योगशिक्षोपनिषद् - षष्ठोऽध्यायः

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर ।
येन विज्ञातमात्रेण मुक्तो भवति संसृतेः ॥१॥
उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् ।
हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय ॥२॥
सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् ।
मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥३॥
शतं चैका च हृदयस्य नाड्य
स्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति
विश्वङ्ङ्न्या उत्क्रमणे भवन्ति ॥४॥
एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता ।
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥५॥
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु ।
तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥६॥
प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः ।
भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् ॥७॥
गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत् ।
दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते ॥८॥
तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः ।
इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी ॥९॥
सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् ।
तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ॥१०॥
भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः ।
द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥११॥
स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ।
बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः ॥१२॥
सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ।
नानानाडीप्रसवगं सर्वभूतान्तरात्मनि ॥१३॥
ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् ।
द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः ॥१४॥
सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः ।
अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् ॥१५॥
वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् ।
ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् ॥१६॥
कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् ।
द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ॥१७॥
सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः ।
हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते ॥१८॥
अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् ।
उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् ।
यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् ॥१९॥
गमागमस्थं गमनादिशून्यं
चिद्रूपदीपं तिमिरान्धनाशम् ।
पश्यामि तं सर्वजनान्तरस्थं
नमामि हंसं परमात्मरूपम् ॥२०॥
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥२१॥
केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती ।
आधाराज्जायते विश्वं विश्वं तत्रैव लीयते ॥२२॥
तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् ।
आधारशक्तिनिद्रायां विश्वं भवति निद्रया ॥२३॥
तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते ।
आधारं यो विजानाति तमसः परमश्नुते ॥२४॥
तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते ॥२५॥
आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा ।
तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः ॥२६॥
आधारचक्रमहसा पुण्यपापे निकृन्तयेत् ।
आधारवातरोधेन लीयते गगनान्तरे ॥२७॥
आधारवातरोधेन शरीरं कंपते यदा ।
आधारवातरोधेन योगी नृत्यति सर्वदा ॥२८॥
आधारवातरोधेन विश्वं तत्रैव दृश्यते ।
सृष्टिमाधारमाधारमाधारे सर्वदेवताः ।
आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् ॥२९॥
आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् ।
तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते ॥३०॥
आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते ।
तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् ॥३१॥
आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि ।
तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् ॥३२॥
आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया ।
षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् ॥३३॥
वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया ।
ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् ॥३४॥
सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति ।
सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् ॥३५॥
सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् ।
सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ ॥३६॥
तदा समरसं भावं यो जानाति स योगवित् ।
सुषुम्नायां यदा यस्य म्रियते मनसो रयः ॥३७॥
सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति ।
सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति ॥३८॥
सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् ।
सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् ॥३९॥
भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् ॥४०॥
गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् ।
मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् ॥४१॥
श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च ।
केदारोदकपानेन मध्यनाडीप्रदर्शनात् ॥४२॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥४३॥
सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः ।
स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् ॥४४॥
सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः ।
सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः ॥४५॥
अनेकयज्ञदानानि व्रतानि नियमास्तथा ।
सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् ॥४६॥
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा ।
चिच्च्हक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता ॥४७॥
मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा ।
नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे ॥४८॥
भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ।
बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥४९॥
हृदये स्थूलरूपेण मध्यमेन तु मध्यगे ॥५०॥
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति ।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥५१॥
आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ।
प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् ॥५२॥
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।
हकारेण बहिर्याति सकारेण विशेत्पुनः ॥५३॥
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ।
तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् ॥५४॥
कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् ।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥५५॥
भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः ।
यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥५६॥
त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः ।
त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥५७॥
चित्ते चलति संसारो निश्चलं मोक्ष उच्यते ।
तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे ॥५८॥
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥५९॥
मनोहं गगनाकारं मनोहं सर्वतोमुखम् ।
मनोहं सर्वमात्मा च न मनः केवलः परः ॥६०॥
मनः कर्माणि जायन्ते मनो लिप्यति पातकैः ।
मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् ॥६१॥
मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् ।
ततः परं परब्रह्म दृश्यते च सुदुर्लभम् ॥६२॥
मनसा मन आलोक्य मुक्तो भवति योगवित् ।
मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् ॥६३॥
मनसा मन आलोक्य योगनिष्ठः सदा भवेत् ।
मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश ॥६४॥
यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् ॥६५॥
बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् ।
शान्तं च तदतीतं च परंब्रह्म तदुच्यते ॥६६॥
हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा ।
तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् ॥६७॥
रोध्यते बुध्यते शोके मुह्यते न च संपदा ।
कंपते शत्रुकार्येषु कामेन रमते हसन् ॥६८॥
स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे ।
यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् ॥६९॥
मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः ।
बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः ॥७०॥
सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ।
निरञ्जने विलीयेत मरुन्मनसि पद्मज ॥७१॥
यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् ।
नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् ॥७२॥
मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ।
मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥७३॥
षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् ।
प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् ॥७४॥
वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ।
समाधिमेकेन समममृतं यान्ति योगिनः ॥७५॥
यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ।
विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि ॥७६॥
घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते ।
भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते ॥७७॥
स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् ।
गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥७८॥
कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् ।
अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ॥७९॥

इत्युपनिषत् । इति योगशिखोपनिषदि षष्ठोऽध्यायः ॥६॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्विनवधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ॐ तत्सत् ॥
इति योगशिखोपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : March 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP