दोषो गाय बृहद् गाय द्युमद् गाय आथर्वण ।
स्तुहि देवं सवितारम् ॥१॥
तमु स्तुहि यो अन्तः सिन्धुं सूनुं सत्यस्य युवानम् ।
अद्रोघवाचं सुशेवम् ॥२॥
स घा नो देवः सविता साविषद् वसुपतिर्वसूनि ।
उभे सुष्टुती सुगातुम् ॥३॥
इन्द्राय सोममृत्विजः सुनोतु नाव धावत ।
स्तोतुर्यो हवं श्रृणवद्धवं च न: ॥४॥
सुनोता सोमपाव्ने सोममिन्द्राय वजिणे । पाब्ने
युवा जेतेशानः स पुरुष्टुतः ॥५॥
आ त्वा विशन्त्वीन्दवो वयो न वृक्षमन्धस: ।
विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥६॥
आरे ऽसावस्मदस्तु हेतिर्देवासो असत् ।
आरे मर्त्तानामशस्तिः ॥७॥
सखैव नो रातिरस्तु सखेन्द्र: सखा सविता ।
सखा भगः सत्य धर्मा नो अस्तु ॥८॥
अभि नो देवीरवसा महश्शर्मणा नृपत्नी: ।
अच्छिन्नपत्राः सचन्ताम् ॥९॥
इडे अग्निं भवं शर्वं रक्ष उपब्जदहिं । व्जदहिं
बलासमुत सेधिमुग्राम् ॥१०॥
आरे अस्मद् दधते दैव्यं भयं सुवीर्यम् ।
मरुत: शर्म यच्छत॥११॥
ईडे द्यावापृथिवी पर्वता अपश्च सूर्यमुर्वन्तरिक्षम् ।
वनस्पतीनोषधीर्गा उतर्च ऋतस्य नः पतयो मृडयन्तु ॥१२॥
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये।
इह सोमो वरुणो वायुरग्निर्भग उग्रा अवसे नो गमन्तु ॥१३॥
पातं न इन्द्रापूषणा वरुणः पान्तु मरुत: ।
अपां नपात् सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१४॥
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
पातु नो देवी सुहवा सरस्वती पात्वग्निर्ये शिवा अस्य पायवः ॥१५॥
पातां नो देवाश्विना सुदंससोषासानक्तोत न उरुष्यताम् ।
अपां नपादविह्वृती कयस्य तच्चिद्देवो मूर्धं नदिते शर्म यच्छ नः ॥१६॥


त्वष्टा मे दैव्यं वचः पर्यन्यो ब्रह्मणस्पतिः ।
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणे शवः ॥१॥
अंशो भगो वरुणो मित्रो अर्यमादितिः पात्वंहसः ।
अप तस्य द्वेषो गमेदविहृतो यावयच्छत्रुमन्तितम् ॥२॥
देवत्वष्टर्वर्धय सर्वतातये धिये समुश्रिये प्रावतां नः ।
उरुष्या न उरुतरः प्रयुच्छन् द्यौष्पितर्यावय दुच्छुनामितः ॥३॥
यो नो वचो ऽभिरुदति सनाभिस्तं नः सोम पलिता अप यन्ति ।
नीचैस्तान् वृश्चन् यथा विरुक्षन् मा ते दृशन् सूर्यमुच्चरन्तम् ॥४॥
त्वयेष्टया त्वया सोम धन्वना त्वया मुष्टिघ्ना शाशद्महे वयम्।
तं त्वा वृश्च य इदं न आदृशा कत्वं ह नामदण्डै रुदितं सनाभिः ॥५॥
पदेन तान् पदव्य नयन्तु वधैरेनान् पितरो दोषयन्तु ।
यथा न जीवाति कतमश्चनैषाम् ॥६॥
येन समादितिः पथा मित्रा वा यन्त्यद्रुहः॥
तेना नोविता भुवः ॥७॥
यो नः सोम सुशंसिनो दु:शंसो अभिदासति ।
वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥८॥
यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्य: ।
अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥९॥
पुनरघमघकृतमेतु देवा: पुनरेनै नमस्कृतं विजानत् ।
पुनः पुत्र: पितरमेतु विद्वान् हुतमुताद्यदस्यश्वमस्ति ॥१o॥
येन चासौ शपति येन चैनं शपामसि ।
उभौ सं वृज्यतौ तस्मादन्तिकाद्धेतिमस्यताम् ॥११॥
ये पार्थिवास: शपथा य उरावन्तरिक्षे ।
ये वातस्य प्रभर्मणि तेभिष्टं वर्त्तयामसि यो ऽस्मान् द्वेष्टि यं वयम् दिष्म:॥१२॥
योस्मान् परि मा सृप: कुल्लिपयानि बिभ्रत: ।
उद्देवस्तेषां वृश्चतु मूलमुर्वावा यथा ॥१३॥
यो देवा अघधामघमन्यस्मिन्नशे संगति ।
भारो अघस्य दुःसह प्रत्यक् कर्त्तारमृच्छतु ॥१४॥
पुनरेवाघधामघं द्युम्नमिवैतु वर्षतु।
आदित्या दुर्यमाहिषी महीं सिन्धोरिवावनिः ॥१५॥


शश्वद् विद्युत् क्रीयमाणा प्रतीचीन हि पप्त च ।
प्रत्यक् कर्तारमृच्छतु ॥१॥
शश्वन्तमिच्छसदानमन्यस्मा ईषूर्दिहानम् ।
प्रतीचीः शरुर्ऋच्छतु ॥२॥
यदेतद्भूरिशासद प्रतीचीनमुपोहसे ।
विषादिव विषमद्धि तत् ॥३॥
नमस्ते प्रवतो नपाद्यतस्तप: समूहसे ।
मृडया नस्तनूभ्य: शं नस्तोकेभ्यष्कृधि ॥४॥
प्रवतो नपान्नमो अस्तु तुभ्यं नमस्ते हेतये तपुष्यै: ।
विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर्निहितासि नाभिः ॥५॥
यां त्वा देवा अजनयन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
सा नो मृड विदथे गृणाना मित्रस्य च वरुणस्य प्रसृष्टौ ॥६॥
यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
शर्म यच्छाथ सप्रथाः ॥७॥
सुमृडत सुषूदत मृडया नो अघ्नाभ्यः ।
स्तोकाय तन्वे च ॥८॥
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥९॥
यो ऽस्मान् ब्रह्मणस्पते देवो अभिदासति ।
सर्वं तं रीरधासि न: ॥१०॥
येभिः सोमः साहन्त्यासुरान् रन्धयासि ।
तेभिर्नोविता भुव: ॥११॥
येन देवा असुराणामोजांस्यवृष्णीध्वम् ।
तेभिर्नो अधि वोचत ॥१२॥
उदेनमुत्तरं नयाग्ने घृतेभिराहुत: ।
समेनं वर्चसा सृज देवानां भागधा असत् ॥१३॥
इन्द्रेमं प्रतरं कृधि सजातानामसद् वशी ।
रायस्पोषेण सं सृज प्रजया च बहुं कृधि ॥१४॥
यस्य कृण्मो गृहे हविस्तमग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥१५॥


ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
अजस्रं घर्ममीमहे ॥१॥
स इदं प्रति यः पृथग् यज्ञस्य स्वरुत्तिरन् ।
ऋतूंरुत् सूजते वशी ॥२॥
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य !
सम्राडेको वि राजति ॥३॥
परि द्यामिव सूर्योहीना जनिमागमम् ।
रात्री जगदिवान्यद्धंसादवारीरिमं विषम् ॥४॥
यद् ब्रह्मभिर्यदृषिभिर्यद् देवैरुदितं पुरा ।
यद् भूतं भव्यमासन्वत् तेन ते वारये विषम् ॥५॥
मधुना पृञ्चे नद्यः पर्वता गिरयो मधु ।
मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥६॥
यथेयमूर्वी पृथिवी दाधार विष्टितं जगत् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥७॥
यथेयमूर्वी पृथिवी दाधारेमान् वनस्पतीन् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥८॥
यथेयमूर्वी पृथिवी दाधार पर्वताङ् अपः ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥९॥
सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।
वरेण्यक्रतुरहमपो देवीरुप ब्रुवे ॥१०॥
ओता आप: कर्मण्या मुञ्चन्त्वित: प्रणीतये ।
सद्यो भवन्त्वेतवे ॥११॥
देवस्य सवितुः सवे कर्म कृण्वन्ति मानुषा: ।
शं नो भवन्त्वप ओषधीरिमा: ॥१२॥
शतस्य ते धमनीनां सहस्रस्य हिराणाम् ।
अस्थुर्मध्यमा याः साकमन्ता अरंसत ॥१३॥
परि वः सिकतामयी धनूस्थिराश्चिदस्थिरम् ।
तिष्ठतेलयता सु कम् ॥१४॥
अमूर्या यन्ति यामयः सर्वा लोहितवाससः ।
अभ्रातर इव योषितस्तिष्ठन्ति हतवर्चसः ॥१५॥
तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
कनिष्ठिका च तिष्ठाति तिष्ठादिद्धमनिर्मही ॥१६॥
इत्यृचनाम ऊनविंशतिकाण्डे प्रथमोऽनुवाकः.


नमो देववधेभ्यो नमो राजवधेभ्यः ।
अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमो ऽस्तु ते ॥१॥
नमस्ते अधिवाकाय परावाकाय ते नम: ।
सुमत्यै मृत्यो ते नमो दुर्मत्यै त इदं नमः ॥२ ॥ईदं
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
मूलेभ्यो मृत्यो ते नमो ब्राह्मणेभ्य ईदं नमः ॥३॥
नव च या नवतिश्च संयन्ति मन्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥४॥ईत
सप्त च या: सप्ततिश्च संयन्ति स्कन्ध्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥५॥ईत
पञ्च च याः पञ्चाशच्च संयन्ति ग्रैव्या अभि ।
इतस्ता: सर्वा नश्यन्तु वाका अपचितामिव ॥६॥ईत
आबयो अनाबयो रसस्त उग्र आबयो ।
आ ते करम्भमद् इमहि ॥७॥
स हि न त्वमसि यस्त्वमात्मानमावय: । माब
बभ्रुश्च बभ्रुकर्णश्च नीलागलसालाः शिवः पश्य ॥८॥
तौ विलिकेवेलयावायमैलब ऐलयीत् ।
वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा ॥९॥
स्वाहा मनसा यदिदं कृणोमि यस्यास्त आसनि जुहोमि घोरे ।
एषां बद्धानामवसर्जनाय कम् ॥१o॥
भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद विश्वत: ।
भूते हविष्मत्यस्यैष ते भागस्तेन ते विधेयं स्वाहा ॥११॥
एवो ष्वस्मत्त्वं निर्ऋते विश्ववारे अयस्मयान् प्र मुमुग्धि पाशान् ।
यमेन त्वं यम्या संविदानो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म स्तस्मिन् तान् पाशान् प्रति मुञ्चन्तु सर्वान् ॥१२॥
उत्तमो अस्योषधीनां तव वृक्षा उपस्तय: ।
उपस्तिरस्माकं भूयाद् यो अस्माङ् अभिदासति ॥१३॥
सबन्धुश्चासबन्धुश्च यो अस्माङ् अभिदासति।
सबन्धून् सर्वांस्तीर्त्वाहं भूयासमुत्तमः ॥१४॥बन्धु
यथा सोम ओषधीनामुत्तमं हविरुच्यते ।
एवा त्वमिव वृक्षाणामहं भूयासमुत्तमः ॥१५॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP