स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्तेऽन्वयं प्रति ॥१॥
इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥२॥
अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ॥३॥
भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ।
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् ॥४॥
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥५॥
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥६॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा ॥७॥
इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥८॥
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं तदसङ्खयातं भिन्नमन्यद्लयं भवेत् ॥९॥
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।
परस्परविभेदश्च कार्याणामालयं भवेत् ॥१०॥
भोक्तृणां चेतनस्याहुः केचित्तामपि नापरे ।
स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥११॥
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर्भेदग्रहात्तयोः ॥१२॥
भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ।
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥१३॥
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥१४॥
न च काचित्प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः ।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥१५॥
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित्प्रसिद्धयति ॥१६॥
इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥१७॥
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ॥१८॥
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।
कुत इच्छाचेतनस्य सेच्छं चेत्किमचेतनम् ॥१९॥
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ॥२०॥
कथं न स घटस्य स्यान्मनो म इति भेदतः ।
मनसोऽपि गृहीतत्वादुभयात्मकता यतः ॥२१॥
कामस्य तु मनः कामः प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ॥२२॥
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ॥२३॥
एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ।
द्वैविध्येऽपितु कामादेः कुतः स्वामित्वमात्मनः ॥२४॥
साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् ॥२५॥
किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ॥२६॥
न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं तस्मात्सा तदन्याभिधायिनी ॥२७॥
मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ।
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ॥२८॥
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।
विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥२९॥
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः ॥३०॥
साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥३१॥
क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् ।
जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ॥३२॥
पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम् ॥३३॥
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ॥३४॥
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ॥३५॥
यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ॥३६॥
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥३७॥
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥३८॥
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥३९॥
यदेवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि नरैः शास्त्रात्किं मोहनं विना ॥४०॥
स्वपरार्थविहीनत्वात्स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥४१॥
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥४२॥
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥४३॥
न चान्यामानता क्वापि प्रमाणेनावसीयते ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥४४॥
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥४५॥
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलाषाद्यतोऽखिलम् ॥४६॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥४७॥
न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम् ॥४८॥
संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥४९॥
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् ॥५०॥
नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥५१॥
परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम् ॥५२॥
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः ॥५३॥
कारणं समवाय्याख्यं परमाण्वादि तत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥५४॥
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके ॥५५॥
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥५६॥
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥५७॥
न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥५८॥
महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥५९॥
यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः ॥६०॥
न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥६१॥
अप्रत्यक्षत्वमेवं स्याद्यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ।
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते ॥६२॥
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले ।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ॥६३॥
तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च ।
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ॥६४॥
परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ।
दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ॥६५॥
न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ॥६६॥
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।
नावसाययितुं शक्यो विरोधादेव केवलम् ॥६७॥
केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ।
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः ॥६८॥
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ॥६९॥
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥७०॥
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ॥७१॥
बहुत्वाल्पत्वयोर्यद्वत्साङ्खयायामुपलभ्यते ।
आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते ॥७२॥
अणीयांश्च महीयांश्च भगवानागमोदितः ।
आनन्त्यवाचकः शब्दो द्विधानन्त्येऽपि मानताम् ॥७३॥
याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ।
सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ॥७४॥
महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ।
तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ॥७५॥
महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ॥७६॥
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥७७॥
शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ॥७८॥
उभयानन्त्ययुक्तस्माद्यदि मुख्यमहद्भवेत् ।
तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा ॥७९॥
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वमनवस्थाथवा भवेत् ॥८०॥
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ॥८१॥
तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् ।
द्वयोरेव तु संयोग इति केनावसीयते ॥८२॥
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।
तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ॥८३॥
न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥८४॥
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ।
पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ॥८५॥
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् ॥८६॥
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ।
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥८७॥
प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥८८॥
सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥८९॥
अन्यथा सप्तमरसभवोऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥९०॥
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥९१॥
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् ।
स स्वनिर्वाहकश्चेत्स्याद्द्रव्यमेव तथा न किम् ॥९२॥
विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥९३॥
द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ॥९४॥
विशेषश्च विशेषी सः स्वेनैव समवायवत् ।
कल्पनागुरुतादोषात्पदार्थान्तरता न हि ॥९५॥
कल्पयित्वा षट्पदार्थान् साभावानपि केवलम् ।
एकस्मिन् स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥९६॥
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ॥९७॥
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेऽस्मिन् सविशेषावसीयते ॥९८॥
सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥९९॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥१००॥
षट्पदार्थातिरेकः स्यात्पदार्थानियमेऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥१०१॥
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥१०२॥
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत्तथा ॥१०३॥
विशेषमेव संश्रित्य विशेषो बलवान् यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥१०४॥
विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥१०५॥
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥१०६॥
सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः ।
भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥१०७॥
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥१०८॥
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥१०९॥
अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥११०॥
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव तृयणुकेऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥१११॥
अंशिनोऽंशैरभेदोऽयमंशेन तु भिदाभिदा ।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते ॥११२॥
संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक् ।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ॥११३॥
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानामनयोर्भेद इत्यपि ॥११४॥
इतोऽमुष्यामुतोऽप्यस्य भेदो दृष्टो द्विधर्मिकः ।
तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ॥११५॥
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।
न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ॥११६॥
एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक् ।
एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ॥११७॥
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ॥११८॥
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥११९॥
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना ॥१२०॥
इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥१२१॥
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः ॥१२२॥
तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ।
जातितश्चेत्कथं तासु तत्र चेदनवस्थितिः ॥१२३॥
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ॥१२४॥
कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात्तेन युक्ता नानुगकल्पना ॥१२५॥
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत्तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥१२६॥
अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः ॥१२७॥
समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥१२८॥
नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात्को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥१२९॥
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ॥१३०॥
अविद्यमान एवान्यः समवायोऽधिगम्यते ।
उपाधिना तद्गमकमनुमानं न मा भवेत् ॥१३१॥
एवमेवासतः सत्तसमवायो जनिर्मता ।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥१३२॥
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥१३३॥
अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥१३४॥
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥१३५॥
तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥१३६॥
इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदौ च पृथक्तवं च पृथक्पृथक् ॥१३७॥
यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥१३८॥
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥१३९॥
प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन ।
विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥१४०॥
न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः ॥१४१॥
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादोऽभ्युपेक्षितः ॥१४२॥
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥१४३॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥१४४॥
नारायणः परोऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥१४५॥
अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः ॥१४६॥
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥१४७॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥१४८॥
ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः ॥१४९॥
इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥१५०॥
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद्दुर्निवार्यं समापतेत् ॥१५१॥
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥१५२॥
योऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥१५३॥
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥१५४॥
नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः ॥१५५॥
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥१५६॥
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥१५७॥
इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ।
किं कार्यमनुमानेन गळस्तनसमेन हि ॥१५८॥
अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात्तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥१५९॥
ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥१६०॥
अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत्तस्मान्नानुमात्रोपयोगिनी ॥१६१॥
नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥१६२॥
न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥१६३॥
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥१६४॥
उदीरयति कालाख्यशक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥१६५॥
असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥१६६॥
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥१६७॥
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥१६८॥
स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः ।
स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ॥१६९॥
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥१७०॥
अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः ॥१७१॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः ॥१७२॥
उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥१७३॥
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥१७४॥
मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥१७५॥
अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥१७६॥
स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् ।
इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥१७७॥
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥१७८॥
विशषषकार्यजनकं यदि कारणमिष्यते ।
कुतः समानरूपत्वं कार्याणामपि सर्वशः ॥१७९॥
अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ।
अदृष्टस्यापि तस्यैव विशेषापादकं कुतः ॥१८०॥
यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ।
कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ॥१८१॥
भवेन्नियामकाभावादिदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते ॥१८२॥
इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ॥१८३॥
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते ॥१८४॥
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषोऽखिलस्यापि सत्त्वात्किं नानुमीयते ॥१८६॥
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥१८७॥
तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन ।
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥१८७*॥
स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥१८८॥
उत्तरोत्पत्तिमात्रेण विनाशात्पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥१८९॥
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद्बल्येवानुभवो यतः ॥१९०॥
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥१९१॥
सम्बद्ध एव संस्कारमन्यत्रादत्ततेऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥१९२॥
एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥१९३॥
पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥१९४॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥१९५॥
अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥१९६॥
विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ।
दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेद् ॥१९७॥
विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥१९८॥
सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥१९९॥
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥२००॥
सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥२०१॥
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद्विनासुरततिं क्वचित् ॥२०२॥
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥२०३॥
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥२०४॥
तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ॥२०५॥
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।
सांवृतेनैव सत्येन व्यवहारोऽखिलो भवेत् ॥२०६॥
शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥२०७॥
नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥२०८॥
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥२०९॥
कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन ।
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् ॥२१०॥
देशकालादिनियमो निंह शून्यात्सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते ॥२११॥
किं नानुमीयते तद्वद्वस्तुत्वात्पुरुषाद्भवः ।
सर्वस्यापि नचाभावो विश्वं सदिति गम्यते ॥२१२॥
यतोऽनुभवरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते ॥२१३॥
यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥२१४॥
दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः ।
गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ॥२१५॥
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥२१६॥
दृश्यत्वाद्विमंत मिथ्या स्वप्नवच्चेदियं च मा ।
मिथ्या चेत्साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ॥२१७॥
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।
तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः ॥२१८॥
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।
अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥२१९॥
दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक्स नः सत्यत्वमेव हि ॥२२०॥
विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा ।
नैव दृष्टा प्रमा सा च न भवेत्स्वविरोधतः ॥२२१॥
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत् ॥२२२॥
स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः ।
अन्यथास्यामुना भेद इति वक्तुं न युज्यते ॥२२३॥
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात्प्रतीतिविरोधाच्च न हि कश्चित्तथा वदेत् ॥२२४॥
धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥२२५॥
को विरोधः स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥२२६॥
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात्तेनोक्तोऽन्योन्यसंश्रयः ॥२२७॥
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।
अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ॥२२८॥
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ॥२२९॥
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।
न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ॥२३०॥
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ॥२३१॥
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥२३२॥
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥२३३॥
इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ।
भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ॥२३४॥
तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥२३५॥
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥२३६॥
नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते ॥२३७॥
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥२३८॥
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा ॥२३९॥
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥२४०॥
वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥२४१॥
अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ।
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥२४२॥
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥२४३॥
ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥२४४॥
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥२४५॥
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ।
व्याप्त्या तयान्यथाभावादात्मनोऽनित्यता भवेत् ॥२४६॥
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥२४७॥
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।
संस्थानापगमश्चेत्स न हि भूसागरादिषु ॥२४८॥
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥२४९॥
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥२५०॥
गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ।
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥२५१॥
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥२५२॥
आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ॥२५३॥
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥२५४॥
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥२५५॥
तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ॥२५६॥
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ।
इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥२५७॥
पराधीनपरप्राप्तिरज्ञत्वं प्रळयेऽभवः ।
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ॥२५८॥
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ॥२५९॥
न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ।
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।
नास्याधिष्ठानयोगोऽस्ति भूतानां प्रळये तदा ॥२६०॥
अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत्सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥२६१॥
नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः ॥२६२॥
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतोऽभवत् ॥२६३॥
एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः ॥२६४॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥२६५॥
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः ॥२६६॥
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् ।
मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥२६७॥
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२६८॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥२६९॥
मानवत्त्वाद्विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते ॥२७०॥
अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥२७१॥
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥२७२॥
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥२७३॥
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥२७४॥
समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥२७५॥
स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥२७६॥
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥२७७॥
तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति तन्नोपपद्यते ॥२७८॥
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ॥२७९॥
नार्च्यं महावाममतं वामैरन्यदुदीर्यते ।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥२८०॥
इति तच्चोपपन्नं न शिवस्याकरणत्वतः ।
अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥२८१॥
अणुवामा न तद्युक्तमीशवादप्रवेशनात् ।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ॥२८२॥
न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ॥२८३॥
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥२८४॥
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद्यत आह स भारते ॥२८५॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्टते ॥२८६॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥२८७॥
इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ॥२८८॥
दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं श्लोका इति वचः श्रुतौ ॥२८९॥
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ॥२९०॥
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ॥२९१॥
इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते ।
अनादिकर्मणा बद्धो जीवः संसारमण्डले ॥२९२॥
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ॥२९३॥
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ॥२९४॥
मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥२९५॥
यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥२९६॥
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥२९७॥
अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते ॥२९८॥
अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः ॥२९९॥
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते ॥३००॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP