द्वितीयः अध्यायः - द्वितीयम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]

२.१ - न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्
(पूर्वपक्ष-सूत्र)

२.२ - शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.३ - अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात्
(अर्थापत्तिप्रामाण्यपरीक्षा)

२.४ - अनर्थापत्तौ अर्थापत्त्यभिमानात्
(नानैकान्तिकत्वमर्थापत्तेः)

२.५ - प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-)

२.६ - तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्
(सिद्धान्त-सूत्र) (अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्]

२.७ - न अभावप्रामाण्यं प्रमेयासिद्धेः
(पूर्वपक्ष-सूत्र)

२.८ - लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः
(उदाहरण सूत्र)

२.९ - असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः
(सिद्धान्त-सूत्र)

२.१० - तत्सिद्धेः अलक्षितेषु अहेतुः
(पूर्वपक्ष-सूत्र)

२.११ - न, लक्षणावस्थितापेक्षसिद्धेः
(सिद्धान्त-सूत्र)

२.१२ - प्राक् उत्पत्तेः अभावोपपत्तेः च
(सिद्धान्त-सूत्र)
(शब्दानित्यत्वपरीक्षाप्रकरणम्(१३-३९)

२.१३ - आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च
(शब्दानित्यत्व-प्रतिपादन-सूत्र)

२.१४ - न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च
(सिद्धान्त-सूत्र)

२.१५ - तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः
(शब्दानित्यत्व-प्रतिपादन-सूत्र)
(सिद्धान्त-सूत्र)

२.१६ - सन्तानानुमानविशेषणात्
(शब्दानित्यत्व-प्रतिपादन-सूत्र)
(सिद्धान्त-सूत्र)

२.१७ - कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
(शब्दानित्यत्व-प्रतिपादन-सूत्र)
(सिद्धान्त-सूत्र)

२.१८ - प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च
(शब्दानित्यत्व-प्रतिपादन-सूत्र)

२.१९ - तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः
(शब्दानित्यत्व-प्रतिपादन-सूत्र)

२.२० - अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात्
(सिद्धान्त-सूत्र)

२.२१ - अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः
(सिद्धान्त-सूत्र)

२.२२ - अस्पर्शत्वात्
(सिद्धान्त-सूत्र)

२.२३ - न, कर्मानित्यत्वात्
(सिद्धान्त-सूत्र)

२.२४ - न, अणुनित्यत्वात्
(सिद्धान्त-सूत्र)

२.२५ - सम्प्रदानात्
(सिद्धान्त-सूत्र)

२.२६ - तदन्तरालानुपलब्धेः अहेतुः
(सिद्धान्त-सूत्र)

२.२७ - अध्यापनात् अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.२८ - उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.२९ - अभ्यासात्
(सिद्धान्त-सूत्र)

२.३० - न अन्यत्वे अपि अभ्यासस्य उपचारात्
(सिद्धान्त-सूत्र)

२.३१ - अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः
(सिद्धान्त-सूत्र)

२.३२ - तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः
(सिद्धान्त-सूत्र)

२.३३ - विनाशकारणानुपलब्धेः
(सिद्धान्त-सूत्र)

२.३४ - अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः
(सिद्धान्त-सूत्र)

२.३५ - उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः
(सिद्धान्त-सूत्र)

२.३६ - पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः
(सिद्धान्त-सूत्र)

२.३७ - विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
(सिद्धान्त-सूत्र)

२.३८ - अस्पर्शत्वात् अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.३९ - विभक्त्यन्तरोपपत्तेः च समासे
(सिद्धान्त-सूत्र)
(शब्दपरिणामपरीक्षाप्रकरणम्(४०-५६)

२.४० - विकारादेशोपदेशात् संशयः
(पूर्वपक्ष-सूत्र)

२.४१ - प्रकृतिविवृद्धौ विकारविवृद्धेः
(सिद्धान्त-सूत्र)

२.४२ - न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः
(सिद्धान्त-सूत्र)

२.४३ - द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः
(उदाहरणसूत्र)

२.४४ - न, अतुल्यप्रकृतीनाम् विकारविकल्पात्
(सिद्धान्त-सूत्र)

२.४५ - द्रव्यविकारवैषम्यवत् वर्णविकारविकलः
(पूर्वपक्ष-सूत्र)

२.४६ - न, विकारधर्मानुपपत्तेः
(सिद्धान्त-सूत्र)

२.४७ - विकारप्राप्तानाम् अपुनरापत्तेः
(सिद्धान्त-सूत्र)

२.४८ - सुवर्णादीनां पुनरापत्तेः अहेतुः
(पूर्वपक्ष-सूत्र)

२.४९ - न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्
(सिद्धान्त-सूत्र)

२.५० - वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.५१ - सामान्यवतो धर्मयोगो न सामान्यस्य
(सिद्धान्त-सूत्र)

२.५२ - नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात्
(सिद्धान्त-सूत्र)

२.५३ - नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः
(पूर्वपक्ष-सूत्र)

२.५४ - अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः
(पूर्वपक्ष-सूत्र)

२.५५ - विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.५६ - प्रकृत्यनियमात्
(सिद्धान्त-सूत्र)

२.५७ - अनियमे नियमात् न अनियमः
(पूर्वपक्ष-सूत्र)

२.५८ - नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.५९ - गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः
(सिद्धान्त-सूत्र)
(शब्दशक्तिपरीक्षाप्रकरणम्]

२.६० - ते विभक्त्यन्ताः पदम्
(पद-लक्षण-सूत्रम्)

२.६१ - व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः
(पूर्वपक्ष-सूत्र)
(व्यक्तिवाद-अवान्तरप्रकरणम्]
२.६२ - याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः
(पूर्वपक्ष-सूत्र)

२.६३ - न, तत् अनवस्थानात्
(सिद्धान्त-सूत्र)

२.६४ - सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः
(सिद्धान्त-सूत्र)
(आकृतिवाद-अवान्तरप्रकरणम्]

२.६५ - आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः
(पूर्वपक्ष-सूत्र)
(जातिवाद-अवान्तरप्रकरणम्]

२.६६ - व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः
(पूर्वपक्ष-सूत्र)

२.६७ - न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः
(सिद्धान्त-सूत्र)
(सिद्धान्तवाद-अवान्तरप्रकरणम्]

२.६८ - व्यक्त्याकृतिजातयः तु पदार्थः
(सिद्धान्त-सूत्र)

२.६९ - व्यक्तिः गुणविशेषाश्रयः मूर्तिः
(सिद्धान्त-सूत्र)

२.७० - आकृतिः जातिलिङ्गाख्या
(सिद्धान्त-सूत्र)

२.७१ - समानप्रसवात्मिका जातिः
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः च अयम् द्वितीयाध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP