अथ चर्यापादः - जातिभेदविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि जातिभेदविधिं क्रमात् ।
शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते ॥१॥

गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः ।
मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा ॥२॥

वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः ।
चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः ॥३॥

तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः ।
ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत् भवं शृणु ॥४॥

वर्णेवर्णे यथा मातःशक्तिशंभुमयात्मकाः ।
शक्तिस्त्रीरूपमित्युक्तं पुरुषः शंभुरुच्यते ॥५॥

शक्तिशंभुमयं प्राहुर्जगदेतच्चराचरम् ।
ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः ॥६॥

तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् ।
शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् ॥७॥

चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् ।
लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु ॥८॥

अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा ।
दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते ॥९॥

जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते ।
नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः ॥१०॥

षडेते निजनामानि तेषां पर्यायवाचकाः ।
जगतः पालनन्तेषां स्वधर्मपरिपालनम् ॥११॥

ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते ।
पीतायां न्यास्तु वणिजः कामदाः सर्वलौकिकाः ॥१२॥

पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः ।
गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः ॥१३॥

पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् ।
शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते ॥१४॥

कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः ।
एतानि पञ्चनामानि शूद्रपर्यायवाचकाः ॥१५॥

अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् ।
अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः ॥१६॥

तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा ।
ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः ॥१७॥

चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे शृणु ।
स्वर्णं प्रथमं विद्यादंबष्ठश्च द्वितीयकम् ॥१८॥

पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः ।
मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु ॥१९॥

वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु ।
संप्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् ॥२०॥

तत्र जातः सवर्णस्तु जानुलोमेषु पूजितम् ।
तत्ब्राह्मणस्तु संज्ञो वै कर्माधर्मण विस्मृतः ॥२१॥

हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया ।
सेनापत्यञ्च मूनां वा कुर्यादा जीवसंयुतः ॥२२॥

पीतस्त्री विप्रसंयोगा दंबष्ठोनामजायते ।
तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् ॥२३॥

शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः ।
शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् ॥२४॥

नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका ।
रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः ॥२५॥

महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् ।
इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् ॥२६॥

कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः ।
दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् ॥२७॥

कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा ।
काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः ॥२८॥

क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका ।
अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः शृणु ॥२९॥

वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च ।
आयोगोमागधश्चैव जायन्ते कामतश्चतु ॥३०॥

सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः ।
वैश्यायां कृष्णसंयोगाज्जातो वै देहकः स्मृतः ॥३१॥

गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् ।
पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् ॥३२॥

रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते ।
सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् ॥३३॥

श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते ।
कर्णे संधाय्यगोचर्म आयसाभरणं तथा ॥३४॥

झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च ।
पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् ॥३५॥

रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः ।
वस्त्रतन्त्रोप जीवी च तन्तु वाया भवेत् खलु ॥३६॥

विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते ।
सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः ॥३७॥

अधसं स्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते ।
सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका ॥३८॥

विप्रायान्तु नृपस्यैव विधिनायदि जायते ।
पूजितः प्रतिलोमेषु ससूतो नामनामतः ॥३९॥

श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते ।
तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् ॥४०॥

प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः शृणु ।
ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः ॥४१॥

सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः ।
नृपायां ब्राह्मणस्यैव चोररूपेणजायते ॥४२॥

ज्योतिषंगणितञ्चैव भूततन्त्रार्थ निश्चितम् ।
आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु ॥४३॥

वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः ।
कुलाल वृत्याजीवी च ना पिताश्च तदेव तु ॥४४॥

सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् ।
शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः ॥४५॥

अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः ।
श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः ॥४६॥

आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः ।
वाहनानि तु संप्रेष्य तेषां तु परिचारकम् ॥४७॥

प्. २४०) रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः ।
अभिषेकं विना तस्य शासनी पट्टबन्धनम् ॥४८॥

आचारं रक्तवन्नित्यं भोज इत्यभिधीयते ।
पुनर्भूकरणे जातो रक्तायां रक्तनामतः ॥४९॥

भोजैः समन्तं विद्यात नृपंकानिनमेव च ।
वैश्यायां रक्तसंञ्चोरा दश्वव्यापारमुच्यते ॥५०॥

वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते ।
रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः ॥५१॥

ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः ।
वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु ॥५२॥

रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः ।
पीतायां पीतसञ्चोरामणिकारक उच्यते ॥५३॥

मणीनां विक्रयं कृत्वा शंबायां वलय क्रिया ।
वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते ॥५४॥

श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते ।
रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते ॥५५॥

अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् ।
पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः ॥५६॥

स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः ।
कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते ॥५७॥

तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् ।
अन्तराल इमे प्रोक्ता वृत्याश्चैव तत शृणु ॥५८॥

अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् ।
तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै ॥५९॥

अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः ।
रक्तायां पीतवद्योगा दधोनापित उच्यते ॥६०॥

रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः ।
विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः ॥६१॥

रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः ।
पीतायामपिजातोसौ सामुद्रः पश्यजीवकः ॥६२॥

मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते ।
रक्तायामेव सञ्जातः कर्मकार इति स्मृतः ॥६३॥

अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते ।
चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते ॥६४॥

श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् ।
एवमादीनि भेदानि युक्तियुक्तानि योजयेत् ॥६५॥

इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि ।
समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् शृणु ॥६६॥

ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः ।
एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् ॥६७॥

सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः ।
अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः ॥६८॥

सूतश्च मागधश्चैव आयोगावसृतीयकः ।
अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः ॥६९॥

व्रात्यः सर्वे तु संयोज्याः सर्वकर्मबहिष्कृताः ।
जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः शृणु ॥७०॥

इति जातिभेदविधिपटलो द्वितीयः ॥२॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP