TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भोजवृत्तिः - समाधिपादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


समाधिपादः
॥१.१॥ अनेन सूत्रेण शास्त्रस्य सम्बन्धभिधेयप्रयोजनान्याख्यायन्ते । अथ ॥ शब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो

युक्तिः समाधनम् । 'युज् समाधौ' अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं

योगानुशासनम् । तदा शास्त्रपरिसमाप्तेरधिकृतं बोध्दव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः ।

तदव्युत्पादनञ्च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः ।

अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । तदुक्तं भवति ॥ व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण

प्रदर्श्यन्ते, तत्साधनसिद्दो योगः कैवल्याख्यं फलमुत्पादयति । तत्र को योगः? इत्याह ॥

॥१.२॥ चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखतया

परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते । स च निरोधः सर्वासां चित्तभूमीनां

सर्वप्राणिनां धर्मः कदाचित् कस्याञ्चित् बुध्दिभूमावाविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुध्दमिति चित्तस्य

भूमयश्चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु

संनिहितेषु वा रजसा प्रेरितं । तच्च सदैव दैत्यदानववादीनाम् । मूढं तमस उद्रेकाकृत्याकृत्य विभागमन्तरेण क्रोधादिभिः

विरुध्दकृत्येष्वेव नियमितं, तच्च सदैव रक्षः पिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्टयेन परिहृत्य दुःखसाधनं

सुखसाधनेष्वेव शब्दादिषु प्रवृत्तं, तच्च सदैव देवानाम् । तदुक्तं भवति ॥ रजसा प्रवृत्तिरूपं, तमसा परापकारनियतं, सत्त्वेन

सुखमयं चित्तं भवति । तास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः । काग्रनिरुध्दरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वात्

समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे तु अयमभिप्रायः ॥ द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानं,

यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्नं शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात्प्रदर्शनं

यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति । अनयोर्द्वयोरेकाग्रनिरुध्दयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं

भवति । काग्रे बहिर्वृत्तिनिरोधः । निरुध्दे च सर्वावृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः । इदानीं

सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे ॥

॥१.३॥ द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति । अयमर्थः ॥

उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुध्दौ चाऽत्मानः स्वरूपेणावस्थानं स्थितिर्भवति ।

व्युत्थानदशायान्तु तस्य किं रूपम्? इत्याह ॥

॥१.४॥ इतरत्र योगादन्यस्मिन्काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रपूत्वम् । अयमर्थः ॥ यादृश्यो वृत्तयो

दुःखमोहसुखाद्यात्मिकाः प्रादुर्भवन्ति तादृग्रूप व संवेद्यते व्यवहर्तृभिः पुरुषः । तदेवं यस्मिन्नेकाग्रतया परिणते चित्तिशक्तेः

स्वस्मिन् स्वरूपे प्रतिष्ठानं भवति, यस्ंमिश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तद्रपाकार व परिभाव्यते, यथा

जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते सच्चित्तम् । वृत्तिपदं व्याख्यातुमाह ॥

॥१.५॥ वृत्तयश्चित्तपरिणामविशेषाः वृत्तिसमुदायलक्षणस्यावयविनो या अवयवभूता वृत्तयस्तदपेक्षया तदप्यप्रत्ययः । तदुक्तं

भवति ॥ पञ्च वृत्तयः कीदृश्यः? क्लिष्टा अक्लिष्टा, क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः । तद्विपरीता अक्लिष्टाः । एता व

पञ्च वृत्तयः संक्षिप्योद्दिश्यन्ते ॥

॥१.६॥ आसां क्रमेण लक्षणमाह ॥ इनका क्रम से लक्षण अगले सूत्रों में करते हैं ॥

॥१.७॥ अत्रातिप्रसिध्दत्वात् प्रमाणानां शास्त्रकारेण भेदलक्षणेनैव गतत्वात् लक्षणस्य पृथक्तल्लक्षणं न कृतम् । प्रमाणलक्षणन्तु

अविसंवादिज्ञानं प्रमाणमिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना

वृत्तिः प्रत्यक्षम् । गृहीतसम्बन्धाल्लिङ्गात् लिङ्गिनि सामान्यात्मनाऽध्यवसायोऽनुमानम् । आप्तवचनं आगमः । एवं प्रमाणरूपां

वृत्तिं व्याख्याय विपर्य्यरूपामाह ॥

॥१.८॥ अतथाभूतेऽर्थे तथोत्पद्यानं ज्ञानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रूपप्रतिष्ठमिति । तस्यार्थस्य यद्रूयं

तस्मिन्रूपे न प्रतितिष्ठति तस्यार्थस्य यत्पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम् ।

यथा स्थाणुर्वा पुरुषो वेति । विकल्पवृत्तिं व्याख्यातुमाह ॥

॥१.९॥ शब्दजनितं ज्ञानं शब्दज्ञानं, तदनु पतितुं शीलं यस्य स शब्दज्ञानानुपाती । वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः

स विकल्प इत्युच्यते । यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवत्तस्य कम्बल इति शब्दजनिते ज्ञाने षष्ठया योऽध्यवसितो

भेदस्तमिहाविद्यमानमपि समारोप्य प्र्रवत्ततेऽध्यवसायः । वस्तुतस्तु चैतन्यमेव पुरुषः । निद्रां व्याख्यातुमाह ॥

॥१.१०॥ अभावप्रत्यय आलम्बनं यस्या वृत्तेः सा तथोक्ता । तद्दुक्तं भवति ॥ या सन्ततमुद्रिक्तत्वात्तमसः

समस्तविषयपरित्यागेन प्र्रवत्तते वृत्तिः सा निद्रा । तस्याश्च सुखमहमस्वाप्समिति स्मृतिदर्शनात्

स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम् । स्मृतिं व्याख्यातुमाह ॥

॥१.११॥ प्रमाणेनानुभूतस्य विषयस्य योऽयमसंप्रमोषः संस्कारद्वारेण बुध्दावारोहः सा स्मृतिः । तत्र प्रमाणविपर्य्यविकल्पा

जाग्रदवस्था । त व तदनुभवबलात् प्रत्यक्षायमाणाः स्वप्नाः । निद्रा तु असंवेद्यमानविषया । स्मृतिश्च

प्रमाणविपर्ययविकल्पनिद्रानिमित्ता । एवं र्वृत्तीव्याख्याय सोपायं निरोधं व्याख्यातुमाह ॥

॥१.१२॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे, ताभ्यां प्रकाशवृत्तिनियमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति । तासां

विनिवृत्तबाह्यभिनिवेशानां अन्तर्मुखतया स्वकारण व चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण

तद्वैमुख्यमुत्पाद्यते । अभ्यासेन च सुखजनकशान्तप्रवाहप्रदर्शनद्वारेण दृढं सर््थैय्यमुत्पाद्यते । इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ।

अभ्यासं व्याख्यातुमाह ॥

॥१.१३॥ वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामः स्थितिस्तस्यां यत्र उत्साहः पुनः पुनस्तत्त्वेन चेतसि निवेशनमभ्यास

इत्युच्यते । तस्यैव विशेषमाह ॥

॥१.१४॥ बहुकालं नैरन्तर्य्येण आदरातिशयेन च सेव्यमानो दृढ़भूमिः स्थिरो भवति । दाढर्याय प्रभवतीत्यर्थः । वैराग्यस्य

लक्षणमाह ॥

॥१.१५॥ द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यमानः शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते

गुरुमुखादित्यनुश्रवो वेदस्तत्समधिगत आनुश्रविकः तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्ध्दस्य या वशीकारसंज्ञा

ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्षंस्तद्बैराग्यमुच्यते । तस्यैव विशेषमाह ॥

॥१.१६॥ तद्वैराग्यं परं प्रकृष्टं प्रथमं वैराग्यं विषयविषयं । द्वितीयं गुणविषयमुत्पन्नगुणपुरुषविवेकख्यातेरेव भवति,

निरोधसमाधेरत्यन्तानुकूलत्वात् । एवं योगस्य स्वरूपमुक्त्वा संप्रज्ञातस्वरूपं भेदमाह ॥

॥१.१७॥ समाधिरिति शेषः । सम्यक्संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन स संप्रज्ञातः;

समाधिर्भावनाविशेषः । स वितर्कादिभेदाच्चतुर्विधः ॥ सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना भाव्यस्य

विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम् ॥ ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जड़ाजड़भेदात् ।

जड़ानि चतुर्विंशतिः । अजड़ः पुरुषः । तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वापरानुसंधानेन

शब्दार्थोल्लेखसंभेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसन्धानशब्दोल्लेखशून्यत्वेन यदा

भावना प्र्रवत्तते तदा निर्वितर्कः । तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्र्रवत्तते

तदा सविचारः । तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धार्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते । वं

पर्यन्तः समाधिर्ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा तु रजस्तमोलेशानुविध्दमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः

सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात् सानन्दः समाधिर्भवति । अस्मिन्नेव समाधौ ये बध्दधृतयस्तत्त्वान्तरं

प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतं

शुध्दसत्त्वमालम्बनीकृत्य या प्र्रवत्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भवात् चितिशक्तेरुद्रेकात् सत्तामात्रावशेषत्वेन समाधिः

सास्मित इत्युच्यते । न चाहङ्कारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तः करणमहमिति उल्लेखेन विषयान् वेदयते

सोऽहङ्कारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रं अवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये

कृतपरितोषा परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते । ये परं पुरुषं ज्ञात्वा

भावनायां प्र्रवत्तन्ते तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते । तत्र संप्रज्ञाते समाधौ चतस्रोऽवस्थाः

शक्तिरूपतयाऽवतिष्ठन्ते । तत्रैकैकस्यास्त्याग उत्तरोत्तरा इति चतुरवस्थोऽस्यं संप्रज्ञातः समाधिः । असंप्रज्ञातमाह ॥

॥१.१८॥ विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययस्तस्याभ्यासः पौनःपुन्येन

चेतसि निवेशनम् । तत्र या काचित् वृत्तिरुल्लसति तस्या नेति नेतीतिनैरन्तर्येण पर्युदसनं तत्पूर्वः संप्रज्ञातसमाधेः

संस्कारशेषोऽन्यस्तद्विलक्षणोऽसंप्रज्ञात इत्यर्थः । न तत्र किञ्चिद्वेद्यम् संप्रज्ञायते इति असंप्रज्ञातो निर्बीजः समाधिः । इह

चतुर्विधश्चित्तस्य परिणामः । व्युत्थानं समाधिप्रारम्भो काग्रता निरोधश्च । तत्र क्षिप्तमूढ़े चित्तभूमी व्युत्थानं । विक्षिप्ताभूमिः

सत्वोद्रेकात् समाधिप्रारम्भः । निरुध्दैकाग्रते च पर्य्यन्तभूमी । प्रतिपरिणामञ्च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः

समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते । तज्जाश्चैकाग्रताजैः, निरोधजनितैरेकाग्रताजाः संस्काराः स्वरूपञ्च हन्यन्ते । यथा

सुवर्णसम्वलितं ध्मायमानं सीसकमात्मानं सुवर्णमलञ्च निर्दहति । वमेकाग्रता ॥ जनितान् संस्कारान् निरोधजाः स्वात्मानञ्च

निर्दहन्ति । तदेवं योगस्य स्वरूपं भेदं संक्षेपेणोपायञ्च अभिधाय विस्तररूपेणोपायं योगाभ्यासप्रदर्शनपूर्वकं वक्तुमुपक्रमते ॥

॥१.१९॥ विदेहा प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे व्याख्याताः, तेषां समाधिर्भवप्रत्ययः, भवः संसारः स व प्रत्ययः कारणं

यस्य स भवप्रत्ययः । अयमर्थः ॥ अधिमात्रान्तर्भूता व ते संसारे तथाविधसमाधिभाजो भवन्ति । तेषां

परतत्त्वादर्शनाद्योगाभासोऽयम् । अतः परतत्त्वज्ञाने तद्भावनायाञ्च मुक्तिकामेन महान्यत्नो विधेय इत्येतदर्थमुपदिष्टम् ।

तदन्येषान्तु ॥

॥१.२०॥ विदेहप्रकृतिलयव्यतिरिक्तानां योगिनां श्रध्दादिपूर्वकः श्रध्दादयः पूर्वे उपाया यस्य स श्रध्दादिपूर्वकः । ते च श्रध्दादयः

क्रमादुपायोपेयभावेन प्र्रवत्तमानाः संप्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रध्दा योगविषये चेतसः प्रसादः । वर्ीय्यमुत्साहः ।

स्मृतिरनुभूतासंप्रमोधः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्रश्रध्दावतो वर्ीय्यं जायते योगविषये उत्साहवान् भवति ।

सोत्साहस्य च पाश्चात्यानुभूतिषु भूमिषु स्मृतिरुत्पद्यते तत्स्मरणाच्च चेतः समाधीयते । समाहितचित्तश्च भाव्यं सम्यग्विवेकेन

जानाति । त ते संप्रज्ञातस्य समाधेरुपायाः । तस्याभ्यासात् पराच्च वैराग्यात् भवत्यसंप्रज्ञातः । उक्तोपायवतां योगिनां

उपायभेदाद्भेदानाह ॥

॥१.२१॥ समाधिलाभः इति शेषः । संवेगः क्रियाहेतुर्दृढ़तरः संस्कारः । स तीव्रो येषामधिमात्रोपायानां तेषामासन्नः समाधिलाभः

समाधिफलाऽऽसन्नं भवति शीघ्रमेव सम्पद्यत इत्यर्थः । के ते तीव्रसंवेगा? इत्यत आह ॥

॥१.२२॥ तेभ्य उपायेभ्यो मृद्वादिभेदभिन्नेभ्य उपायवतां विशेषो भवति । मृदुर्मध्योऽधिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेद॥

मध्यसंवेग॥तीव्रसंवेगभेदात् त्रिधा । तद्भेदेन च नवयोगिनो भवन्ति । मृदूपायो॥मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । मध्योपायो-

-मृत्युसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्रोपायो॥मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्रोपाये तीव्रसंवेगे च महान्

यत्नःकर्तव्य इति भेदोपदेशः । इदानीमेतदुपायविलक्षणं सुगममुपायान्तरं दर्शयितुमाह ॥

॥१.२३॥ ईश्वरो वक्ष्यमाणलक्षणः तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणं विषयसुखादिकं

फलमनिच्छन् सर्वाः क्रियास्तस्मिन्परमगुरावर्पयति, तत् प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः । ईश्वरस्य

प्रणिधानात् समाधिलाभ इत्युक्तं, तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकं उपासनाक्रमं तत्फलञ्च क्रमेण वक्तुमाह ॥

॥१.२४॥ क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः । विहितप्रतिषिध्दव्यामिश्ररूपाणि कर्माणि । विपच्यन्त इति विपाकाः

कर्मफलानि जात्यायुर्भोगाः । आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया वासनाख्याः संस्कारास्तैरपरामृष्टस्त्रिष्वपि कालेषु च

संस्पृष्टः । पुरुषविशेषः ॥ अन्येभ्यः पुरुषेभ्यो विशिष्यत इति विशेषः । ईश्वर ईशनशील इच्छामात्रेण सकलजगदुध्दरणक्षमः ।

यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथापि चित्तगतास्तेषामपदिश्यते । यथा योध्दृगतौ जयपराजयौ स्वामिनः । अस्य तु

त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति । अतः स विलक्षण व भगवानीश्वरः । तस्य च तथाविधमैश्वर्य्यमनादेः

सत्त्वोत्कर्षात् । तस्य सत्त्वोत्कर्षश्च प्रकृष्टाज्ज्ञानादेव । न च अनयोज्र्ञानैश्वर्य्ययोरितरेतराश्रयत्वं, परस्परानपेक्षत्वात् । ते द्वे

ज्ञानैश्वर्ये ईश्वरसत्त्वे वर्तमाने अनादिभूते, तेन च तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः

प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले

सात्त्विे धर्मात्मप्रख्ये प्रतिसंक्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य, तस्य केवल व सात्त्विः परिणाम

उत्कर्षवाननादिसंबन्धेन भोग्यतया व्यवस्थितः, अतः पुरुषान्तरविलक्षणतया स वेश्वरः । मुक्तात्मानां तु पुनः क्लेशादियोगस्तैस्तैः

शास्त्रोक्तैरुपायैर्निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम् । न चेश्वराणामनेकत्वं, तेषां तुल्यत्वे

भिन्नाभिप्रायत्वात्कार्यस्यैवानुपपत्तेः । उत्कर्षापकर्षयुक्तत्वे च वोत्कृष्टः स वेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्वर्यस्य । एवमीश्वरस्य

स्वरूपमभिधाय प्रमाणमाह ॥

॥१.२५॥ तस्मिन्भगवति सर्वज्ञत्वस्य यद्बीजमतीतानागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद्बीजमिव बीजं तत्तत्र

निरतिशयं काष्ठां प्राप्तम् । दृष्टा ह्यल्पत्वमहत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः । यथा परमाणाबल्पत्वस्याऽऽकाशे

परममहत्त्वस्य । वं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स

ईश्वरः । यद्यपि सामान्यमात्रेऽनुमानमात्रस्य पर्यवसितत्वान्न विशेषावगतिः संभवति तथाऽपि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा

अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं, तस्य

कारुणिकत्वाद्भूतानुग्रह व प्रयोजनम् । कल्पप्रलयमहाप्रलयेषु निःशेषान्संसारिण उध्दरिष्यामीति तस्याध्यवसायः । यद्यस्येष्टं

तत्तस्य प्रयोजनम् । एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह ॥

॥१.२६॥ आद्यानां स्रटृणां ब्रह्मादीनामपि स गुरुरुपदेष्टा । यतः स कालेन नावच्छिद्यते, अनादित्वात् । तेषां पुनरादिमत्त्वादस्ति

कालेनावच्छेदः । एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह ॥

॥१.२७॥ इत्थमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः, प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणव ओंकारः,

तयोश्च वाच्यवाचकभावलक्षणः सम्बन्धो नित्यः संकेतेन प्रकाश्यते न तु केनचित्क्रियते, यथा पितापुत्रयो ॥ र्विद्यमान व

संबन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित्प्रकाश्यते । उपासनमाह ॥

॥१.२८॥ तस्य सार्धत्रिमात्रस्य प्रणवस्य जपो यथावदुच्चारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनः पुनश्चेतसि

विनिवेशनमेकाग्रताया उपायः । अतः समाधिसिध्दये योगिना प्रणवो जप्यस्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति । उपासनायाः

फलमाह ॥

॥१.२९॥ तस्माज्जपात्तदर्थभावनाच्च योगिनः प्रत्यक्चेतनाधिगमो भवति, विषय प्रातिकूल्येन स्वान्तःकरणाभिमुखमञ्चति या

चेतना दृक्शक्तिः सा प्रत्यक्चेतना तस्या अधिगमो ज्ञानं भवति । अन्तराया वक्ष्यमाणास्तेषामभावः शक्तिप्रतिबन्धोऽपि भवति ।

अथ केऽन्तराया इत्याशङ्कायामाह ॥

॥१.३०॥ नवैते रजस्तमोबलात्प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति । तैरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र १ ॥

व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । २ ॥ स्त्यानमकर्मण्यता चित्तस्य । ३ ॥ उभयकोटयालम्बनं ज्ञानं संशयः ॥ योगः साध्यो न

वेति । ४ ॥ प्रमादोऽननुष्ठानशीलता समाधिसाधनेष्वौदासीन्यम् । ५ ॥ आलस्यं कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुः । ६

॥ अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गर्धः । ७ ॥ भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम् । ८ ॥ अलब्धभूमिकत्वं

कुतश्चिन्निमित्तात्समाधिभूमेरलाभोऽसंप्राप्तिः । ९ ॥ अनवस्थितत्वं लब्धायामपि समाधिभूमाव चित्तस्य तत्राप्रतिष्ठा । त ते

समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इत्युच्यन्ते । चित्तविक्षेपकारकानन्यानप्यन्तरायान्प्रतिपादयितुमाह ॥

॥१.३१॥ कुतश्चिन्निभित्तादुत्पन्नेषु विक्षेपेषु ते दुःखादयः प्रवर्तन्ते । तत्र दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः ।

यद्बाधात्प्राणिनस्तदपघाताय प्रवर्तन्ते । दौर्मनस्यं बाह्याभ्यन्तरैः कारणैर्मनसोदौस्थ्यम् । अङ्गमेजयत्वो सर्वाङ्गीणो

वेपथुरासनमनः स्थैर्यस्य बाधकः । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठयं वायुं निःश्वसिति सः प्रश्वासः । त ते

विक्षेपैः, सह प्रवर्तमाना यथोदिताभ्यासवैराग्याताभ्यां निरोध्दव्या इत्येषामुपदेशः । सोपद्रवविक्षेपप्रतिषेधार्थमुपायान्तरमाह ॥

॥१.३२॥ तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन्कस्ंमिश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनः पुनर्निवेशनं कार्यः । मद्बलात्

प्रत्युदितायामेकाग्रतायां विक्षेपाः प्रशममुपायन्ति । इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह ॥

॥१.३३॥ मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षौदासीन्यम् । ता यथाक्रमं सुखितेषु दुःखितेषु पुण्यवत्सु

अपुण्यवत्सु च विभावयेत् । तथा हि ॥ सुखितेषु साधु षां सुखित्वमिति मैत्रीं कुर्यान्न तुर् ईष्याम् । दुःखितेषु कथं नु नामैषां

दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्न तु किमेते पुण्यवन्त इति विद्वेषम् ।

अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मैत्र्यादिपरिकर्मणा

चित्ते प्रसीदति सुखेन समाधेराविर्भावो भवति । परिकर्म चैतद्बाह्यं कर्म । यथा गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये

संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति वं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं

संप्रज्ञातादिसमाधियोग्यं संपद्यते । रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः । तौ चेत्समूलमुन्मूलितौ स्यातां तदा प्रसन्नत्वान्मनसो

भवत्येकाग्रता । उपायान्तरमाह ॥

॥१.३४॥ प्रच्छर्दनं कौष्ठयस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम् । विधारणं मात्राप्रमाणेनैव प्राणस्य

वायोर्बहिर्गतिविच्छेदः । स च द्वाभ्यां प्रकाराभ्यां बाह्यस्याभ्यन्तरापूरणेन पूरितस्य वा तत्रैव निरोधेन । तदेवं

रेचकपूरककुम्भकभेदेन त्रिविधः प्राणायामश्चित्तस्य स्थितिमेकाग्रतया निबध्नाति, सर्वासामिन्द्रियवृत्तिनां प्राणवृत्तिपूर्वकत्त्वात् ।

मनः प्राणयोश्च स्वव्यापारे परस्परमेकयोगक्षेमत्वात्क्षीयमाणः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति ।

समस्तदोषक्षयकारित्वं चास्याऽऽगमे श्रूयते । दोषकृताश्च सर्वा विक्षेपवृत्तयः । अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ।

इदानीमुपायान्तरप्रदर्शनोपक्षेपेण संप्रज्ञातस्य समाधेः पूर्वाङ्गं कथयति ॥

॥१.३५॥ विषया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति । तथा हि

नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृश्येव जिह्वाग्रे रससंवित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् ।

जिह्वामूले शब्दसंवित् । तदेव तत्तदिन्द्रियद्वारेण तस्ंमिस्तस्मिन्दिव्यविषये जायमाना संविच्चित्तस्यैकाग्रताया हेतुर्भवति । अस्ति

योगस्य फलमिति योगिनः समाश्वासोत्पादनात् । एवंविधमेवोपायान्तरमाह ॥

॥१.३६॥ प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्य शेषः । ज्योतिः शब्देन सात्त्विः प्रकाश उच्यते । स प्रशस्तो

भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मति प्रवृत्तिः । विशोका विगतः सुखमयत्वाभ्यासवशाच्छोको रजः परिणामो यस्याः

सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः ॥ हृत्पद््मसंपुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः

प्रज्ञालोकात्सर्ववृत्तिपरिक्षये चेतसः स्थैर्यमुत्पद्यते । उपायान्तरप्रदर्शनद्वारेण संप्रज्ञातसमाधेर्विषयं दर्शयति ॥

॥१.३७॥ मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयाभिलाषस्तस्य यच्चित्तं परिहृतक्लेशं तदालम्बनीकृतं

चेतसः स्थितिहेतुर्भवति ।

॥१.३८॥ प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोत्मात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा पूर्वोक्तलक्षणा । तदालम्बनं स्वप्नालम्बनं

निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थितिं करोति । नानारुचित्वात्प्राणिनां यस्मिन्कस्ंमिश्चिद्वस्तुनि योगिनः श्रध्दा भवति

तस्य ध्यानेनापीष्टसिध्दिरिति प्रतिपादयितुमाह ॥

॥१.३९॥ यथाभिमतवस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतः स्थिरीभवति । एवमुपायान्प्रदर्श्य

फलदर्शनायाऽऽह ॥

॥१.४०॥ भिरुपायैश्चित्तस्य स्थैर्य भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते, न

क्वचित्तपरमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिहन्यत इत्यर्थः । वं स्थूलमाकाशादिपरममहत्पर्यन्तं भावयतो न क्वचिच्चेतसः

प्रतिघात उत्पद्यते सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः । एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्याह ॥

॥१.४१॥ क्षीणा वृत्तयो यस्य तत्क्षीणवृत्ति तस्य ग्रहीतृग्रहणग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति ।

तत्स्थत्वं तत्रैकाग्रता, तदञ्जनता तन्मयत्वं, क्षीणभूते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः, तथाविधा समापत्तिः, तद्रूपः परिणामो

भवतीत्यर्थः । दृष्टान्तमाह ॥ अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात्तत्तद्रूपापत्तिरेवं निर्मलस्य

चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्ति । यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथाऽपि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु

इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ व समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठ, केवलस्य पुरुषस्य

ग्रहीतुर्भाव्यत्वासंभवात् । ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । वं ग्रहणे ग्रहीतरि च समापन्नं तद्रूपपरिणामत्वं

बोध्दव्यम् । इदानीमुक्ताया व समापत्तेश्चातुर्विध्यमाह ॥

॥१.४२॥ श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः । अर्थो जात्यादिः । ज्ञानं सत्त्वप्रधाना बुध्दिवृत्तिः । विकल्प उक्तलक्षणः । तैः

संकीर्णा यस्यामेते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यनेनाऽऽकारेण सा

सवितर्का समापत्तिरुच्यते । उक्तलक्षणविपरीतां निर्वितर्कामाह ॥

॥१.४३॥ शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का

समापत्तिः । भेदान्तरं प्रतिपादयितुमाह ॥

॥१.४४॥ तयैव सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता । कीदृशी, सूक्ष्मविषया

सूक्ष्मस्तन्मात्रेन्द्रियादिर्विषयो यस्याः सा तथोक्ता । तेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियालम्बना ।

शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा ।

देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा । अस्या व सूक्ष्मविषयायाः

किंपर्यन्तः सूक्ष्मविषय इत्याह ॥

॥१.४५॥ सविचारनिर्विचारयोः समापत्त्योर्यत्सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानं ॥ न क्वचिल्लीयते न वा किंचिल्लिङ्गति

गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मविषयत्वम् । तथा हि ॥ गुणानां परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं

लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतेन्द्रियाणि । अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि । लिङ्गमात्रं बुध्दिः । अलिङ्गं

प्रधानमिति । नातः परं सूक्ष्ममस्तीत्युक्तं भवति । एतासां समापत्तिनां प्रकृते प्रयोजनमाह ॥

॥१.४६॥ ता वोक्तलक्षणाः समापत्तयः सह बीजेनाऽऽलम्बनेन वर्तत इति सबीजः संप्रज्ञातः समाधिरित्युच्यते, सर्वासां

सालम्बनत्वात् । अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह ॥

॥१.४७॥ निर्विचारत्वं व्याख्यातम् । वैशारद्यं नैर्मल्यम् । सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि

सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निर्विकल्परूपाया निर्विचारायाः तस्यास्तु निर्विचारायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये

सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाह योग्यं भवति । तदेव चित्तस्य वैशारद्यं यत्स्थितौ दाढर्यम् ।

तस्मिन्सति किं भवतीत्याह ॥

॥१.४८॥

तं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाऽऽच्छाद्यते सा

तंभरा प्रज्ञा तस्मिन्सति भवतीत्यर्थः । तस्माच्च प्रज्ञालोकात्सर्वं यघावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति । अस्याः

प्रज्ञान्तराद्वैलक्षण्यमाह ॥

॥१.४९॥ श्रुतमागमज्ञानम्, अनुमानमुक्तलक्षणम्, ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि

शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् । इयं पुनर्निर्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् ।

अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते । अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य

इत्युपदिष्टं भवति । अस्याः प्रज्ञायाः फलमाह ॥

॥१.५०॥ तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति

स्वकार्यकरणाक्षमान्करोतीत्यर्थः । यतस्तत्त्वरूपतयाऽऽनया जनिताः संस्कारा बलबत्त्वादतत्त्वरूपप्रज्ञाजनितान्संस्कारान्बाधितुं

शक्नुवन्ति । अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति । एवं संप्रज्ञातं समाधिमभिधायासंप्रज्ञातं वक्तुमाह ॥

॥१.५१॥ तस्यापि संप्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या या संस्कारमात्राद्वृत्तिरुदेति

तस्यास्तस्या नेति नेतीति केवलं पर्युदसनान्निर्बीजः समाधिराविर्भवति । यस्मिन्सति पुरुषः स्वरूपनिष्ठः शुध्दो भवति ।

तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय

संप्रज्ञातासंप्रज्ञातभेदेन योगस्य मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्यं

सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनाक्रमं तत्फलानि च निर्णीय चित्तविक्षेपांस्तत्सहभुवश्च

दुःखादीन्विस्तरेण च तत्प्रतिषेधोपायानेकत्त्वाभ्यासमैत्र्यादीन्प्राणायामादीन्संप्रज्ञातासंप्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीन्

च आख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः सफलाः स्वस्वविषयसहिताश्चोक्त्वा संप्रज्ञातासंप्रज्ञातयोरुपसंहारमभिधाय

सबीजपूर्वको निर्बीजः समाधिरभिहित इति व्याकृतो योगपादः ।

इति श्री भोजदेवविरचितायां पातञ्जलयोगशास्त्रसूत्रवृत्तौ प्रथमः समाधिपादः॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:28:05.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

personology

  • व्यक्तिमत्वकेंद्री मानसशास्त्र 
  • (view that behaviour should be studied in relation to the centre or core of personality) 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.