पदकांड - अधिकरणाधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥१४८॥

उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु ।
उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥१४९॥

अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥१५०॥

आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥१५१॥

इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते ।
व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते ॥१५२॥

कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः ।
एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥१५३॥

यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते ।
शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥१५४॥

वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥१५५॥

[इत्य् अधिकरणाधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP