संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४८ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता प्रद्युम्नस्य द्वारकाप्रत्यावर्तनम् Translation - भाषांतर श्रीनारद उवाच -स्वपुरे पतितो मूर्च्छां गतः शक्रसखो भृशम् ॥उत्तस्थौ च क्षणं तत्र किंचिद्व्याकुलमानसः ॥१॥अथ कार्ष्णिं परं ब्रह्म ज्ञात्वा शक्रसखस्त्वरन् ॥स्वसकाशाद्बलं नीत्वा यदूनां च बलं ययौ ॥२॥ऐरावतकुलेभाश्च त्रिशुंडा दंडदंतिनः ॥चतुर्दंता श्वेतवर्णाः सहस्राणि मदच्युतः ॥३॥हेमाद्रिप्रभवा नागा योजनद्वयविग्रहाः ॥कोटिशः पर्वताकारा उन्मत्ता दिग्गजा इव ॥४॥दिव्यास्या दिव्यगतयः कोटिशः कोटिशो नृप ॥शतार्बुदा रथा दिव्याः शातकौंभमयाः पराः ॥५॥अयुतानि विमानानां योजनद्वयशालिनाम् ॥नियुतं कामधेनूनां पारिजातसहस्रकम् ॥६॥करिदन्तखचित्स्तंभ-हेमरत्नखचित्पदाः ॥मुक्तास्तडागसंवृद्धा गुणयंत्रस्फुरत्प्रभाः ॥७॥मल्लिकामकरन्दार्द्राः शिरीषकुसुमाकुलाः ॥पयःफेननिभाः शय्याः कोटिशः सोपबर्हणाः ॥८॥वितानानि विचित्राणि भित्तिवस्त्राणि कोटिशः ॥आसनानि मृदुस्पर्श-चित्रवर्णानि सर्वशः ॥९॥दीर्घाणि चोपबर्हाणि विश्वकर्मकृतानि च ॥मुक्तास्तबकहेमाद्यैः खचितानि सहस्रशः ॥१०॥सहस्रशो जवनिकाः शिबिकाश्चैव कोटिशः ॥छत्राणां चामराणां च दिव्यसिंहासनैः सह ॥११॥व्यजनानां तथा कोटी राज्यश्रीभूषणानि च ॥पीयूषाणां द्रोणकोटिः सुधर्मा च सभा तथा ॥१२॥एवं च सर्वतोभद्रपद्मानीति सहस्रकम् ॥हीरकाणां च हरितां मुक्तानां च तथैव हि ॥१३॥गोमेदानां कोटिभारा नीलकानां तथैव च ॥अदित्यचंद्रकांतीनां वैदूर्याणां सहस्रशः ॥१४॥स्यमन्तकमणीनां च कोटिभाराः समागताः ॥तथा वै पद्मरागाणां भारा विद्ध्यर्बुदं नृप ॥१५॥जांबूनदसुवर्णानां हाटकानां तथैव च ॥सुवर्णाद्रिसुवर्णानां कोटिभारश्च कोटिशः ॥१६॥राज्यं नवविधीन्सर्वान्देवानां मैथिलेश्वर ॥अष्टानां लोकपालानामाधिपत्याधिरक्षकः ॥१७॥नीत्वोद्धवं शक्रसखो दत्त्वैवं बलिमद्भुतम् ॥कौशल्यहेतवे कार्ष्णिं प्रणनाम कृतांजलिः ॥१८॥तस्मै तुष्टः शंबरारिः प्रददौ रत्नमालिकाम् ॥संस्थाप्य राज्ये तं राजन्नेषा हि प्रकृतिः सताम् ॥१९॥इत्थं शक्रसखं जित्वा प्रद्युम्नाय बलिं ददौ ॥शिबिराणां समूहोऽभूदरुणोदानदीमनु ॥२०॥महाधनखचिद्भिश्च वितानैः शतयोजनम् ॥पतत्पताकैर्दिव्याभैर्भून्यस्तविजयध्वजैः ॥२१॥विरेजे शिबिरव्यूहो लहरीभिः पयोदधिः ॥आकाशादागतं तत्र गजारूढं पुरन्दरम् ॥२२॥ससैन्यं सहसा राजन्दुंदुभिध्वनिसंयुतम् ॥संवीक्ष्य वेगतो वीरा जगृहुः शस्त्रसंहतिम् ॥२३॥पुनरिन्द्रं च तं ज्ञात्वा बभूवुर्हर्षिता नृपाः ॥श्रीप्रद्युम्नं सभामध्ये कथयन्मघवा तदा ॥२४॥शृणु राजन्महाबाहो त्वं परावरवित्तमः ॥लीलावती नाम पुरी शुभा हेमाद्रिसानुषु ॥२५॥विद्याधरेशः सुकृती तत्र राज्यं करोति हि ॥तत्कन्या सुंदरीनामा शतचन्द्रनिभा शुभा ॥२६॥आगता देवताः सर्वास्तस्या राजन्स्वयंवरे ॥लोकपालास्तथा सर्वे संप्राप्ता दिव्यविग्रहाः ॥२७॥यं दृष्ट्वा मूर्च्छिताहं स्यां स मे भर्ता भविष्यति ॥गिरेत्येवं प्रजल्पंती सुंदरं वरमिच्छती ॥२८॥तत्रापि गच्छ सहसा भ्रातृभिः सह कौतुके ॥स्वयंवरं पश्य वरं देवलोकैश्च मण्डितम् ॥२९॥श्रीनारद उवाच -तच्छ्रुत्वा भगवान्कार्ष्णि-र्यादवैर्भ्रातृभिः सह ॥पुरन्दरेण सहसा पुरीं लीलावतीं ययौ ॥३०॥विशालाजिरसंयुक्ते खचिद्रत्नमनोहरे ॥चन्दनागुरुकस्तूरीकुंकुमद्रवचर्चिते ॥३१॥मुक्तायुक्तैस्तोरणैश्च वितानैः सुमहाधनैः ॥जांबूनदासनैः साक्षादिंद्रलोक इवापरे ॥३२॥तस्मिन्स्वयंवरे तस्थौ प्रद्युम्नो दिव्य आसने ॥गिरिशशृङ्गे यथा सिंहः सर्वेषां पश्यतां नृप ॥३३॥व्रजेशा मुनयस्तत्र देवा रुद्रगणास्तथा ॥मरुतो रवयश्चैव वसवो ह्यग्नयोऽश्विनौ ॥३४॥यमोऽथ वरुणः सोमो धनदः शक्र एव हि ॥सिद्धा विद्याधराश्चैव गंधर्वः किन्नरास्तथा ॥३५॥अन्ये समागताः सर्वे रत्नाभरणभूषिताः ॥जहुर्वैवाहिकीमाशां प्रद्युम्नं वीक्ष्य मैथिल ॥३६॥सा सुंदरी तत्र सुरत्नमालयारतिं च रंभां क्षिपतीव निर्गता ॥वाणी रमां रुपवतीं पुलोमजांविडंबयन्तीव बभौ वरांगना ॥३७॥यां वीक्ष्य सर्वेषु सदःसु सर्वतोमोहं प्रयातेषु तथैव मैथिल ॥श्रीः सर्वलोकस्य च पश्यतो वरंविचिन्वती सा चपलेव चांबुदम् ॥३८॥दिव्यांबरं पद्मदलायतेक्षणंप्रद्युम्नवीरं नरलोकसुन्दरम् ॥समेत्य मूर्च्छां समवाप सुन्दरीविद्याधरी सा पुनराप संज्ञाम् ॥३९॥समुत्थिता सात्वतहर्षविह्वलातस्थौ सुमालां विनिधाय तद्गले ॥विद्याधरेशः सुकृती च सुन्दरींसुतां ददौ मैथिल शंबरारये ॥४०॥नदत्सु तूर्य्येषु तदैव निर्जरान सेहिरे वीक्ष्य विवाहमंगलम् ॥तं सर्वतः संरुरुधुः स्वयंवरंप्रचण्डमेघा इव भास्करं परम् ॥४१॥क्रोधावृतांस्तानमरान्धनुर्धरान्मदोद्धतान् वीक्ष्य हरेः स्वयंवरम् ॥श्रीकृष्णदत्तं सशरं धनुः स्वयंवरं गृहीत्वा यदुभिर्जगर्ज ह ॥४२॥तच्चापमुक्तैर्विशिखैः स्फुरत्प्रभै-श्छिन्नायुधा मैथिल शीर्णकञ्चुकाः ॥विदुद्रुवुस्ते च दिशो दशामरानीहारमेघा इव सूर्यरश्मिभिः ॥४३॥प्रद्युम्नो भगवान्साक्षादित्थं जित्वा स्वयंवरम् ॥विजित्येलावृतं खंडं भारतं गंतुमुद्यतः ॥४४॥भातृभिर्यदुभिः सैन्यैः सर्वमंत्रिजनैः सह ॥आययौ भारतं खंडं नादयन् जयदुन्दुभीन् ॥४५॥पश्यन्देशाननेकांश्च जंबूद्वीपजयो बली ॥आनर्तान्द्वारकान्देशान् प्राप्तोऽभूत्स हरेः सुतः ॥४६॥प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥प्रणनामोग्रसेनं तं सभायां श्रीहरिं बली ॥४७॥वर्षे वर्षेऽपि यज्जातं जंबुद्विपजयं तथा ॥तत्सर्वं हि यथायोग्यं कथयामास चोद्धवः ॥४८॥श्रीकृष्णबलदेवाभ्यां सर्वैर्वृद्धजनैः सह ॥प्रद्युम्नं तं समानेतुमुग्रसेनो विनिर्गतः ॥४९॥गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥मुक्तावर्षैर्लाजपुष्पैः पाठारावैः सुमंगलैः ॥५०॥वारणेन्द्रं पुरस्कृत्य सौवर्णैः कलशैर्नृप ॥गंधर्वैर्वारमुख्याभिः शंखदुन्दुभिवेणुभिः ॥५१॥गंधाक्षतैर्हेमपात्रैः पुष्पधूपैर्यवांकुरैः ॥उग्रसेनः शंबरारेः संमुखं चाजगाम ह ॥५२॥खड्गं नीत्वोग्रसेनस्य पुरो धृत्वा कृतांजलिः ॥ननाम कार्ष्णिर्यदुभिर्भ्रातृभिः सह मैथिल ॥५३॥श्रीकृष्णं सबलं नत्वा सर्वान् वृद्धान्प्रणम्य च ॥गर्गाचार्यं ननामाशु प्रद्युम्नो मीनकेतनः ॥५४॥संश्लाघ्याभ्यर्च्य विधिवद्ब्राह्मणैर्वेदसूक्तिभिः ॥आरोप्य वारणे कार्ष्णिमुग्रसेनः पुरीं ययौ ॥५५॥मंगलं द्वारकायां च सर्वत्राभूद्गृहे गृहे ॥इत्थं नृप ते कथितं किं भूयः श्रोतुमिच्छसि ॥५६॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नद्वारकागमनं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP