योगपदः - नाडी चक्रविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि योगपादं समासतः ।
तस्यपादस्य पूर्वे तु नाडीचक्रक्रमं शृणु ॥१॥

द्विसप्तति सहस्राणि नाडयस्तु प्रकीर्तिताः ।
नाडीभिर्व्यावृते देहे जीर्णाश्वत्थस्य पत्रवत् ॥२॥

अशीतिश्च चतुश्चैव शतसाहस्रभेदकैः ।
शरीरे क्रीडते देवाः स्वेच्छया परमेश्वरम् ॥३॥

भूतग्रामैश्चतुर्भिश्च सर्वयोनि समुद्भवम् ।
अण्डजं स्वेदजञ्चैव उत्बीजञ्च जरायुजम् ॥४॥

अण्डजाताश्चये भावास्त्वण्डजास्ते प्रकीर्तिताः ।
स्वेदजाताश्चये भावास्वेदजास्तु प्रकीर्तिताः ॥५॥

भूमौ तु तोयबीजाभ्यां मुत्भिदाश्चेति कीर्तिताः ।
इल्वयुक्ताश्चये जाताः कीर्तितास्ते जरायुजाः ॥६॥

भूतग्रामैश्चतुर्भिश्च नराद्याषड्विधो भवेत् ।
नरश्चैव मृगश्चैव पशुः पक्षीतथैव च ॥७॥

सरीस्रपः स्थावरश्च षड्विधं योनिसंभवम् ।
वाचा वदन्ति यद्वाण्या ते नरास्त्विति कीर्तिताः ॥८॥

ऊर्ध्वपुच्छन्तु तद्वृद्धिं मृगं विद्याद्विनायक ।
अधोदीर्घाश्च ये पुच्छाः पशुजातिरुदीरिता ॥९॥

द्विपक्षाः पक्षिरित्याहु सरतीतिसरीस्रपः ।
स्थापितं स्थावरं प्रोक्तं षड्विधं भूतमेव च ॥१०॥

अथ्यन्ते योनि भेदानि क्षेत्रं स्यात् भूमिकं शृणु ।
पृथिव्यादीनि तत्वानि यत्र तिष्ठन्ति तल्लये ॥११॥

लयस्थानं तदाख्यातं तत्वातीतं परात्परम् ।
तस्माच्छिन्नं समुत्पन्न तस्माच्छक्तिरजायत ॥१२॥

तस्मान्नादिं समुत्पन्नं तस्मात् बिन्दुसमुद्भवम् ।
तस्मात् सदाशिवं प्रोक्तं सृष्ट्यर्थं पञ्चधा भवेत् ॥१३॥

तस्मादात्मा समुत्पन्नं सहजं मलसंयुतम् ।
क्षेत्रज्ञन्तं विजानीयाच्छक्तिस्थन्तु तथोच्यते ॥१४॥

तस्मादुपरिवेशस्य शुद्धावस्थोनुकीर्तिताः ।
शुभाशुभ वरप्राप्तौ तत्र गच्छन्ति जायते ॥१५॥

मायाद्यवनि पर्यन्तं देहबद्धोत्र दृश्यते ।
कर्मोदये तु जननं कर्मान्ते मरणं स्मृतम् ॥१६॥

सुखदुःखनिमित्ताय शरीरग्रहणं कृतम् ।
शरीरं द्विविधं प्रोक्तं पुंसत्व स्त्रीत्वमेव च ॥१७॥

लिङ्गेन लांच्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलांच्छितम् ।
लिङ्गमीशमयं प्रोक्तं योनिः शक्तिमयं स्मृतम् ॥१८॥

तस्माद्वै शिवशक्तिस्तु सर्वमेतत् चराचरम् ।
तच्छरीरं द्विधाप्रोक्तं स्थूलं वै सूक्ष्ममेव च ॥१९॥

पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।
शुक्रं बीजां शमित्युक्तं क्षेत्रांशं श्रोणितं स्मृतम् ॥२०॥

अस्थि स्नायुश्चमज्जा च पित्रजंस्त्रयमेव तु ।
त्वङ्मांसशोणितञ्चैव मातृजं त्रिकमेव च ॥२१॥

इत्थं षट्कौशिकं प्रोक्तं शरीरान्तैस्तु जायते ।
नखदन्तश्च रोमाणि केशाश्च नाडयस्तथा ॥२२॥

शब्दस्पर्शश्च रूपश्च रसोगन्धश्च पञ्चधा ।
एतैर्भूतगणैर्युक्तं स्थूलं शरीरकं भवेत् ॥२३॥

शूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् ।
जननमरणञ्चैव कर्मणा जायते ततः ॥२४॥

एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया ।
श्रोत्रं त्वक्चक्षुजिह्वा च घ्राणं बुद्धीन्द्रियं विदुः ॥२५॥

वाक्पादपाणि पायुश्चोपस्थं कर्मेन्द्रियं स्मृतम् ।
प्राणः समानोदानश्च अपानोव्यान एव च ॥२६॥

नागः कूर्मश्चक्रकरो देवदत्तोधनञ्जयः ।
मनोबुद्धिरहंकारश्चित्तोन्तः करणं स्मृतम् ॥२७॥

मदमात्सर्यमानादि सूक्ष्मशारीरकं भवेत् ।
इदं शरीरं लिङ्गं हि तयोर्जन्म ततः शृणु ॥२८॥

शुक्लं रक्तेन संभाव्य जनन्याश्चोदरे स्थितम् ।
कर्मादौ सकलं ग्राह्यं प्राप्यते सुषिराशयम् ॥२९॥

क्षेत्रांशैश्चैव बीजांशैः शरीरव्याव्रतोगतः ।
रक्ताधिक्क्यात् स्त्रीप्रजा च शुक्लाधिक्यात् पुमान् भवेत् ॥३०॥

यदिशुक्लसमंरक्तं जायते तु नपुंसकम् ।
भजने तु यथा बिदुर्वद्धते तु शनैः शनैः ॥३१॥

पुन्नागमुकुलाकारं गर्भाशयगतं तथा ।
मरणादीनि कर्माणि निमित्तानि वरेण तु ॥३२॥

आयुष्यं विभवं कर्मविद्या च निधनं सुखम् ।
षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशन् ॥३३॥

गुणाश्चैव त्रिदोषाश्च जन्तूनान्तत्र संभवाः ।
सत्वं रजस्तमश्चैव गुणत्रयमिहोच्यते ॥३४॥

सत्यं ज्ञानं तपोमौनं स्मृतिर्मेधाधृतिः क्षमा ।
उत्साहो निश्चयन्धैर्यमेवं वै सात्विकं गुणम् ॥३५॥

दर्पं महदहंकारं विषादं प्रियवाचकम् ।
उद्योगंमात्सरं प्रोक्तं रजसंगुणमुच्यते ॥३६॥

आलस्यं मोहनिद्राश्च चापलं ही नवृत्तिकम् ।
पापिष्ठं परनिन्दा च तामसं गुणलक्षणम् ॥३७॥

गुणानान्तु समावस्था मूलप्रकृतिरुच्यते ।
संक्षेपात् त्रिगुणं प्रोक्तं त्रिदोषांश्च शृणुष्वमत् ॥३८॥

वातं पित्तंकफञ्चैव रोगाणामधिपा स्मृताः ।
सर्वजन्तुषु सामान्यं समंवाधिकमेव च ॥३९॥

एवमादीनि चान्यानि संविशेत् सुषिराशयम् ।
गर्भाशयगते काले वायुनाभिद्यते यथा ॥४०॥

तदा रूपद्वयङ्गत्वा वर्धते तु शनैः शनैः ।
पञ्चाहे तु दशाहे तु पत्मपत्रस्थतोयवत् ॥४१॥

मासान्ते चाक्षफलवद् विमासां मृफलाकृतिः ।
त्रिमासेऽष्टाङ्गुलं दीर्घञ्चतुर्मासे शिरोभवेत् ॥४२॥

हस्तौ चैव तु पादौ च पञ्चमासे प्रकीर्तितम् ।
नखाङ्गुल सपादौ च गुल्भौ च नलकौ तथा ॥४३॥

जंघेजानु तथा चोरुकटिस्फिक् जघनं तथा ।
स्तनपार्श्वोदरारभ्य कक्षौ वक्षाभुजावुभौ ॥४४॥

पादयोर्हस्तयोरेखा ह्यंगुष्ठे नखपर्वगाः ।
गलः कर्णौ च जिह्वा च ओष्ठौ दन्ताश्च नासिका ॥४५॥

नयनं भ्रूललाटश्च शिरः केशादयस्तथा ।
एतान्यङ्गानि सर्वाणि जायते षष्ठमासिके ॥४६॥

सप्तमासेन्न पानौ च नाभिनालेन भुज्यते ।
प्रसूयते वा तन्मासे वायुना न प्रसूयते ॥४७॥

अष्टमासे समुत्थाय वीणादण्डं समाश्रितम् ।
संप्राप्याष्टगुणैश्वर्य मणिमादिकमत्र वै ॥४८॥

त्रिकालन्तु विजानाति ज्ञानात् सर्वं प्रकाशते ।
जायते चाष्टमे मासे जातश्चोत्तमजीवती ॥४९॥

जायते नवमे मासे दशमासे तु वा पुनः ।
ततस्त्वेकादशे मासे मायया प्रेरितो जनः ॥५०॥

बोद्धव्यं शक्तिना काचित् श्रमदाहक्षुधादिकान् ।
एवमादीनि वर्द्धन्ते क्रमेणैव शनैः शनैः ॥५१॥

तत्र भूत्वान्न वीर्येण वर्धन्ते सप्तधातवः ।
अन्नद्रवसमुत्पन्न रसाद्वै श्रोणितं स्मृतम् ॥५२॥

श्रोणितान्मांसमुत्पन्नं मांसान्मेदः समुत्भवम् ।
मेदसोस्थि समुत्पन्नं तस्मात् मज्जातु संभवम् ॥५३॥

मज्जाशुक्लं समुत्पन्न मित्येते सप्तधातवः ।
शरीरन्धातुभिः प्राप्तं धातुभिः शब्दराशयः ॥५४॥

शब्दादिविषयं ज्ञानं द्विमासोपरिपूर्णके ।
पञ्चविंशति तत्त्वानि वक्ष्यते तु समासतः ॥५५॥

भूतानि भूतमात्राणि ततो बुद्धिन्द्रियाणि च ।
कर्मेन्द्रियाणि विघ्नेश तथान्तः करणानि च ॥५६॥

अव्यक्तेन समायुक्तं पञ्चविंशदुदाहृतम् ।
पृथिव्यादीनि तत्वानि प्राप्यते त्वखिलान्तनुम् ॥५७॥

पृथिव्यापस्तथा तेजोवायुराकाश एव च ।
महाभूतानि चोक्तानि तेषां भेदं शृणुष्वहि ॥५८॥

यत् कठिनं तत्पृथिवी यद्रव्यं ह्याप उच्यते ।
यदुष्णञ्चेत्ततो वह्निर्वायुः सञ्चरति त्विह ॥५९॥

अवकाशं यदा काशं महाभूतगणास्विमे ।
अस्थित्वक्मांसकेशाश्च नाडयस्त्विह कीर्तिताः ॥६०॥

पृथिव्यं शास्तथा ज्ञेयास्त्वाप्यंशाश्च ततः शृणु ।
कफः शोणितमूत्राणि मज्जाशुक्लन्तथैव च ॥६१॥

द्रव्यांशकमिति ज्ञेयं सर्वप्राणि च संस्थितम् ।
क्षुधानिद्रा च कृष्णा च आलस्यं मैधुनं तथा ॥६२॥

एते पञ्चगुणा प्रोक्ता तेजोंशा इति संस्थिताः ।
आस्ते शेते च गमनं प्रसाराणि निरोधनम् ॥६३॥

एते पञ्चगुणा प्रोक्ता वाय्वंशा सुप्रकीर्तिताः ।
कामक्रोधञ्च लोभञ्च भयोमोहसथैव च ॥६४॥

पञ्चैतेनुगुणा प्रोक्ता व्योमांशास्तु प्रकीर्तिताः ।
प्रोक्तं भूतगुणञ्चैवं गुणन्तेषान्तु वक्ष्यते ॥६५॥

शब्दस्पर्शञ्चरुपञ्च रसंगन्धञ्च पञ्चधा ।
आकाशस्य गुणं शब्दं वायोस्तु स्पर्शनं गुणम् ॥६६॥

तेजसस्तु गुणं रूपं रसमापगुणं स्मृतम् ।
पृथिव्यास्तु गुणं गन्धं भूमिकादीनि विन्यसेत् ॥६७॥

विषयं त्विति विख्यातं भूतानाङ्गुणमुच्यते ।
शब्दादिविषयं पुण्यं भूमौ तु विनिवर्द्धते ॥६८॥

चतुर्गुणाः प्रवर्धन्ते त्रिगुणस्त्वथ वह्निके ।
वायोश्च द्विगुणं प्रोक्तमाकाशस्यैकमेव तु ॥६९॥

विषयाणि तथोक्तानि बुद्धिन्द्रियाणि ततः शृणु ।
श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं बुद्धिन्द्रियाणि च ॥७०॥

शब्दादिविषयाणाञ्च साधनन्ते प्रकीर्तितम् ।
बुद्धीन्द्रियाणामेतेषां देवभूतात्मकं शृणु ॥७१॥

श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यमधि भूतता ।
शिवहस्ताधि दैवन्तु त्वगेवाध्यात्मकं विदुः ॥७२॥

स्पर्शनञ्चाधिभूतः स्याद् वायुस्तत्राधिदैवतम् ।
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यमधिभूतता ॥७३॥

सूर्यस्तत्राधिदैवत्य जिह्वाचाध्यात्मकं विदुः ।
रसज्ञात्वधिभूतन्तु वरुणश्चाधिदेवता ॥७४॥

घ्राणमध्यात्ममित्युक्तं घ्रातव्यमधि भूतता ।
बृहस्पत्यधिदैवञ्च प्रातः शक्तिरिति स्मृतम् ॥७५॥

बुद्धीन्द्रियाणि चोक्तानि शृणु कर्मेन्द्रियाणि च ।
वागध्यात्मकमित्युक्तं वक्तव्यमधि भूतता ॥७६॥

सरस्वत्यधिदैवत्यं वाणिरध्यात्मकं ततः ।
दातव्यमधिभूतश्च शक्रस्तत्राधिदेवता ॥७७॥

पादमध्यात्मकं प्रोक्तं गमनञ्चाधि भूतता ।
शक्राधिदैवतं प्रोक्तं वायुरध्यात्मकं विदुः ॥७८॥

उपस्थोध्यात्ममित्युक्तमानन्दमधिभूतता ॥७९॥

प्राजापत्याधिदैवत्यं क्रियाशक्तिरिति स्मृता ।
कर्मेन्द्रियाणि चोक्तानि ततोन्त करणं शृणु ॥८०॥

मनोहङ्कारबुद्धि च चित्तोन्तः करणं विदुः ।
मनोध्यात्ममिति प्रोक्तमन्तव्यमधिभूतता ॥८१॥

सोमाधि दैवमित्युक्तो हङ्कारोध्यात्मकं विदुः ।
अधिभूतमहंकारं रुद्रमूर्त्यधिदैवतम् ॥८२॥

बुद्धिरध्यात्ममित्युक्तं बोद्धव्यमधिभूतता ।
क्षेत्रज्ञस्याधिदैवं स्याच्चित्तमध्यात्मकं स्मृतम् ॥८३॥

चैतन्यमधिभूतं हि ईश्वरश्चाधिदैवतम् ।
मन्यते तंमनो ज्ञात्वा अहङ्कारमहंकृतम् ॥८४॥

बोद्ध्यत्वात् बुद्धिरेवं हि चिन्तत्वाच्चित्तमुच्यते ।
मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् ॥८५॥

अहङ्कारं त्रिधाज्ञेयं भूतवैकारि तेजसम् ।
वक्ष्यते तु समासेन भूतसारसमुद्भवम् ॥८६॥

शब्दतन्मात्रमादौ तु गन्धतनात्रमर्थके ।
एतानि पञ्चमात्राणि भूतानां सृष्टिरुच्यते ॥८७॥

स्यात्तैजस अहंकारे इन्द्रियाणि समुद्भवम् ।
वैकारिकमहङ्कारे इन्द्रियाणि समुद्भवम् ॥८८॥

वैकारिकमहंकारे अधिदेवाः समुद्भवम् ।
बुद्धिरष्टविधा ज्ञेया धर्माधर्मादिरष्टधा ॥८९॥

चित्तमेक विधं ज्ञेयं तच्चान्तः करणं विदुः ।
चतुर्भिरन्तः करणैश्चतुर्विंशतिरुच्यते ॥९०॥

उपादानन्तु तेषां वै चाव्यकमिति निन्दितम् ।
अव्यक्तस्य तु धर्मः स्यात् त्रिगुणं संप्रकीर्तितम् ॥९१॥

तामसं राजसञ्चैव सात्विकञ्च तृतीयकम् ।
तामसेयान्ति नरकं राजसे स्वर्गमुच्यते ॥९२॥

सात्विके मोक्षमित्युक्तं तस्मात् सात्विकमुच्यते ।
सात्विके सर्वकर्माणि एक चित्तस्तु सात्विकम् ॥९३॥

तस्मात् सर्वप्रयत्नेन सात्विकङ्गुणमाश्रये ।
पञ्चविंशति तत्वानि समासात् कीर्तितानि तु ॥९४॥

तेभ्य एकादशं तत्वं समासात् च्छृणु सांप्रतम् ।
पुंरागोनियती विद्याकलाकलस्तथैव च ॥९५॥

शुद्धविद्याशुद्धकला शुद्धमायान्तथैव च ।
आत्मतत्वञ्च विद्याञ्च शिवतत्वमतः परम् ॥९६॥

एकादशानि तत्वानि शरीरे संस्थितानि तु ।
कञ्चुकत्रयमाविश्य शनैः कालेन वित्तमः ॥९७॥

आलिंग्यते नियतिना आत्मवद्भाववर्तकः ।
प्रकृतिः पौरुषं यस्मान् तस्मात् पुरुष उच्यते ॥९८॥

बालार्कशतसाहस्र भागैकं तत्र चिद्विदुः ।
सञ्जिव इति विख्यातः संसारी चेति चोच्यते ॥९९॥

प्रधानादि विशेषान्तं व्यापं वै परिशक्तिना ।
कलाशक्तिरितिख्याता चानमु?क्तैस्तु कारणा ॥१००॥

धर्माधर्माधिसंबन्धा दाणवं सहजं स्मृतम् ।
इत्येवमादि संबन्धाच्छरिरेषु व्यवस्थिताः ॥१०१॥

संबन्धास्तस्य जीवस्य दुःखत्रयमिहोच्यते ।
आध्यात्ममधिभूतञ्च अधिदैविकमेव च ॥१०२॥

त्रिविधं दुःखमाप्नोति तेषामाध्यात्मकं शृणु ।
आध्यात्मकं द्विधाप्रोक्ता शरीरं मानसं तथा ॥१०३॥

गुल्मारशोति सारञ्च ज्वरशूलाद्यनेकधा ।
नरमृगपिशाचैश्च गोपक्षीचोरराक्षसैः ॥१०४॥

प्रोक्तं शरीरकं दुःखं मानसं शृणु सुव्रत ।
शोकासूयावमानेर्ष्या मासाध्यादिभिरेव च ॥१०५॥

एवं मानसमाख्यातमाधिभौतिकमुच्यते ।
शीतोष्णवातवर्षैश्च विद्युदाशनिमारुते ॥१०६॥

एतैर्भूतैस्तु जन्दुःखमाधिदैविकमुच्यते ।
गर्भजन्मजरा ज्ञानमृत्युर्नरकजं तथा ॥१०७॥

प्रोक्तं दुःखत्रयं ह्येवमेषु स्थानेषु भूज्यते ।
ततोदराग्निना गर्भे मातृशीलेन बाध्यते ॥१०८॥

गर्भात् कोटिगुणं दुःखं योनि यंत्रे प्रपिडनम् ।
एवमादीनिदुःखानि शरीरीभुज्यते क्रमात् ॥१०९॥

जाग्रत् स्वप्नं सुषुप्तिश्च तुर्यावस्था ततः शृणु ।
इन्द्रियाणि गताबुद्धिः कृत्वा कर्माण्य शेषतः ॥११०॥

करणी यानि सर्वाणि दृश्यन्ते जाग्रदेव तु ।
करणानि चेंद्रियाणि बध्वावै वाश्रयं भवेत् ॥१११॥

निद्रामाश्रयते बुद्धिर्मन्यते पूर्वकर्मकम् ।
एवं स्वप्नं विजानीयात् सुषिपिञ्च ततः शृणु ॥११२॥

करणानि गृहीत्वा तु बुद्धिश्चैतन्यमागता ।
तदाश्रये तु काले तु कर्माण्य प्रतिबुद्ध्यति ॥११३॥

सुषिप्तिरिति विख्याता तुरीयं करणं विना ।
जाग्रोमुखगतो जीवस्वप्ने कर्णं समाश्रितः ॥११४॥

सुषुप्तौ हृदमाश्रित्य तुर्ये सर्वगत स्मृतः ।
एवं व्यवस्थितो देहे नाडयश्च तत शृणु ॥११५॥

नाभिमूलन्तु हृन्नाल नाडयश्चक्रवत् तथा ।
तिर्यगूर्ध्वमधश्चैव व्याप्तितातैस्तु सर्वतः ॥११६॥

चक्रवत्संस्थिता ह्येताः प्रधानश्चाष्टविंशतिः ।
तेषु प्रधानभूतास्तु इडादिदशनाडयः ॥११७॥

इडयाविमाशोषा पृथिवी आपनी तथा ।
तेजोवती वायुवी च गमनीमर्दनी तथा ॥११८॥

रोदनीरक्तवागि च मृद्वंगी श्रिंगिणी तथा ।
शब्दा स्पर्शा च पूर्णा च सद्रूपारसधारिणी ॥११९॥

सर्वाङ्गेषु स्थिता ह्येता प्रधानाश्चाष्ट विंशतिः ।
तासुनाडीषु चान्तस्थाः प्राणादि दशवायवः ॥१२०॥

प्राणापानस्तथाव्यान उदानश्च समानकः ।
नागकूर्माश्चक्रकरो देवदत्तोधनञ्जयः ॥१२१॥

दशप्राणा इति प्रोक्ता वायवः समुदहृताः ।
वायूनान्तु नवानाञ्च प्रभुः प्राणप्रकीर्तिताः ॥१२२॥

निश्वासोछ्वासकासैश्च प्राणीनामुदरे स्थिताः ।
इन्द्र निलप्रतिकाशप्राणरूपसुकीर्तिताः ॥१२३॥

नादसंयुक्त जीवान्त जीवमाश्रित्य नित्यशः ।
स्थान हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः ॥१२४॥

अपान पृष्ठमाश्रित्य वामदक्षिणनिर्गमम् ।
प्राणस्य लक्षणं प्रोक्तमपानञ्च ततः शृणु ॥१२५॥

अपानो जीवमाश्रित्य तद्वर्णञ्चैंद्रकोपवत् ।
स्थानन्तु मेढ्रमुले तु गुदमूलन्तु निर्गमम् ॥१२६॥

नाभेरधस्तात् स्थानन्तु मेढ्रमूले तु निर्गमम् ।
पुरीषोत् सर्गमात्रादि प्राणापानाश्च निर्गमम् ॥१२७॥

प्राणापानोपहे नित्यं शरीराख्यं महारथम् ।
दीपान्तस्थ प्रभु प्राणोरक्षाङ्कृत्वा महामनुम् ॥१२८॥

व्यानं सकलमाश्रित्य स्पर्शादीनी प्रबोधकः ।
गोक्षीरसमवर्णं स्यात् स्थानं सर्वाङ्गसन्धिषु ॥१२९॥

उदानच्छक्तिरोगाणामुद्भवन्तत्र कारयेत् ।
विद्युत्पावक सङ्काशान्तस्य वर्णं प्रकीर्तितम् ॥१३०॥

स्थानं पार्श्वौ च कर्णौ च चक्षुषोर्घ्राणयोस्तथा ।
समान वायोर्वर्णन्तु अतसी कुसुमप्रभम् ॥१३१॥

स्कन्धे मूर्धनि जिह्वाश्च जंघयोर्गुल्भयोस्तथा ।
अन्नपानरसन्नित्वा चा पादतलमस्तकम् ॥१३२॥

अशेषानन्नपानादीन्वैश्विनराग्नि संयुतम् ।
तत्रा शयाख्य कुण्डे तु हुतं तत्रैव कारयेत् ॥१३३॥

तत्र नागसुवर्णन्तु मार्ताण्डोदय सन्निभम् ।
हित्काञ्चरोमहर्षादिन् गेयभक्तिञ्च कारयेत् ॥१३४॥

उदयञ्च ललाटञ्च स्थानन्नासादि चासनम् ।
कुन्दपुष्पसमाकारं कूर्मवायोः प्रकीर्तितम् ॥१३५॥

नेत्रपक्षौ तु संप्राप्य निमीलोन्मीलनङ्कुरु ।
कृकरस्य तु वर्णं स्यात् भिन्नाञ्जनसमप्रभम् ॥१३६॥

क्षुधादिकुरुते नित्यं नासाग्रे तु व्यवस्थितम् ।
देवदत्तस्य वर्णं स्यात् शुद्धस्फटिक सप्रभम् ॥१३७॥

मुखं पृष्ठञ्च पादञ्च पार्श्वञ्चैव विशेषतः ।
उत्थाप्यशयनासीनं विज्रंभणमतः परम् ॥१३८॥

धनञ्जयस्य वर्णस्यां नीलाञ्जनसमप्रभम् ।
धनञ्जयस्थितो देहममृतस्यापिमुञ्चति ॥१३९॥

पश्चात् तु ब्राह्मणं कृत्वा शरीरं भिद्यते गतः ।
इत्येते दशवायूनां प्राणादीनां प्रचक्षते ॥१४०॥

इडादिनाडयस्तत्र शरीरेव्या प्रतस्तथा ।
नाडीमध्ये ततो वायुः सञ्चरेत् क्रमशस्तथा ॥१४१॥

कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तिताः ।
अष्टवर्तुलमेवन्तु कुण्डलीनाडिसुप्तवत् ॥१४२॥

नाभेरूर्ध्वं भवेत् पद्मं तटाकाब्जं तु पुष्पवत् ।
तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः ॥१४३॥

तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निकुण्डलम् ।
तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभम् ॥१४४॥

वामपार्श्वे इडानाडी पिंगलादक्षनाडिका ।
सुषुम्ना मध्यमे चैव यावदङ्गुष्ठकान्तका ॥१४५॥

गान्धारी दक्षिणे नेत्रे हस्ति जिह्वा च वामके ।
पूषा वै दक्षिणे कर्णे वामकर्णे यशस्विनी ॥१४६॥

अलंपुष्पन्तु मेडुन्तु कुहूश्चैव गुदे स्थिता ।
शखिनी नासिमध्ये तु दशनाडी ह्यवस्थिता ॥१४७॥

अशेषानाडयः सर्वाश्चक्रवद् व्यावृतस्तनुम् ।
चक्रवद् वा वृतोयस्मान् नाडीचक्रमिहोच्यते ॥१४८॥

नाडीचक्रमिदं प्रोक्तं कालचक्रमथ शृणु॥

इति नाडीचक्रविधिपटलः प्रथमः ॥१॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP