संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अग्निकार्यविधि पटलः

अथ क्रियापादः - अग्निकार्यविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।
नित्यन्नैमित्तिकञ्चैव प्रतिष्ठा या मथोत्सवे ॥१॥

ग्रहणे विषुसंक्रान्त्यां शत्रूणाञ्च प्रदर्शने ।
शान्तिके पौष्टिके चैव दीक्षायान्तु पवित्रके ॥२॥

गर्भाधानादिशैवानां तेषान्तु दहनादिषु ।
प्रायश्चित्तादिकालेषु वह्निकर्मसमाचरेत् ॥३॥

कुण्डे वा स्थण्डिले वापि द्विविधे होमकर्मणि ।
वर्तनाविधिनावत्स कुण्डञ्चेद्वर्तयेत् बुधः ॥४॥

वालुकै स्थण्डिलञ्चेत् तु प्रत्यग्रे हस्तविस्तृते ।
शोधनं क्षालनञ्चैव शोषणं पाचनं तथा ॥५॥

रेखात्रयं तु पूर्वाग्रं रेखैकाचोत्तरामुखा ।
उल्लेखनन्तु चास्त्रेण अभ्युक्ष्यकवचेन तु ॥६॥

पूर्वामुखास्त्रयोरेखा ब्रह्माविष्णुश्च रुद्रकः ।
उत्तराभिमुखारेखा शिवा सा तु न संशयः ॥७॥

पुष्पाक्षतैः समभ्यर्च्य शिवाग्निं तत्र साधयेत् ।
सूर्यकान्तोद्भवं श्रेष्ठमरण्युत्भवमेव वा ॥८॥

क्षेत्रे वा श्रोत्रियागारे जातवेदसमानयेत् ।
ताम्रपात्रे शरावे वा सौवर्णेराजतेऽपि वा ॥९॥

नवमृण्मयपात्रे वा तद लाभे विशेषतः ।
अग्निं तत्रैव निक्षिप्य आग्नेये तन्त्रवित्तमः ॥१०॥

शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयेत् ।
बीजमुख्येनमन्त्रेण अमृतीकृत्यभावयेत् ॥११॥

क्षुरिकामर्चयेन्मंत्री गन्धपुष्पादिभिः क्रमात् ।
कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् ॥१२॥

तन्मध्ये तु सुसंस्थाप्य वागीश्वरीं विशेषतः ।
ऋतुस्नाता स कृच्चस्ताद्ध्याययेत् तु विचक्षणः ॥१३॥

त्रिभिर्भज्याग्नि नाकुण्डं योगमार्गेण निक्षिपेत् ।
बीजमन्त्रेण संस्थाप्य शौचमाचमनं ददेत् ॥१४॥

सद्यमन्त्रेण संस्नाप्य प्रशान्तेति त्रिधास्मरन् ।
गर्भाधानं कृतं ह्येवं गर्भपुंसवनन्ततः ॥१५॥

वामदेवेन मन्त्रेण रुद्राण्यभ्यर्चयेत् ततः ।
प्रोक्तं पुंसवनं ह्येवं सीमन्तञ्च ततः शृणु ॥१६॥

शिरसा बहुरूपेण गन्धपुष्पादिभिर्युतम् ।
वक्त्रेण चास्त्रमन्त्रेण जातकर्मसमाचरेत् ॥१७॥

हृदयेनद्विवक्त्रन्तु द्विनासी च षडक्षिकम् ।
त्रिमेखलं त्रिपादञ्च चतुश्रङ्गं द्वयं शिरः ॥१८॥

सोपवीतं जटामौलिमुक्षारूढं सिताननम् ।
सप्तहस्तं सुदीप्ताङ्गं सप्तजिह्वासमावृतम् ॥१९॥

हिरण्याकनकारक्ता कृष्णा च सुप्रभा तथा ।
अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः ॥२०॥

हिरण्यावारुणे जिह्वा कनकामध्ये व्यवस्थिताः ।
रक्ताचोत्तरजिह्वा स्यात् कृष्णायाम्यादिशि स्थिता ॥२१॥

सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नौ व्यवस्थिता ।
बहुरूपे शदिक्भागे जिह्वास्थानं प्रकीर्तिताः ॥२२॥

अग्निरूपमिदं गुह्यं सर्वशान्त्यर्थमुच्यते ।
एवं रूपं स्मरन्नित्यं जातकर्मसमाचरेत् ॥२३॥

पुरुष्टु तेन चैशेन गन्धाद्यैः सुप्रपूजयेत् ।
नामकर्मसमाख्यातं पञ्चसंस्कारकं स्मृतम् ॥२४॥

प्रागग्रैश्चोदगग्रैश्च कुशैः कुण्डे परिस्तरेत् ।
त्रयः परिधयः प्रोक्ताः पश्चिमेदक्षिणोत्तरे ॥२५॥

वह्नावीशे समिच्चेत् तु मेखलोपरिनिक्षिपेत् ।
दक्षिणे ब्रह्मणस्थानं पद्माकारं प्रकल्पयेत् ॥२६॥

प्रणीतामुत्तरे स्थाप्य विष्णुस्तस्याधि दैवतम् ।
बीजमुख्येन मन्त्रेण ब्रह्मविष्णू च पूजयेत् ॥२७॥

लोकपालास्तथा पूज्या मेखलोपरिदेशिकः ।
आज्यस्थालिं चरुस्थालीं प्रणीतां प्रोक्षणीं तथा ॥२८॥

होमद्रव्याणि पात्राणि वामपार्श्वे विचक्षणः ।
दर्भोपरि तथा द्वंद्वं दैवस्यपि तुरेकशः ॥२९॥

पात्राण्युद्वापयेद्विद्वान् सर्वद्रव्याणिशेषतः ।
इन्धनाज्यसमित् क्षीर दधीमधु चरूणि च ॥३०॥

लाजसक्तूतिलं मुद्गमाढकीमाष एव च ।
सर्षपं धवनिवारौ फलापूपौ दशाष्टधा ॥३१॥

प्रोक्तान्येतानि सर्वाणि नित्यादौ होमयेत् क्रमात् ।
नित्येन्धनादयः सप्त ह्यथवा होमकर्मणि ॥३२॥

प्रणीतांभसि सौम्ये तु सर्वतीर्थानि कल्पयेत् ।
दक्षिणे होमद्रव्याणि प्रोक्षणीञ्च न्यसेत् क्रमात् ॥३३॥

प्राङ्मुखोदङ्मुखोवापि होमं कुर्याद् विशेषतः ।
आज्यशुद्धिन्ततः कुर्यात् पर्यग्नि प्लवनं क्रमात् ॥३४॥

संप्लवनं कुशेनैव कुशाग्रौ तत्र निक्षिपेत् ।
अदिते न्वादिमन्त्रेण सर्वत्र परिषेचनः ॥३५॥

जलेन स्पर्शनं कृत्वा वह्नौ सन्तप्प्यतं स्रवम् ।
पञ्चविंशद्धुनेद्धिमानग्निबीजन्तु संस्मरन् ॥३६॥

अन्नप्राशनमेवं हि अन्यकर्मणिकारयेत् ।
हृदयेन तु मन्त्रेण सप्तसप्ताहुतिर्जपेत् ॥३७॥

वक्त्रक्रियादिकं सर्वं हृदयेन तु कारयेत् ।
शिवाग्निजनितौ ह्येवं पश्चात् संकल्प्य विष्टरम् ॥३८॥

अग्निमध्ये ततोमंत्री ह्यब्जं संकल्पयेत् प्रभोः ।
पूर्ववत् कल्पयित्वा तु तत आवाहयेच्छिवम् ॥३९॥

आवाहनादियत् कर्म पूर्वोक्तविधिना ततः ।
होमं कुर्याच्छिवे नांगैर्विद्यांगैर्ब्रह्मभिस्तथा ॥४०॥

विद्येशान् लोकपालांश्च अस्त्रशक्तिसमायुतान् ।
गन्धपूष्पादिनाभ्यर्च्य होमयेत् तु विचक्षणः ॥४१॥

शिवे दशाहुतिं हुत्वा ह्यन्येष्वेकाहुतिर्भवेत् ।
सर्वद्रव्यसमायुक्तं शिववक्त्रे नियोजयेत् ॥४२॥

शिवब्रह्माङ्ग विद्याङ्ग घृतादीनिहुनेत् तथा ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥४३॥

शतमष्टोत्तरं वापि पञ्चविंशति षोडश ।
द्रव्यान्ते व्याहृतिं हुत्वा तदादौपरिषेचनम् ॥४४॥

एवं विधि क्रमेणैव होमयेत् साधकोत्तमः ।
वर्णं गन्धं ध्वनीधूमं शिखामग्नौ सुलक्षयेत् ॥४५॥

वज्रकाञ्चनरौप्याभं सिन्दूरेन्दु समप्रभम् ।
आदित्योदयवर्णाभं हरितालसमप्रभम् ॥४६॥

वैडूर्यद्युति संकाशं पिङ्गलञ्च स्वभावतः ।
तप्तायससुवर्णाभा दशवर्णाः प्रकीर्तिताः ॥४७॥

चन्दनागरु कर्पूरकच्चोलजाति गन्धवत् ।
मल्लिका पाटलीगन्धमन्दारञ्च सुगन्धिकम् ॥४८॥

उशीरनागपुन्नाग चंपकन्तु सुशोभनम् ।
शखभेर्यादिनिर्घोषं मेघदुन्दुभिनिस्वनम् ॥४९॥

सर्वसंपत्करं घोषं धूपञ्चैव ततः शृणु ।
कुन्दपुष्पसमाकारं श्यामलाक्षाकृतिं शुभम् ॥५०॥

शुकपिञ्छनिभाकारं धूमञ्चाप्युत्तमं भवेत् ।
स्वस्त्या कृति समाकाराच्छत्राकारोर्ध्वगामिनी ॥५१॥

शिखाशिखी प्रतीकाशा कदंबमुकुला कृतिः ।
यस्य होमेशिखा ह्येषा तस्य सिद्धिर्न्न संशयः ॥५२॥

एवमादि शुभं ज्ञात्वा कारयेत् तन्त्र वित्तमः ।
पूर्णाहुतिं ततः कृत्वा शिवमन्त्रेण देशिकः ॥५३॥

शिवं पूर्वं विसृज्यात्र पच्छादग्निं विसर्जयेत् ।
अग्निकार्यस्य चान्ते तु प्राणाग्नि होममाचरेत् ॥५४॥

तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ।
तत् स्थानं गोमयालिप्तं शुद्धिं कृत्वा विशेषतः ॥५५॥

पिष्टचूर्णैरलङ्कृत्य सवितानं सदीपकम् ।
तांम्रकांस्य कटल्यादि पात्रेष्वेक तमेशुभे ॥५६॥

पात्रशेषाणि संयोज्य आत्मस्थं शिवमर्चयेत् ।
आत्मा हि यजमानोसौबुद्धिस्तत्पत्निका स्मृता ॥५७॥

हृत् पुण्डरीकवेद्याञ्च अन्तस्थाग्नौ सुपूजयेत् ।
रोमदर्भान् परिस्तीर्य ह्योंकारं शिवसंयुतम् ॥५८॥

उच्चार्य परिषिच्याथ पादावभ्युक्ष्यमन्त्रवित् ।
अमृतोपेति मन्त्रेण जलं पीत्वा विशेषतः ॥५९॥

अनामिमध्यमाङ्गुष्ठ युक्ताभ्यन्नं शनिः शनैः ।
पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः ॥६०॥

तत्पात्र स्पर्शनं कृत्वा पश्चात् भुञ्जीत बुद्धिमान् ।
आचम्य च विधानेन आदित्याभिमुखं स्थितः ॥६१॥

उदरं शिवमन्त्रेण दक्षिणाभिमृशेत् ततः ।
दक्षिणाङ्गुष्ठके नाथ पादाङ्गुष्ठे तु दक्षिणे ॥६२॥

स्रवन्तोयं शिवं स्मृत्वा हृन्मन्त्रन्तु समुच्चरन् ।
चुलुकोदकमेवं स्यात् स्वात्मानं पादमूलतः ॥६३॥

प्राणाग्निहोत्रमित्येतं नित्यमेवमुदाहृतम् ।
आचार्यमूर्तिमास्थाय पाशौघान् कृन्ततीश्वरः ॥६४॥

पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविराहुतिम् ।
अग्निकार्यमिदं प्रोक्तं शृणुत्वंकुण्डलक्षणम् ॥६५॥

इति अग्निकार्यविधि पटल एकादशः ॥११॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP