चतुर्थस्थानम् - पञ्चमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


रक्तावसेचनं चतुर्भिः प्रकारैर्भवति ।
शिराविरेचनेनापि अलाबुभिस्तथैव च ।
श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद् बुधः ॥१॥
पूर्वाह्णे चापराह्णे च नात्युष्णे नातिशीतले
यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् ॥२॥
शिरोरोगेषु सर्वेषु नासामध्यपुटे तथा
असृजं रेचयेद्यत्नात्सर्वदा भिषगुत्तमः ॥३॥
ललाटमध्ये भ्रुवोरुपरिष्टादंगुलद्वयं त्यक्त्वा शिरां रेचयेत् ।
वाह्वोः कूर्परमध्ये शिरां बन्धयेत् ।
मणिबन्धसन्धौ अंगुष्ठमूलचतुष्टयमंगुलञ्च विहाय शिरां बन्धयेत् ।
नातिपाश्च चतुरंगुलं विहाय शिरां बन्धयेत् ।
घुण्टिकां शिरां पादे बन्धयेत् ।
अपरमपि ग्रन्थविस्तारभयान्नोक्तम् ।
अलाबुशृङ्गै रक्तावसेचनं सर्वैरपि ज्ञातव्यम् ॥४॥
सकृष्णं फेनिलं श्यामं रक्तं तद्वातदोषजम्
सर्वलक्षणसम्पन्नं विज्ञेयं तत्त्रिदोषजम् ॥५॥

इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने रक्तावसेचनविधिर्नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP