पदकांड - कर्माधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥४५॥

औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् ।
संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥४६॥

सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥४७॥

प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा ।
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥४८॥

यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते ।
तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥४९॥

प्रकृत्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत् ।
किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥५०॥

क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते ।
दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥५१॥

विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥५२॥

आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥५३॥

निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥५४॥

तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥५५॥

निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥५६॥

तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः ।
भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥५७॥

एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥५८॥

न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥५९॥

अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥६०॥

ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा ।
स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥६१॥

केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥६२॥

निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥६३॥

सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥६४॥

कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने ।
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥६५॥

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥६६॥

कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः ।
सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥६७॥

आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु ।
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥६८॥

अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥६९॥

सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥७०॥

प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥७१॥

दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥७२॥

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥७३॥

करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥७४॥

कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः ।
आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥७५॥

णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।
न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥७६॥

भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् ।
शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥७७॥

यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् ।
तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥७८॥

निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥७९॥

अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते ।
विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥८०॥

प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥८१॥

प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥८२॥

पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि ।
भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥८३॥

इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥८४॥

पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते ।
ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥८५॥

तथाभिनिविशौ कर्म यत् ति"नन्ते ऽभिधीयते ।
क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥८६॥

यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥८७॥

धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥८८॥

भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥८९॥

[इति कर्माधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP