TransLiteral Foundation

द्वितीयः अध्यायः - प्रथमम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


प्रथमम् आह्निकम्
(संशयपरीक्षाप्रकरणम्]
१.१ - समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः
(संशय-)

१.२ - विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च
(संशय-)

१.३ - विप्रत्तिपत्तौ च संप्रत्तिपत्तेः
(संशय-)

१.४ - अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः
(संशय-)

१.५ - तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
(संशय-)

१.६ - यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा
(संशय-)

१.७ - यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः
(संशय-) (प्रमाणसामान्यपरीक्षाप्रकरणम्]

१.८ - प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः
(पूर्वपक्षसूत्रम्)

१.९ - पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः
(पूर्वपक्षसूत्रम्)

१.१० - पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
(पूर्वपक्षसूत्रम्)

१.११ - युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम्
(पूर्वपक्षसूत्रम्)

१.१२ - त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
(पूर्वपक्षसूत्रम्)

१.१३ - सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः
(पूर्वपक्षसूत्रम्)

१.१४ - तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
(पूर्वपक्षसूत्रम्)

१.१५ - त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः
(पूर्वपक्षसूत्रम्)

१.१६ - प्रमेया च तुलाप्रामाण्यवत्
(पूर्वपक्षसूत्रम्)

१.१७ - प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः
(पूर्वपक्षसूत्रम्)

१.१८ - तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः
(पूर्वपक्षसूत्रम्)

१.१९ - न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः
(सिद्धान्तलक्षणम्)

१.२० - क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः
(सिद्धान्तलक्षणम्) (प्रत्यक्षपरीक्षाप्रकरणाम्]

१.२१ - प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
(प्रत्यक्षलक्षण-)
(प्रत्यक्षलक्षणपरीक्षा)

१.२२ - न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो)

१.२३ - दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो)

१.२४ - ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्)

१.२५ - तदयौगपद्यलिङ्गत्वात् च न मनसः
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)

१.२६ - प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)

१.२७ - सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)

१.२८ - तैः च अपदेशः ज्ञानविशेषाणाम्
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)

१.२९ - व्याहतत्वात् अहेतुः
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)

१.३० - न अर्थविशेषप्राबल्यात्
(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)
(विषयपरीक्षा-प्रकरणाम्]

१.३१ - प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः
(पूर्वपक्ष-सूत्र)

१.३२ - न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात्
(सिद्धान्त-सूत्र)

१.३३ - न चैकदेशोपलब्धिरवयविसद्भावात्
(सिद्धान्त-सूत्र) (प्रसङ्गोपात्ता अवयविपरीक्षा]

१.३४ - साध्यत्वात् अवयविनि सन्देहः
(पूर्वपक्ष-सूत्र)

१.३५ - सर्वाग्रहणम् अवयव्यसिद्धेः
(सिद्धान्त-सूत्र)

१.३६ - धारणाकर्षणोपपत्तेः च
(सिद्धान्त-सूत्र)

१.३७ - सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम्
(सिद्धान्त-सूत्र)
(अनुमानपरीक्षाप्रकरणम्]
१.३८ - रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम्
(पूर्वपक्ष-सूत्र)

१.३९ - न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्
(सिद्धान्त-सूत्र)
(वर्तमानकालपरीक्षा)

१.४० - वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः
(पूर्वपक्ष-सूत्र)

१.४१ - तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्
(सिद्धान्त-सूत्र)

१.४२ - न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः
(सिद्धान्त-सूत्र)

१.४३ - वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः
(सिद्धान्त-सूत्र)

१.४४ - कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्
(सिद्धान्त-सूत्र)

(उपमानपरीक्षाप्रकरणम्]

१.४५ - अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः
(सिद्धान्त-सूत्र)

१.४६ - प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः
(पूर्वपक्ष-सूत्र)

१.४७ - प्रत्यक्षेण अप्रत्यक्षसिद्धेः
(सिद्धान्त-सूत्र)

१.४८ - न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः
(सिद्धान्त-सूत्र)

१.४९ - तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः
(सिद्धान्त-सूत्र)
(शब्दसामान्यपरीक्षाप्रकरणम्]

१.५० - शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात्
(पूर्वपक्ष-सूत्र)

१.५१ - उपलब्धेः अद्विप्रवृत्तित्वात्
(पूर्वपक्ष-सूत्र)

१.५२ - सम्बन्धात् च
(पूर्वपक्ष-सूत्र)

१.५३ - आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः
(सिद्धान्त-सूत्र)

१.५४ - पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः
(सिद्धान्त-सूत्र)

१.५५ - शब्दार्थव्यवस्थानात् अप्रतिषेधः
(सिद्धान्त-सूत्र)

१.५६ - न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य
(सिद्धान्त-सूत्र)

१.५७ - जातिविशेषे च अनियमात्
(सिद्धान्त-सूत्र) (शब्दविशेषपरीक्षाप्रकरणम्]

१.५८ - तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः
(सिद्धान्त-सूत्र)

१.५९ - न, कर्मकर्तृसाधनवैगुण्यात्
(सिद्धान्त-सूत्र)

१.६० - अभ्युपेत्य कालभेदे दोषवचनात्
(सिद्धान्त-सूत्र)

१.६१ - अनुवादोपपत्तेः च
(सिद्धान्त-सूत्र)

१.६२ - वाक्यविभागस्य च अर्थग्रहणात्
(सिद्धान्त-सूत्र)

१.६३ - विध्यर्थवादानुवादवचनविनियोगात्
(सिद्धान्त-सूत्र)

१.६४ - विधिः विधायकः
(सिद्धान्त-सूत्र)

१.६५ - स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः
(सिद्धान्त-सूत्र)
(अर्थवाद-भेदः)

१.६६ - विधिविहितस्य अनुवचनम् अनुवादः
(अर्थवाद-)

१.६७ - न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः
(सिद्धान्त-सूत्र)

१.६८ - शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः
(सिद्धान्त-सूत्र)

१.६९ - मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात्
(सिद्धान्त-सूत्र)

इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मधीं

  • ad  In the middle. 
  • prep  In, into, amidst. 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site