श्रीशिवोपनिषत् - द्वितीयः

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् ।
गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥१॥

यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।
लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥२॥

भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।
तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥३॥

भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।
पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥४॥

अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।
ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥५॥

एत एव त्रयो लोका एत एव त्रयो गुणाः ।
एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥६॥

नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।
विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥७॥

गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।
गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥८॥

प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।
भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥९॥

मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् ।
गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥१०॥

गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् ।
गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥११॥

जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।
प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥१२॥

मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।
प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥१३॥

प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् ।
प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥१४॥

नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।
प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥१५॥

पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् ।
प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥१६॥

स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् ।
तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥१७॥

स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् ।
कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥१८॥

शमीन्धनकुशस्थानमायुधानां च नैरृतम् ।
सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥१९॥

श्रीमदायतनं शम्भोर्योगिनां विजने वने ।
शिवस्यायतने यावत्समेताः परमाणवः ॥२०॥

मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।
महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥२१॥

कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् ।
लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥२२॥

पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् ।
पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥२३॥

अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् ।
शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥२४॥

एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।
अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥२५॥

प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् ।
महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥२६॥

गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् ।
यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥२७॥

दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् ।
सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥२८॥

कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् ।
रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥२९॥

एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥३०॥

कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।
विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।
तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥३१॥

॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥

N/A

References : N/A
Last Updated : March 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP