संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|प्रथमोध्यायः| तृतीयः पादः प्रथमोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः प्रथमोध्यायः प्रथमोध्यायः - तृतीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत तृतीयः पादः Translation - भाषांतर तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥१॥विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।श्रुतिर्वक्त्यखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥२॥अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥३॥ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥४॥अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥५॥सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥६॥लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥७॥बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥८॥लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः ।समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥९॥ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥१०॥मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥११॥अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥१२॥अनामरूपता भेदस्योपजीव्यप्रमाणता ।सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥१३॥अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥१४॥यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा ।विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥१५॥मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥१६॥नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥१७॥अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥१८॥जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् ।विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥१९॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP