मध्यखण्डम् - सप्तमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी
मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥१॥

वह्निसाध्यवटीनिर्माणविधिः
लेहवत्साध्यते वह्नौ गुडो वा शर्करा तथा
गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ॥२॥

अवह्निसाध्यवटीनिर्माणविधिः
कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्
द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ॥३॥

वटिकायां गुडशर्करामाननिर्णयः
सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः
चूर्णाच्चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्
द्र वं च द्विगुणं देयं मोदकेषु भिषग्वरैः ॥४॥

वटीमात्रानिर्देशः
कर्षप्रमाणा तन्मात्रा बलं दृष्ट्वा प्रयुज्यताम् ॥५॥

श्रीबाहुशालगुडोऽशआदौ
इन्द्र वारुणिका मुस्तं शुण्ठी दन्ती हरीतकी
त्रिवृच्छटी विडङ्गानि गोक्षुरश्चित्रकस्तथा ॥६॥

तेजोह्वा च द्विकर्षाणि पृथग्द्र व्याणि कारयेत्
सूरणस्य पलान्यष्टौ वृद्धदारु चतुष्पलम् ॥७॥

चतुष्पलं स्याद् भल्लातः क्वाथयेत्सर्वमेकतः
जलद्रो णे चतुर्थांशं गृह्णीयात्क्वाथमुत्तमम् ॥८॥

क्वाथ्यद्र व्यात्त्रिगुणितं गुडं क्षिप्त्वा पुनः पचेत्
सम्यक्पक्वं च विज्ञाय चूर्णमेतत्प्रदापयेत् ॥९॥

चित्रकत्रिवृतादन्तीतेजोह्वाःपलिकाः पृथक्
पृथक्त्रिपलिकाः कार्या व्योषैलामरिचत्वचः ॥१०॥

निक्षिपेन्मधु शीते च तस्मिन्प्रस्थप्रमाणतः
एवं सिद्धो भवेच्छ्रीमान्बाहुशालगुडः शुभः ॥११॥

जयेदर्शांसि सर्वाणि गुल्मं वातोदरं तथा
आमवातप्रतिश्यायग्रहणीक्षयपीनसान्
हलीमकं पाण्डुरोगं प्रमेहं च रसायनम् ॥१२॥

मरिचादिगुटिका कासादौ
मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसंमिता ॥१३॥

अर्धकर्षो यवक्षारः कर्षयुग्मं च दाडिमम्
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि ॥१४॥

शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ॥१५॥

गुडवटिका बिभीतकप्रयोगश्च श्वासकासादौ
गुडशुण्ठीशिवामुस्तैर्गुटिकां धारयेन्मुखे
श्वासकासेषु सर्वेषु बिभीतं वाऽपि केवलम् ॥१६॥

आमलक्यादिगुटिका तृष्णादौ
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषं च दारुणम् ॥१७॥

सञ्जीवनीवटी सन्निपातज्वरे सर्पदष्टादौ च
विडङ्गं नागरं कृष्णा पथ्यामलबिभीतकम् ॥१८॥

वचागुडूची भल्लातं सविषं चात्र योजयेत्
एतानि समभागानि गोमूत्रेणैव पेषयेत् ॥१९॥

गुञ्जाभा गुटिका कार्या दद्यादार्द्र कजै रसैः
एकामजीर्णगुल्मेषु द्वे विषूच्यां प्रदापयेत् ॥२०॥

तिस्रश्च सर्पदष्टे तु चतस्रः सान्निपातिके
वटी सञ्जीवनी नाम्ना सञ्जीवयति मानवम् ॥२१॥

व्योषादिगुटिका पीनसादौ
व्योषाम्लवेतसंचव्यं तालीसं चित्रकं तथा
जीरकंतिन्तिडीकं च प्रत्येकं कर्षभागिकम् ॥२२॥

त्रिसुगन्धं त्रिशाणं स्याद् गुडः स्यात्कर्षविंशतिः
व्योषादिगुटिका सामपीनसश्वासकासजित्
रुचिस्वरकरा ख्याता प्रतिश्यायप्रणाशिनी ॥२३॥

गुडचतुष्टयगुटिका आमादौ
आमेषु सगुडां शुण्ठीमजीर्णे गुडपिप्पलीम्
कृच्छ्रे जीरगुडं दद्यादर्शःसु सगुडाभयाम् ॥२४॥

वृद्धदारुमोदकोऽशोरोगे
वृद्धदारुकभल्लातशुण्ठीचूर्णेन योजितः
मोदकः सगुडो हन्यात्षड्विधार्शःकृतां रुजम् ॥२५॥

शूरणपिण्डी अर्शोरोगे
शुष्कशूरणचूर्णस्य भागान्द्वात्रिंशदाहरेत्
भागान्षोडश चित्रस्य शुण्ठ्या भागचतुष्टयम् ॥२६॥

द्वौ भागौ मरिचस्यापि सर्वाण्येकत्र चूर्णयेत्
गुडेन पिण्डिकां कुर्यादर्शसां नाशनीं पराम् ॥२७॥

शूरणवटकोऽश प्रभृतिरोगेषु
शूरणो वृद्धदारुश्च भागैः षोडशभिः पृथक् ॥२८॥

मुसलीचित्रकौ ज्ञेयावष्टभागमितौ पृथक्
शिवा बिभीतकी धात्री विडङ्गं नागरं कणा ॥२९॥

भल्लातः पिप्पलीमूलं तालीसं च पृथक्पृथक्
चतुर्भागप्रमाणानि त्वगेलामरिचं तथा ॥३०॥

द्विभागमात्राणि पृथक् ततस्त्वेकत्र चूर्णयेत्
द्विगुणेन गुडेनाथ वटकान्कारयेद् बुधः ॥३१॥

प्रबलार्न्गिकरा एते तथाऽशोनाशनाः पराः
ग्रहणीं वातकफजां श्वासं कासं क्षयामयम् ॥३२॥

प्लीहानं श्लीपदं शोथं हिक्कां मेहं भगन्दरम्
निहन्युः पलितं वृद्ध्या तथा मेध्या रसायनाः ॥३३॥

मण्डूरवटकः कामलादौ
त्रिफला त्र्! यूषणं चव्यं पिप्पलीमूलचित्रकौ
दारुमाक्षिकधातुस्त्वग्दार्वी मुस्तं विडङ्गकम् ॥३४॥

प्रत्येकं कर्षमात्राणि सर्वंद्विगुणितं तथा
मण्डूरं चूर्णयेत्सर्वं गोमूत्रेऽष्टगुणे क्षिपेत् ॥३५॥

पक्त्वा च वटकान्कृत्वा दद्यात्तक्रानुपानतः
कामलापाण्डुमेहार्शः शोथकुष्ठकफामयान्
ऊरुस्तम्भमजीर्णं च प्लीहानं नाशयेदपि ॥३६॥

पिप्पलीमोदको धातुगतज्वरादौ
क्षौद्रा द् द्विगुणितं सर्पिर्घृताद् द्विगुणपिप्पली ॥३७॥

सिता द्विगुणिता तस्याः क्षीरं देयं चतुर्गुणम्
चातुर्जातं क्षौद्र तुल्यं पक्त्वा कुर्याच्च मोदकान् ॥३८॥

धातुस्थांश्च ज्वरान्सर्वान् श्वासं कासं च पाण्डुताम्
धातुक्षयं वह्निमान्द्यं पिप्पलीमोदको जयेत् ॥३९॥

चन्द्र प्रभावटी प्रमेहादौ
चन्द्र प्रभां वचां मुस्तं भूनिम्बामृतदारुकम्
हरिद्रा ऽतिविषा दार्वी पिप्पलीमूलचित्रकौ ॥४०॥

धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली
व्योषं माक्षिकधातुश्च द्वौ क्षारौ लवणत्रयम् ॥४१॥

एतानि शाणमात्राणि प्रत्येकं कारयेद् बुधः
त्रिवृद्दन्ती पत्रकं च त्वगेला वंशरोचना ॥४२॥

प्रत्येकं कर्षमात्राणि कुर्यादेतानि बुद्धिमान्
द्विकर्षं हतलोहं स्याच्चतुष्कर्षा सिताभवेत् ॥४३॥

शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः
एभिरेकत्रसंक्षुण्णैः कर्त्तव्या गुटिका शुभा ॥४४॥

चन्द्र प्रभेति विख्याता सर्वरोगप्रणाशिनी
प्रमेहान्विंशतिं कृच्छ्रं मूत्राघातं तथाऽश्मरीम् ॥४५॥

विबन्धानाहशूलानि मेहनं ग्रन्थिमर्बुदम्
अण्डवृद्धिं तथा पाण्डुं कामलां च हलीमकम् ॥४६॥

अन्त्रवृद्धिं कटीशूलं श्वासं कासं विचर्चिकाम्
कुष्ठान्यर्शांसि कण्डूं च प्लीहोदरभगन्दरं ॥४७॥

दन्तरोगं नेत्ररोगं स्त्रीणामार्त्तवजां रुजम्
पुंसां शुक्रगतान्दोषान्मन्दाग्निमरुचिं तथा ॥४८॥

वायुं पित्तं कफं हन्याद् बल्या वृष्या रसायनी
चन्द्र प्रभायां कर्षस्तु चतुःशाणो विधीयते ॥४९॥

काङ्कायनगुटिका गुल्मादौ
यवानी जीरकं धान्यं मरिचं गिरिकर्णिका
अजमोदोपकुञ्ची च चतुःशाणाः पृथक्पृथक् ॥५०॥

हिङ्गु षट्शाणिकं कार्यं क्षारौ लवणपञ्चकम्
त्रिवृच्चाष्टमितैः शाणैः प्रत्येकं कल्पयेत्सुधीः ॥५१॥

दन्ती शटी पौष्करं च विडङ्गं दाडिमं शिवा
चित्रोऽम्लवेतसः शुण्ठी शाणैः षोडशभिः पृथक् ॥५२॥

बीजपूररसेनैषां गुटिकां कारयेद् बुधः
घृतेन पयसा मद्यैरम्लैरुष्णोदकेन वा ॥५३॥

पिबेत्काङ्कायनप्रोक्तां गुटिकां गुल्मनाशिनीम्
मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम् ॥५४॥

मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्
उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं निवारयेत्
हृद्रो गं ग्रहणीं शूलं कृमीनर्शांसि नाशयेत् ॥५५॥

योगराजगुग्गुलुर्वातरोगे आमवाते वा
नागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ॥५६॥

भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम्
रेणुकेन्द्र यवाः पाठा विडङ्गं गजपिप्पली ॥५७॥

कटुकाऽतिविषा भार्ङ्गी वचा मूर्वेति भागतः
प्रत्येकं शाणिकानि स्युर्द्र व्याणीमानि विंशतिः ॥५८॥

द्र व्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत्
एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः ॥५९॥

विङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम्
मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ॥६०॥

गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम्
एकपिण्डं ततः कृत्वा धारयेद् घृतभाजने ॥६१॥

गुटिकाः शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताः
गुग्गुलुर्योगराजोऽय त्रिदोषघ्नो रसायनः ॥६२॥

मैथुनाहारपानानां त्यागो नैवात्र विद्यते
सर्वान्वातामयान्कुष्ठानर्शांसि ग्रहणीगदम् ॥६३॥

प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम्
उदावर्तं क्षयं गुल्ममपस्मारमुरोग्रहम् ॥६४॥

मन्दाग्निश्वासकासांश्च नाशयेदरुचिं तथा
रेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाः ॥६५॥

पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा
रास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ॥६६॥

काकोल्यादिशृतात्पित्तं कफमारग्वधादिना
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ॥६७॥

मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन वा
छिन्नाक्वाथेन वातास्रं शोथं शूलं कणाशृतात् ॥६८॥

पाटलाक्वाथसहितो विषं मूषकजं जयेत्
त्रिफलाक्वाथसहितो नेत्रार्त्तिं हन्ति दारुणाम्
पुनर्नवादिक्वाथेन हन्यात्सर्वोदरान्यपि ॥६९॥

कैशोरगुग्गुलुर्वातरक्तादौ
त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत् ॥७०॥

संकुट्य लोहपात्रे तु सार्धद्रो णाम्बुना पचेत्
जलमर्धशृतंज्ञात्वा गृह्णीयाद्वस्त्रगालितम् ॥७१॥

ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम्
पुनः पचेदयः पात्रे दर्व्या सङ्घट्टयेन्मुहुः ॥७२॥

सान्द्री भूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्
चूर्णीकृत्य ततस्तत्र द्र व्याणीमानि निक्षिपेत् ॥७३॥

त्रिफला द्विपला ज्ञेया गुडूची पलिका मता
षडक्षंत्र्! यूषणं प्रोक्तं विडङ्गानां पलार्धकम् ॥७४॥

दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता
ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत् ॥७५॥

गुटिकाः शाणमात्रेण युञ्ज्याद् दोषाद्यपेक्षया
अनुपाने भिषग्दद्यात्कोष्णं नीरं पयोऽथवा ॥७६॥

मञ्जिष्ठादिशृतं वाऽपि युक्तियुक्तमतः परम्
जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ॥७७॥

सर्वव्रणांश्च गुल्मांश्च प्रमेहपिडिकास्तथा
प्रमेहोदरमन्दाग्निकासश्वयथुपाण्डुजान् ॥७८॥

हन्ति सर्वामयान्नित्यमुपयुक्तो रसायनः
केशोरकाभिधानोऽय गुग्गुलुः कान्तिकारकः ॥७९॥

वासादिना नेत्रगदान्गुल्मादीन्वरुणादिना
क्वाथेन खदिरस्यापि व्रणकुष्ठानि नाशयेत् ॥८०॥

अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम्
मद्यंरोषंत्यजेत्सम्यग्गुणार्थी पुरसेवकः ॥८१॥

त्रिफलागुग्गुलुर्भगन्दरादौ
त्रिपलं त्रिफलाचूर्णं कृष्णाचूर्णं पलोन्मितम्
गुग्गुलुः पाञ्चपलिकः क्षोदयेत्सर्वमेकतः ॥८२॥

ततस्तुगुटिकां कृत्वा प्रयुञ्ज्याद्वह्न्यपेक्षया
भगन्दरं गुल्मशोथावर्शांसि च विनाशयेत् ॥८३॥

गोक्षुरादिगुग्गुलः प्रमेहादौ
अष्टाविंशतिसंख्यानि पलान्यानीय गोक्षुरात्
विपचेत्षङ्गुणेनीरे क्वाथो ग्राह्योऽद्धशेषितः ॥८४॥

ततः पुनः पचेत्तत्र पुटं सप्तपलं क्षिपेत्
गुडपाकसमाकारं ज्ञात्वा तत्र विनिक्षिपेत् ॥८५॥

त्रिकटु त्रिफला मुस्तं चूर्णितं पलसप्तकम्
ततः पिण्डीकृतस्यास्य गुटिकामुपयोजयेत् ॥८६॥

हन्यात्प्रमेहं कृच्छ्रं च प्रदरं मूत्रघातकम्
वातास्रं वातरोगांश्च शुक्रदोषं तथाऽश्मरीम् ॥८७॥

त्रिफलामोदकः कुष्ठादौ
त्रिफलाऽष्टपला कार्या भल्लातं च चतुष्पलम्
बाकुची पञ्चपलिका विडङ्गानां चतुष्पलम् ॥८८॥

हतलोहं त्रिवृच्चैव गुग्गुलुश्च शिलाजतु
एकैकं पलमात्रं स्यात्पलार्द्धं पौष्करं भवेत् ॥८९॥

चित्रकस्य पलार्धंस्याद् द्विशाणं मरिचं भवेत्
नागरं पिप्पली मुस्ता त्वगेलापत्रकुङ्कुमम् ॥९०॥

शाणोन्मितं स्यादेकैकं चूर्णयेत्सर्वमेकतः
ततस्तत्प्रक्षिपेच्चूर्णं पक्वखण्डे च तत्समे ॥९१॥

मोदकान्पलिकान्कृत्वा प्रयुञ्जीत यथोचितान्
हन्युः सर्वाणि कुष्ठानि त्रिदोषप्रभवामयान् ॥९२॥

भगन्दरप्लीहगुल्माञ्जिह्वातालुगलामयान्
शिरोऽक्षिभ्रूगतान्रोगान्हन्यात्पृष्ठगतानपि ॥९३॥

प्राग्भोजनस्य देयं स्यादधः कायस्थिते गदे
भेषजं भक्तमध्ये च रोगे जठरसंस्थिते
भोजनस्योपरि ग्राह्यमूर्ध्वजत्रुगदेषु च ॥९४॥

काञ्चनारगुग्गुलुगण्डमालापचीग्रन्थिभगन्दरादौ
काञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः ॥९५॥

त्रिफला षट्पला कार्या त्रिकटु स्यात्पलत्रयम्
पलैकं वरुणं कुर्यादेलात्वक्पत्रकं तथा ॥९६॥

एकैकं कर्षमात्रं स्यात्सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदं सर्वं तावन्मात्रस्तु गुग्गुलुः ॥९७॥

सङ्कुट्य सर्वमेकत्र पिण्डं कृत्वा च धारयेत्
गुटिकाः शाणिकाः कार्याः प्रातर्ग्राह्या यथोचितम् ॥९८॥

गण्डमालां जयत्युग्रामपचीमर्बुदानि च
ग्रन्थीन्व्रणांश्च गुल्मांश्च कुष्ठानि च भगन्दरम् ॥९९॥

प्रदेयश्चानुपानार्थं क्वाथो मुण्डतिकाभवः
क्वाथः खदिरसारस्य पथ्याक्वाथोष्णकं जलम् ॥१००॥

माषादिमोदकः पुष्टौ
निस्तुषं माषचूर्णं स्यात्तथा गोधूमसम्भवम्
निस्तुषं यवचूर्णं च शालितण्डुलजं तथा ॥१०१॥

सूक्ष्मं च पिप्पलीचूर्णं पलिकान्युपकल्पयेत्
एतदेकीकृतं सर्वं भर्जयेद्गोघृतेन च ॥१०२॥

अर्धमात्रेण सर्वेभ्यस्ततः खण्डं समं क्षिपेत्
जलं च द्विगुणं दत्त्वा पाचयेत्तं शनैः शनैः ॥१०३॥

ततः पक्वं समुद्धृत्य वृत्तान्कुर्वीत मोदकान्
भुक्त्वा सायं पलैकं च पिबेत्क्षीरं चतुर्गुणम् ॥१०४॥

वर्जनीयौ विशेषेण क्षाराम्लौ द्वौ रसावपि
कृत्वैवं रमयेन्नारीर्बह्वीर्न क्षीयते नरः ॥१०५॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे वटककल्पनानाम सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP