां तस्य दर्शनं भवति । तान्पश्यति तैश्च स संभाषत इत्यर्थः । सर्वज्ञत्व उपायमाह ॥

॥३.३३॥ निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभा । तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभाति तारकं ज्ञानमुदेति । यथा ॥ उदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते । तस्मिन्सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः । सिद्ध्यन्तरमाह ॥

॥३.३४॥ हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वल्पपुण्डरीकाऽभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीञ्जानातीत्यर्थः । सिद्ध्यन्तरमाह ॥

॥३.३५॥ सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः पुरुषो भोक्ताऽधिष्ठातृरूपः ।

तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वाच्चेतनाचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तृताप्रत्ययेन वा सुखदुःखसंवित्स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहंकारसत्त्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते । तत्र तदेवं रूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते,

ज्ञेयत्वापत्तेज्र्ञातृज्ञेययोश्चात्यन्तविरोधात् । अस्यैव संयमस्य फलमाह ॥

॥३.३६॥ ततः पुरुषसंयमादभ्यस्यमानाद्व्युत्थितस्यापि ज्ञानानि जायन्ते । तत्र प्रातिभं पूर्वोक्तं ज्ञानं, तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं तस्माच्च प्रकृष्टाद्दिव्यं॥दिवि भवं॥शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा तान्त्रिक्या संज्ञया व्यवह्रियते । तस्माद्दिव्यस्यपर्शविषयं ज्ञानं समुपजायते ।

आदर्शश्चक्षुरिन्द्रियजं ज्ञानम् । आ समन्ताद्दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा, तस्य प्रकर्षाद्दिव्यं रूपज्ञानमुत्पद्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । आस्वाद्यतेऽनेनेति कृत्वा, तस्मिन्प्रकृष्टे दिव्ये रसे संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते । वर्तते गन्धविषय इहि कृत्वा वृत्तेर्घ्राणेन्द्रिययाजाता वार्ता गन्धसंवित् । तस्यां प्रकृष्यमाणायां दिव्यगन्धोऽनुभूयते । एतेषां फलविशेषाणां विशेषविभागमाह ॥

॥३.३७॥ ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्षं गच्छत उपसर्गा उपद्रवा विघ्नकारिणः । तत्र हर्षविस्मयादिकरणेन समाधिः शिथिली भवति । व्युत्थाने तु पुर्नव्यवहारदशायां विशिष्टपलदायकत्वात्सिध्दयो भवन्ति । सिध्दन्तरमाह ॥

॥३.३८॥ व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तर्गतयोभोक्तृभोग्यभावेन यत्संवेदनमुपजायते स व शरीरे बन्ध इत्युच्यते । तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते । चित्तस्य च योऽसौ प्रचारो हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहा नाड़ी, अनया चित्तं वहति, इयं च रसप्राणादि वहाभ्यो नाडीभ्यो विलक्षणेति, स्वपरशरीरयोर्यदा संचारं जानाति तदा परकीयं शरीरं मृतं जीवच्छरीरं वा चित्तसंचारद्वारेण प्रविशति । चित्तं परशरीरे प्रविशदिन्द्रियाण्यपि अनुवर्तन्ते मधुकरराजमिव मधुमक्षिकाः । अथ

॥३.३९॥ समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः सा जीवन शब्दवाच्या । तस्याः क्रियाभेदात्प्राणापानादिसंज्ञाभिर्व्यपदेशः तत्र । हृदयान्मुखनासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते ।

नाभिदेशात्पादाङ्गुष्टपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्टय समन्तान्नयनात्समानः । कृकाटिकादेशादा शिरोवृत्तेरुन्नयनादुदानः । व्याप्य नयनात्सर्वशरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सजतेऽतिलघुत्वात् । तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः । सिद्ध्यन्तरमाह ॥

॥३.४०॥ अग्निमावेष्टय व्यवस्थितस्य समानाख्यस्य वायोर्जयात्संयमेन वशीकारान्निरावरणस्याग्नेरुद्भूतत्वात्तेजसा प्रज्वलन्निव

योगी प्रतिभाति । सिद्ध्यन्तरमाह ॥

॥३.४१॥ श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम् । आकाशं व्योम शब्दतन्मात्रकार्यम् । तयोः संबन्धो देशदेशिभावलक्षणस्तस्मिन्कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते, युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः ।

सिद्ध्यन्तरमाह ॥

॥३.४२॥ कायः पाञ्चभौतिकं शरीरं तस्याऽऽकाशेनावकाशदायकेन यः संबन्धस्तत्र संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां च विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरन्क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति । सिद्ध्यन्तरमाह ॥

॥३.४३॥ शरीराद्वहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहंकारदाढर्यद्वारेणोच्यते । ततस्तस्यां कृतात्संयमात्प्रकाशावरणक्षयः सात्त्विस्य चित्तस्य यः प्रकाशस्तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति । अयमर्थः ॥ शरीराहंकारे सति या मनसो बहिर्वृत्तिःसाकल्पितेत्युच्यते । यदा पुनः शरीराहंकारभावं परित्यज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता, तस्यां संयमाद्योगिनः सर्वे चित्तमलाः क्षीयन्ते । तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभवाश्च सिध्दीः प्रतिपाद्यनन्तरं भुवनज्ञानादिरूपा बाह्याः कायव्यूहादिरूपा अभ्यन्तरा परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिः करणलक्षणेन्द्रियभवाः प्राणादिवायुभवाश्च सिध्दीश्चित्तदाढर्यात्समाधौ समाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिध्दये विविधो पायप्रदर्शनायाऽऽह ॥

॥३.४४॥ पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति ।

भूतानि अस्य वश्यानि भवन्तीत्यर्थः । तथाहि ॥ भूतानां परिदृश्यमानं विशिष्टाकारवत्स्थूलरूपं । स्वरूपं चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणं । सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्वेन समुपलभ्यन्ते । अर्थवत्त्वं तेष्वेव गुणेषु भोगापवर्गसंपादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसूक्तधर्मलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति । तद्यथा ॥ प्रथमं स्थूल रूपे संयमं विधाय तदनु स्वरूपे इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्ति । तस्यैव भूतजयस्य फलमाह ॥

॥३.४५॥ १ ॥ अणिमा परमाणुरूपतापत्तिः । २ ॥ महिमा महत्त्वम् । ३ ॥ लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । ४ ॥ गरिमा गुरुत्वम् । ५ ॥ प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । ६ ॥ प्राकाम्यमिच्छानभिघातः । ७ ॥ शरीरान्तः

करणेश्वरत्वमीशित्वम् । ८ ॥ सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्येव भूतानि अनुगामित्वात्तदुक्तं नातिक्रामन्ति । ९ ॥यत्रकामावसायो यस्मिन्विषयेऽस्य काम इच्छा भवति यस्मिन्विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयन्तीत्यर्थः । त तेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । वं सर्वत्र योज्यम् । त तेऽणिमादयोऽष्टौ गुणा महासिद्ध्यय उच्यन्ते । कायसंपद्वक्ष्यमाणा तां प्राप्नोति तध्दर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् । कायसंपदमाह ॥

॥३.४६॥ रूपलावण्यबलानि प्रसिध्दानि । वज्रसंहननत्वं वज्रवत्कठिना संहतिरस्य शरीरे भवतीत्यर्थः । इति कायस्याऽऽविर्भूतगुणसंपत् । एवं भूतजयमभिधाय प्राप्तिभूमिकाविशेष इन्द्रियजयमाह ॥

॥३.४७॥ ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः । स्वरूपं सामान्येनप्रकाशकत्वम् । अस्मिताऽहंकारानुगमः । अन्वयार्थवत्त्वे पूर्ववत् । तेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति । तस्य फलमाह ॥

॥३.४८॥ शरीरस्य मनोवदनुत्तगतिलाभो मनोजवित्वम् । कायानिरपेक्षाणामिन्द्रिायाणां वृत्तिलाभो विकरभावः । सर्ववशित्वं प्रधानजयः । ताः सिध्दयो जितेन्द्रियस्य प्रादुर्भवन्ति ताश्चास्मिञ्शास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन कदेशोऽपि स्वदत वं प्रत्येकमेताः सिध्दयः स्वदन्त इति मधुप्रतीकाः । इन्द्रियजयमभिधायान्तःकरणजयमाह ॥

॥३.४९॥ तस्मिन्शुध्देः सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च समाधेर्भवति । सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वम् । षां चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायो प्राप्तायां विशोका नाम सिध्दिरित्युच्यते । क्रमेण भूमिकान्तरमाह ॥

॥३.५०॥ तस्यामपि विशोकायां सिध्दौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम् । अस्मिन्नेव समाधौ स्थित्युपायमाह ॥

॥३.५१॥ चत्वारो योगिनो भवन्ति । तत्राभ्यासवान्प्रवृत्तमात्रज्योतिः प्रथमः । तंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति ।

तंभरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्थानिनो देवा उपनिमन्त्रयितारो भवन्ति दिव्यस्त्रीरसायनादिकं ढौकयन्ति तस्मिन्नुपनिमन्त्रणे नानेन सङ्गः कर्तव्यः, नापि स्मयः, सङ्गकरणे पुनर्विषयभोगे पतति, स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुत्सहते । अतः सङ्गस्मययोस्तेन वर्जनं कर्तव्यम् ।

॥३.५२॥ क्षणः सर्वान्त्यः कालावयवो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात्प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते । अयमर्थः ॥ अयं  लक्षणोऽमुष्मात्कालक्षणातुत्तरोऽयमस्मांत्पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति । साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः । अस्यैव संयमस्य विषयविवेकोपक्षेपणायाऽऽह ॥

॥३.५३॥ पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति । क्वचिद्भेदहेतुर्जातिः, यथा गौरियं महिषीऽयमिति । जात्या तुल्ययोर्लक्षणं भेदहेतुः, इयं कर्बुरेयमरुणेति । जात्या लक्षणेन चाभिन्नयोर्भेदहेतुर्देशो दृष्टः, यथा तुल्यपरिमाणयोरामलकयोर्भिन्न देशस्थितयोः । यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासात्सूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते । तदुक्तं भवति ॥ यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः । सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह ॥

॥३.५४॥ उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञाय तारकमित्युच्यते । अस्य विषयमाह ॥ 'सर्वविषयमिति' । सर्वाणि तत्त्वानि महदादीनि विषयो यस्येति सर्वविषयम् । स्वभावश्चास्य

सर्वथाविषयत्वम् । सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तेस्तैः परिणामैः सर्वेण प्रकारेणावस्थितानि तत्त्वानि विषयो यस्येति सर्वथाविषयम् । स्वभावान्तरमाह ॥ 'अक्रमं चेति' । निःशेषनानावस्थापरिणतद्वित्र्यात्मकभावग्रहणे नास्य क्रमो विद्यत इति अक्रमम् । सर्वं करतलामलकवद्युगपत्पश्यतीत्यर्थः । अस्माच्च विवेकजात्तारकाख्याज्ज्ञानात् किं भवतीत्याह ॥

॥३.५५॥ सत्त्वपुरुषावुक्तलक्षणौ तयोः शुध्दिसाम्ये कैवल्यं सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्त्या स्वकारणेऽनुप्रवेशः शुध्दिः,पुरुषस्य शुध्दिरुपचरितभोगाभाव इति द्वयोः समानायां शुध्दौ पुरुषस्य कैवल्यमुत्पद्यते मोक्षोभवतीत्यर्थः । तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च संयमसंज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः

पूर्वान्तपरान्तमध्यभवाः सिध्दीरुपदर्श्य समाध्याश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य

समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिध्दये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवाश्च व्याख्याय

विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:30:24.0770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धान्य तेथें घुशी, निधान (घर) तेथें विवशी

  • जेथें धान्य असेल तेथे घुशी जमतात, तसें पुरलेले द्रव्य असतें किंवा संपन्न घर असतें, त्या ठिकाणीं पिशाच्च वसति करतें. जेथें कांहीं लग्गा असेल तेथें लाभांकरितां लोक गोळा होतात. 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.