संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २३१

द्वापरयुगसन्तानः - अध्यायः २३१

लक्ष्मीनारायणसंहिता


पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शूलारोपणकारिणः ।
जल्लादस्य कथां नाम्ना तारकादर्शकस्य वै ॥१॥
चम्बावत्यां नगर्यां वै रावीनद्यास्तटान्तिके ।
महाकारागारदुर्गे शूलीदण्डविधायिनि ॥२॥
नियुक्तोऽभूत् तारकादर्शकः शूल्यधिरोपकः ।
राजदण्डेन ये दण्डिताः स्युर्महापराधिनः ॥३॥
स्त्रीघ्ना गोघ्नाश्च बालघ्ना नरघ्ना मूर्तिभञ्जकाः ।
देवालयविनेष्टारः सर्वे शूल्यर्हदण्डिनः ॥४॥
तेषां शूल्यग्राधिरोहं करोति तारकादृशिः ।
चम्बापुर्या महाराजो नाम्ना वै सुपथानकः ॥५॥
तारकादर्शकं जल्लादकं ररक्ष शूलिनम् ।
दुर्गमध्ये शूलिकाऽऽस्ते यत्र वैहायसाः सदा॥६॥
पतत्त्रिणो भ्रमन्त्येव पिशिताशनकांक्षिणः ।
यां स्मृत्वा रोमकम्पो वै जायते धैर्यशालिनः ॥७॥
दृष्ट्वा हृत्स्तब्धता चापि निर्बलस्य प्रजायते ।
दण्डं श्रुत्वा परमेशं स्मरन्ति सज्जना अपि ॥८॥
पापिनोऽपि प्रभुं स्मरन्तीशेश पाहि मामिति ।
यमालयो यथा तद्वद् भयानकं स्थलं तु तत् ॥९॥
तत्र जल्लादवासोऽभूद् दिवानिशं हि दुर्गके ।
वेतन लभते राज्यात् प्राणयात्रां करोति च ॥१०॥
शूलीदण्डार्हदुष्टाय दण्डदानक्षणात् पुरः ।
श्रावयत्येव नामानि कृष्णनारायणेति सः ॥११॥
रक्ष माधव गोविन्द पुनः पापात् प्ररक्षय ।
एषोऽहं शूलिकारूपे कृष्णेऽर्पितो भवामि च ॥१२॥
मम पापफलं चेदं भुंजे नान्योऽत्र दोषभाग् ।
पुनर्नैवं करिष्येऽघं पापान्मुक्तो भवामि चेत् ॥१३॥
शृण्वन्तु मानवाः सर्वेऽधिरोहामि स्वकर्मणा ।
मा शोचन्तु मम नाशं शोचन्तु पापकर्म वै ॥१४॥
मा कुर्वन्त्वपि पापानि मा शूलीमधियन्तु च ।
बान्धवाः पितरो माता सम्बन्धी पुत्रपुत्रिकाः ॥१५॥
सुहृदश्च प्रजालोका ये तु पश्यन्ति मामिह ।
ते धर्मं संपालयन्तु मे वक्तव्यं न चेतरत् ॥१६॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इति सर्वं तदोच्चारयित्वा तं दण्डशालिनम् ॥१७॥
नेत्रयोः पट्टबन्धं च कृत्वोत्तोल्य जनैः शनैः ।
शूल्यग्रे तीक्ष्णधारेऽवस्थाप्यते पृष्ठगे तले ॥१८॥
मध्यभागे पृष्ठवंशे समतोले शनैः शनैः ।
उत्तानं दोषिणं शूलं यथा विशति पृष्ठके ॥१९॥
तदा जल्लादको भक्तो गृणाति कृष्ण कृष्ण वै ।
कृष्णनारायणकृष्ण संश्रावयति दोषिणम् ॥२०॥
पापनाशस्तथा मोक्षो यदोदयः प्रजायते ।
यद्वा पुनः शुभं जन्म यथा स्याद्दोषिणस्तथा ॥२१॥
सलिलं तुलसीमिश्रं तस्मै ददाति दोषिणे ।
ओष्ठयोश्चान्तिमे प्राणयानकाले हरिं गृणन् ॥२२॥
वाद्यानि बहुधा तत्र वादयन्ति नृपानुगाः ।
दुःखशब्दाक्रोशनादि यथा श्रूयेत नैव ह ॥२३॥
अथ प्राणे गते शूलाच्छवं चोत्तार्य भूतले ।
वह्निगर्ते क्षिपत्येव यद्वा सम्बन्धिने तदा ॥२४॥
कुटुम्बिने ददात्येव राजाज्ञया यथातथम् ।
एवं स तारकादर्शो दोषिणं प्रेषयत्यपि ॥२५॥
यमलोकं च वा कृष्णनाम संश्राव्य वै दिवम् ।
अन्तरामा हरिकृष्णो जानाम्यहं रमे हि तत् ॥२६॥
भक्तो मे तारकादर्शो वर्तते नामकीर्तने ।
एवं कृत्वा दण्डकर्म ततः स्नात्वा च मालिकाम् ॥२७॥
करे धृत्वा कृष्णकृष्ण सहस्रं स जपत्यपि ।
प्रायश्चित्तं तथा सप्तोपवासान् स करोत्यपि ॥२८॥
क्षमां प्रयाचते कृष्णाच्छूलीपापं क्षमस्व मे ।
अथ तीर्थे शुभे रावीनद्या जम्बुप्रदेशके ॥२९॥
स्नात्वा दानं ददात्येव वेतनात्तद्दिनोद्भवम् ।
साधून् प्रसेवते नित्यं करोति स्मरणं हरेः ॥३०॥
नित्यं ध्यानं हरेश्चापि पूजनं भजनं तथा ।
नैवेद्यार्पणमेवाऽपि ताम्बूलसलिलार्पणम् ॥३१॥
धूपं दीपं नमस्कारं नीराजनं स्तवं तथा ।
क्षमायाचनमेवाऽपि कृत्वा विसर्जनं नमः ॥३२॥
करोत्येव ततो भुक्त्वा प्रसादं तु निवेदितम् ।
स्वभृत्यतानियुक्तौ वै नम्रः समुपतिष्ठति ॥३३॥
मालामावर्तयन् हस्ते नारायणं रटँश्च माम् ।
भक्तान् वीक्ष्य नमस्कारं करोति चान्तरात्मने ॥३४॥
सर्वं ब्रह्माधिवासं च मत्वा मग्नो हि वर्तते ।
एवंविधो मम भक्तो जल्लादस्तारकादृशिः ॥३५॥
भक्तौ मे दृढतां प्राप्तः सायं तु स्वगृहांगणे ।
नरान्नारीः समाहूय कीर्तनं तु निशामुखे ॥३६॥
कृष्णनारायणविष्णो जिष्णो राधारमापते ।
गोविन्दमाधववासुदेवकृष्ण श्रियः पते ॥३७॥
एवं रटति घटिकाद्वयं संभूय मानवैः ।
कीर्तनान्ते मम पूजां करोत्यारार्त्रिकं तथा ॥३८॥
प्रसादं सर्वभक्तेभ्यो ददाति मन्निवेदितम् ।
रात्रौ निद्रां करोत्येव कण्ठे धृत्वा तु मालिकाम् ॥३९॥
रटन् मन्नाम वै बालकृष्णकृष्णनरायण ।
एवं भक्त्या प्रसन्नोऽहं सञ्जातस्तस्य वै पुरः ॥४०॥
अदृश्यो वै भवाम्येव शृणोमि कीर्तनादिकम् ।
पश्यामि पूजनं चापि गृह्णामि स्नेहतः सदा ॥४१॥
अथैकदा तु भक्तं मे तारयितुं व्यचिन्तयम् ।
अस्य देयं मया नित्यं भोजनं जलमम्बरम् ॥४२॥
अयं मोक्षयितव्यश्च शूलीकर्मविधानतः ।
भक्तो मे रागरहितः शूलीकर्मणि सर्वथा ॥४३॥
तथापि प्राणयात्रार्थं वेतनार्थी करोति तत् ।
हिंसनं पापमेवाऽस्ति निमित्तः शूलदोऽपि च ॥४४॥
तत्रोद्विजते भक्तो मे प्रायश्चित्तं करोति च ।
तस्मान्मोचयितव्योऽयं शूलीकर्माऽधिकारतः ॥४५॥
विचार्येत्थं तदा लक्ष्मि कारागाराऽधिपोऽभवम् ।
कारागाराधिपरूपं धृत्वाऽगच्छं नृपं प्रति ॥४६॥
न्यवेदयं च राज्ञेऽहं तारकादर्शचेष्टितम् ।
शृणु राजन् कथयामि ततो यद् रोचते कुरु ॥४७॥
तारकादर्शकश्चायं नियुक्तो वेतनेन वै ।
शूली दण्डप्रदानार्थं दुष्टानां भवता ह्यपि ॥४८॥
भक्तोऽयं दयया युक्तः प्रायश्चित्तं करोति सः ।
पापं तु मन्यते शूल्यारोपणं दण्ड्यदेहिनः ॥४९॥
कृष्णकृष्णेति जपति सप्ताहं न भुनक्ति च ।
मृदुहृत् सदयचित्तः क्वचिद् दयावशंवदः ॥५०॥
क्वचिदाज्ञोल्लघनं वै करिष्यतीति भाति मे ।
नायं योग्यस्तत्र कार्ये मृदुस्वभाववान् यतः ॥५१॥
क्रूरस्तत्र सदा योग्यो नियोक्तव्योऽपरो जनः ।
यत्र कार्ये सुविश्वासो यस्य तस्माद् भयं न वै ॥५२॥
अस्मात्तु मे भयं भाति ततस्तं त्वपसारय ।
अरण्यरक्षणं तस्मै देहि यत्र न हिंसनम् ॥५३॥
यस्माद्भयं न भंगस्य स्वाज्ञायाश्च नयस्य च ।
एवमुक्त्वा तथैवाज्ञापत्रं तत्रैव तत्तथा ॥५४॥
लेखयित्वाऽरण्यदक्षाकरं कृत्वा तिरोऽभवम् ।
पत्रं राजाज्ञया दूतद्वारा प्राप्तं सुखास्पदम् ॥५५॥
तारकादर्शनेनापि प्रसादः स मतो हरेः ।
पापस्थलादपसारः कृष्णेच्छयाऽस्ति वै मम ॥५६॥
योग्यं करोति भगवान् भक्तरक्षाकरो हरिः ।
मत्वैवं भगवद्वाञ्च्छा त्यक्त्वा शूलीस्थलं द्रुतम् ॥५७॥
आरण्याऽधिकृतिं तूर्णं जग्राहाऽधिकवेतनैः ।
महासुखः स सम्पन्नो वसत्यरण्यमण्डले ॥५८॥
कुटुम्बसहितो नित्यं रावीनदीतटे शुभे ।
वन्यैः फलैश्च कन्दैश्च पत्रैः शिम्बीजबीजकैः ॥५९॥
कणैः शुभौषधैरन्नै रसैश्च मधुभिस्तथा ।
निर्वहत्येव नूत्नैः स प्राणयात्रां सुखोदयाम् ॥६०॥
विदित्वा मे महिमानं भजतेऽधिकमेव माम् ।
उष्ट्रमारुह्य रात्रौ स दिवा चापि भटैः सह ॥६१॥
निरीक्षते महारण्यं राजेव वर्तते सदा ।
आरण्यका जना दुग्धदधिमायसमिष्टकैः ॥६२॥
सम्मानं संप्रकुर्वन्ति मिष्टान्नशर्करादिभिः ।
नूत्नसस्योद्भवं भक्ष्यं चार्पयन्ति वनेचराः ॥६३॥
क्षेत्रवाटीश्वराश्चापि सीमरक्षाधिकारिणे ।
यथा कश्चिन्नरकाद्वा कारागाराद् विमुच्य वै ॥६४॥
राज्याभिषेकमाधत्ते तद्वत् सुखमवाप्तवान् ।
एवं वै तारकादर्शोऽभवत् सुखी कृपावशात् ॥६५॥
भक्तौ वृद्धिमवापैव ध्याने च भजनेऽर्हणे ।
नित्यं मालावर्त्तनं तु सहस्रं प्रकरोत्ययम् ॥६६॥
परात्मना सुखं दत्तं कथं भजे न माधवम् ।
मत्वैवं क्षेमकुशले नारायणं विशेषतः ॥६७॥
भजते मम भक्तो मां बहुधा भक्तिकर्मभिः ।
निजाश्रमे कृता मूर्तिर्मृण्मयी तेन शोभना ॥६८॥
कृष्णाश्चमरीक्शाश्च केशास्तत्र सुयोजिताः ।
नेत्रे द्वाभ्यां कपर्दीभ्यां योजिते कृष्णबिन्दुके ॥६९॥
पुष्पावतंसौ गुच्छौ च कर्णयोर्निहितौ तदा ।
पद्मबीजकृता माला गुंजामाला तथाऽर्पिते ॥७०॥
स्फटिका भुजबन्धे च प्रकोष्ठे योजिताः शुभाः ।
ऊर्मिकाश्च कृता दर्भपत्रैश्च मुञ्जशृखलाः ॥७१॥
फलाहारा धारिताश्च वस्त्राणि वल्कलान्यपि ।
कम्बलो मृगचर्माऽपि पुष्पशृंगारकाणि च ॥७२॥
यथाकालोद्भवान्येव समर्पितानि शार्ङ्गिणे ।
चतुर्भुजं स्वरूपं तच्छंखचक्रगदाब्जधृक् ॥७३॥
तथा पार्श्वे शुभा लक्ष्मीर्युवती सुविभूषिता ।
सर्वाभरणयुक्ता च कृता वन्यसुवस्तुभिः ॥७४॥
कुंकुमाऽलक्तकाद्यैश्च यथास्थानं सुशोभिता ।
पात्राणि वन्यपत्राणि कुटी वंशादिसंभवा ॥७५॥
उपचाराणि वन्यानि कृतानि भक्तियोगिना ।
गावस्तेन सुदोग्ध्र्यश्च रक्षिता भगवत्कृते ॥७६॥
अरण्ये तृणघासादिबाहुल्येन सुपोषिताः ।
नित्यमेवं प्रगे स्नात्वा पूजयित्वा रमां प्रभुम् ॥७७॥
पुष्पहारादिभिः सम्यक् शृंगार्य चन्दनादिभिः ।
मधुभिर्मिष्टगुन्द्रैश्च वृक्षसारैः फलादिभिः ॥७८॥
मिष्टरसैर्मिष्टकन्दैर्नैवेद्यं च जलं तथा ।
ताम्बूलकं च दीपं च धूपं प्रदक्षिणं स्तुतिम् ॥७९॥
अपराधक्षमां नमो दण्डवत् कुसुमाञ्जलिम् ।
परिहारं विदधाति नित्यमेवं करोति सः ॥८०॥
मध्याह्ने भोजनं सायं पूजानीराजनाऽदनम् ।
समर्प्य धूपदीपादि करोति कीर्तनं सदा ॥८१॥
तस्य भार्या कृतशल्या प्रातरुत्थाय नित्यदा ।
स्नात्वा पुष्पाणि चानीय निर्माय मालिकादिकम् ॥८२॥
अर्पयत्येव कृष्णाय नमत्यपि शतं मुहुः ।
ततः क्षमार्थनां कृत्वा पतिं नत्वा गृहक्रियाम् ॥८३॥
करोति सतं चैवं मध्याह्ने भोजनार्पणम् ।
सायं तथैव नैवेद्यार्पणं करोति मिष्टकम् ॥८४॥
शृंगारभूषावेषादि चावतार्य श्रियं प्रभुम् ।
योग्यवेषं धारयित्वा निद्रापयति वै निशि ॥८५॥
प्रातर्वेषं सुशृंगारं धारयत्युत्तमं नवम् ।
यत्पक्वं पाचितं सर्वं निवेदयति शार्ङ्गिणे ॥८६॥
प्रसादान्नजलं शाकं तुलसीदलमिश्रितम् ।
भुंक्ते कुटुम्बकं नित्य पुत्रपुत्र्यादिसंहितम् ॥८७॥
एवं वै वर्तमानस्य तारादर्शस्य चालयम् ।
अभ्यागतस्वरूपोऽहं जटी भूत्वा वनी ययौ ॥८८॥
सायंकाले कुटुम्बेन स्नेहेन स्वागतं मम ।
कृतं साधुं विदित्वैव जपन्तम श्रीनरायणम् ॥८९॥
भोजितोऽहं पूजितश्च पायितोऽङ्गेषु मर्दितः ।
स्वापितः शयने प्रातरुत्थापितो नमस्कृतः ॥९०॥
संस्नापितः पूजितश्च भोजितो दक्षिणाऽर्पितः ।
प्रसन्नतां प्रति सम्यगर्थितो मोक्षणं प्रति ॥९१॥
तथाऽस्त्वेवमुच्चरितः प्रस्थापितोऽतिभावुकैः ।
तदाऽहं दिव्यरूपेण संवर्तितश्चतुर्भुजः ॥९२॥
श्रीयुतो दिव्यतेजोभिर्व्याप्तः प्रसन्नतायुतः ।
भक्तभक्तिवशो दत्वाऽऽशीर्वादं मोक्षणं प्रति ॥९३॥
प्रसादं पुष्पहाराँश्च दत्वा दशकुटुम्बिने ।
तिरोभवं द्रुतं तत्र प्रतिमायां हि पश्यताम् ॥९४॥
अत्याश्चर्यं च ते प्राप्ता दिव्यदृष्टिं प्रपेदिरे ।
तत आरभ्य मूर्तौ मां लक्ष्मीयुक्तं सुदर्शनम् ॥९५॥
नित्यं दिव्यं प्रपश्यन्ति साक्षाद्वै पितरौ यथा ।
कृतकृत्याश्च ते जाता दिव्या मेऽनुग्रहात् खलु ॥९६॥
अथ काले प्रसंप्राप्ते विमानेन सुतेजसा ।
अनयं तानक्षरं मे धाम लक्ष्मि परात्परम् ॥९७॥
एवं भक्तस्य मोक्षो वै मया कृतो दयालुना ।
मुमुक्षूणां हृदयेऽस्मि विशेषतोऽवनार्थकः ॥९८॥
पापाः पापसमाचाराः पापिसंगाश्च मानवाः ।
पापनाशेच्छया मां वाऽऽश्रयेयुः साधुसत्तमान् ॥९९॥
विधूय तेषां पापानि दत्वा पुण्यानि सर्वथा ।
पावनान् देहिनः कृत्वा दत्वा दिव्यतनूस्ततः ॥१००॥
नयामि वा दिवं सत्यं श्रीपुरं चामृतं च वा ।
अव्याकृतं वा वैकुण्ठं गोलोकं वाऽक्षरं पदम् ॥१०१॥
परं पदं प्रापयामि राजाधिराजशोभनम् ।
ददामि सेवनं तत्र पादयोर्मम सर्वदा ॥१०२॥
पठनाच्छ्रवणादस्य स्पर्शनाद् वर्तनादपि ।
भुक्तिर्मुक्तिर्दिव्यगतिर्जायते मोक्षणं रमे ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शूलीप्रदस्य तारकादर्शस्य तत्पत्न्याः कृतशल्यायाश्च भक्त्याऽभ्युदयौ मोक्षणं चेत्यादिनिरूपणानामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP