श्रीहंसः

चक्रेस्थूलशरीराणि यद्धेशेस्थाप्ययान्विराट् ।
तेषां तदुपयुक्तार्थान्जडानि विविधानि च ॥१॥

सर्वस्थूलशरीराणि उपादानान्यजः स्वयं ।
विराट्दत्तानि सङ्गृह्य क्रमात्कालानुसारतः ॥२॥

तत्तद्गुणक्रियाजातिरूपलक्षणसम्पदः ।
व्यवहाराश्रयाचारवेषभाषास्वरूपकान् ॥३॥

दानमाना(न्नपानार्ह)शनायाशनार्हपूर्वानन्तार्थसञ्चयान् ।
चतुर्लक्षाधीकाशीतिलक्षजीवगुणोचितान् ॥४॥

विराडुक्तान्विराड्डन्तान्स्तद्भावज्ञस्तथाकरोत् ।
यथोत्तरत्र स्थूलोपि न दृष्टस्तेन तच्छ्रुतं ॥५॥

तत्पूर्वं पद्मनाभोत्थ त्रिविक्रमपदाम्बुजात् ।
दक्षिणाद्युधृता गङ्गा तस्याङ्गुष्ठनखाग्रतः ॥६॥

विशीर्णाजाण्डमध्योर्ध्वरन्ध्रात्क्ष्मावरुणोर्ध्वगं ।
अम्भः प्रागग्नितत्वस्था(स्थं) प्राकृताङ्घ्रभिरक्षितं ॥७॥

विष्णोः पादात्समुद्भूतं तद्वार्याण्डान्तराविशत् ।
(ए)तत्मण्डुलुगं कृत्वा ब्रह्मा विष्ण्वङ्घ्रिमज्जनं ॥८॥

चकार तेन तद्वारि गङ्गाख्या सुसरद्वरा ।
अतो विष्ण्वङ्घ्रिजां ब्रह्मकमण्डलुसमुद्भवं ॥९॥

वदन्ति सा सुषुम्ना हि ब्रह्माण्डव्यापिनो हरेः ।
निशायाः पञ्चमांशे तु ब्रह्मेशाद्याखिलामरान् ॥१०॥

सृष्ट्वा वैकुण्ठलोकस्थदुर्गाभागगतान्व्यधात् ।
सेवार्थं तद्गतानन्तरूपस्य श्रीहरेः श्रियः ॥११॥

तेषामुचितविज्ञानं हरेः सेवां उपादिशत् ।
षष्टमांशे निशायाश्च पुनः सर्वान्सुरोत्तमान् ॥१२॥

अजो सृजत्स्वसेवार्थं तांश्च(ते च) पूर्वोक्तरीतितः ।
सप्तप्राकार(के)गान्सप्तलोकेशं तोषयत्यलं ॥१३॥

तावत्सत्याधस्थलस्पृग्वार्यण्डपरिपूरितं ।
महोग्रवायुना शुष्यन्महर्लोकादधोविशथ् ॥१४॥

सप्तमांशे निशीथिन्याः पुनर्देवानजोसृजत् ।
तेषु प्रधानान्सर्वान्मनसो देहतोऽसृजथ् ॥१५॥

तेषु प्रधानान्शेषादीं तपोलोकेव्यधादजः ।
तत्र लोकपतिः साक्षात्सङ्कर्षणमनामयं ॥१६॥
आराधयतोऽन्य सुरान्मनसा देहतो सृजत् ।
इन्द्रकामौ जनोलोके तृतीयोतावजो व्यधाथ् ॥१७॥

प्रद्युम्नन्तावभजतां सृष्ट्वा तौ स्वावरामरान् ।
अनिरुद्धादिकान्धाता महर्लोकगतान्व्यधाथ् ॥१८॥

अनिरुद्धं भजन्तस्तेवृसृजन्स्वावरामरान् ।
अष्टमांशेत्रियामाया सनकादीन्पितामहः ॥१९॥

सृष्ट्वा सृष्ट्वैतन्नियुक्तास्तदाज्ञानाचरन्द्रुतं ।
ततः प्रकुपिताद्धातुः रुद्रो एकादशात्मकः ॥२०॥

जातोभूत्सपत्नी(क्षी)कः ससृष्ट्यर्थमजोदितः ।
तपस्तप्त्वाथकालेन पीते स्वर्गान्तवारिणी(णा) ॥२१॥

अजेनावाप्यसस्वर्गभूतान्प्रेतांश्च राक्षसान् ।
नन्दिनं मातृकाःसप्त पिशाचान्लोकभीकरान् ॥२२॥

भक्तान्सुरांशानपि दुर्भावयुक्तान्दिगम्बरान् ।
क्रूरसृष्टिं ततो ज्ञात्वा ब्रह्मा तं प्रत्यषेधत ॥२३॥

ततोजः स्वाकं देशेन नारदं त्वसृजदृषीं ।
दक्षं दक्षाङ्गुष्टतोजस्तन्वा भृगुमचीक्ळ्पथ् ॥२४॥

मरीचीं मनसा नेत्रेणात्रिमाङ्गिरसं मुखात् ।
कर्णरन्ध्रात्पुलस्त्यं च पुलहं नाभिदेशतः ॥२५॥

करात्क्रतुं वसिष्ठं च प्राणात्कामाच्चगाधिजं ।
छायया कर्दमं बुध्यारुचिं व्यजनयद्विभुः ॥२६॥

ऋगादि देवान्पद्मोत्थः पूर्वाद्यास्यैः क्रमाद्व्यधात् ।
भारतं पञ्चरात्राणि पुराणानि स्मृतिस्तथा ॥२७॥

पूर्वादिभिर्व्यधादास्यैस्तथा वर्णाश्रमादिकान् ।
भृगुं मनुं बुधशनी चतुर्वर्णप्रवर्तकान् ॥२८॥

चकार(रा) कालावयवान्दिशस्तदभिमानिनः ।
यज्ञान्हृदापुण्यधर्मो पृष्टेनाधर्मविस्तृतिं ॥२९॥

तथा पञ्चवि(धा)ज्ञानं दुर्गां तदभिमानिनीं ।
अहोरात्रे पक्षयोश्च लज्जां मूर्धोष्टतोसृजथ् ॥३०॥

अधरोष्टात्ततो लोभं नाडिभ्यो व्यसृजन्नदीः ।
अस्थिभ्यः पर्वतान्कुक्षेः सर्वसागरमानिनः ॥३१॥

मेघान्केशैर्लोमजातैर्वृक्षा(श्चैव लतादिकान्)न्गुल्मान्लतान्वितान् ।
चतुर्लक्षाधिकाशीतिलक्षयोनिषु तात्विकान् ॥३२॥

दशसंख्यामितान्धाता व्यसृजच्चान्य चेतनान् ।
कर्मदेवादिकान्देवाः क्रमाज्जातास्तु कालतः ॥३३॥

शतं गन्धर्वाप्सरसां त्रिंशच्चारणरक्षसां ।
शतं सिद्धास्तथान्यासु सप्ततिःसर्वजातिषु ॥३४॥

आजानजाः कुबेरोत्थास्तेभ्य एव निरंशकाः ।
देवदासा निरंशाश्च पद्मकल्पादनन्तरं ॥३५॥

स्वयम्भुवेन्तरे भूमौ जाताः सर्वत्र सङ्गताः ।
क्षणदानवमे भागे महीदासहयाननौ ॥३६॥

सनत्कुमारमछाख्यावादिशेतां मनुं विधेः ।
अवतीर्याखिलान्वेदान्सारं चैव(वेद सारं) पुराणकं ॥३७॥

पञ्चरात्रं महाशास्त्रं श्रीमद्भागवतं शुभं ।
दशमे तु निशाभागे पद्मनाभस्य कर्णयोः ॥३८॥

कल्पितात्तामसाद्भूरि कीकसादासतूरिपू ।
तदा कुसुमनाभस्य निशांशदशमे शुभे ॥३९॥

कल्पितात्तमसाद्भूरि कीकसादासतूरिपू ।
मधुश्च कैटभश्चैव राक्षसौ दुर्मदोद्धतौ ॥४०॥

कदामेरुरूर्ध्वदेशस्थं पीत्वा तावज्जलं स्थितं ।
रूपान्तरेणाब्जभवं प्राप्य युद्धाय राक्षसौ ॥४१॥

आह्वयामास तु ब्रह्मा तावाहाहं हि दुर्बलः ।
इत्युक्त्वा स हरिं दध्यौ हयग्रीवाह्वयं हरिः ॥४२॥

व्यक्तो भूद्ब्रह्महृदासताभ्यां चिरमयोधनं ।
कृत्वा हत्वाच्छाद्यकुन्तं मेधसा मेदिनीं व्यधाथ् ॥४३॥

क्षणदैकादशांशे तु ब्रह्मा मेरुस्थितः स्वयं ।
पिशाचान्दानवान्दैत्यान्निरंशान्सांशरूपकान् ॥४४॥

एतान्विष्णुद्विषो योग्यान्राक्षसांश्च कलिंस्तथा ।
व्यसृजत्तानधोलोकवासिनः कालतोकरोथ् ॥४५॥

अजेयत्वमवध्यत्ववरं तेषामदाद्विधिः ।
कालेन भारते जन्म प्रतिमन्वन्तरेष्वपि ॥४६॥

यथायोग्यं जन्मलब्ध्वा तपस्तप्त्वा शिवाद्वरं ।
प्राप्य विप्रार्यगुर्वादिगोसुरद्वेषिणः सदा ॥४७॥

भविष्यथेति तेषां तु वरं प्रादादथाब्जजः ।
परशुक्लत्रयं हित्वा छिन्नभागवतेष्वलं ॥४८॥

प्रविश्य बुद्धिव्यामोहं कल्पयित्वा क्वचित्क्वचित् ।
योग्यतातिक्रमोद्भूतपुण्यं नाशयथेति च ॥४९॥

शरीरतत्वोपादानस्थितसर्वोत्तमान्सुरान् ।
सर्वेर्(व)तत्त्वो(त्वा)पचयगा भवन्तो भीषयन्त्यथ ॥५०॥

पापदुःखादि सम्बन्धो भवतां च भवेदिति ।
विष्णुविस्मृतियुक्तानां शरीरेषु सातामपि ॥५१॥

असतां मिश्रबुद्धीनां अभिमानित्वमस्तुवः ।
मिथ्याभिमानिनो दैत्याः देवास्तत्वाभिमानिनः ॥५२॥

सर्वतत्वेष्वथ कलिर्जीवमानी दुराग्रहात् ।
देहस्थ देवताः पूर्(णर्)वपुण्य(भुजः)सौख्यभुजः क्रमाथ् ॥५३॥

पापदुःखभुजश्चान्ये देहमान्युभयात्मकाः ।
अन्तर्बहिस्थजीवानां किञ्चिदुःखं भवत्यपि ॥५४॥

दैत्यावेशान्न वायोर्हि दैत्यावेशः कदाचन ।
जीवमान्युत्तमो ब्रह्मा देहस्थो मध्यमः स्वयं ॥५५॥

अधमस्तु कलिर्जीवमान्येव हि सुरासुराः ।
इति तत्वार्थवित्तेषां ब्रह्मादादुचितं वरं ॥५६॥

शुद्धोदसागरबहिर्महर्लोके तदूर्ध्वतः ।
गर्भोदके तु(च) दैत्यानां आवेशो नास्ति सर्वथा ॥५७॥

एतदन्यत्र दैत्यानां स्थित्यै प्रादाद्वरं विभुः(धिः) ।
द्वादशांशे तु(स)तामस्याः ब्रह्माण्डस्थाम्बुनिर्गमे ॥५८॥

चिन्त्यतोजस्य वै घ्राणात्घ्रोणी रूपी बभूव ह ।
घ्रोणी रूपी वराहात्मा हरिस्त्ववततार च ॥५९॥

स तु श्वेतवराहाख्यः ब्रह्मणा सं(यु)स्तुतोऽसृजत् ।
यज्ञाभिमानिनो यज्ञान्मन्त्रतन्त्रार्त्विगोषधीः ॥६०॥

तिलदर्भाश्वपश्वाज्यहवींषिसमिधः क्रमात् ।
सत्राणि सोमसदनं रा(र)म्भभैश्यादिकान्व्यधाथ् ॥६१॥

युपाग्नीन्स्पृषदाज्यं च फलान्यप्यसृजत्किटिः ।
तदा हयग्रीवनामा राक्षसो घोरदर्शनः ॥६२॥

अजस्य मुख(ख्य)तोव्यक्तं गुरुं वेदाभिमानिनं ।
निगृह्यागात्रदा वेदाः अपपाठतिरोहिताः ॥६३॥

तदा प्रार्थितो मच्छरूपी जलमुपाविशत् ।
हत्वा हयशिरस्कन्तं वेदानुद्धरदीश्वरः ॥६४॥

तदा धात्रार्थितश्चादिसूकरोण्डगतं जलं ।
अशामयद्भुवमधोलोकांश्च विमलान्व्यधाथ् ॥६५॥

सूर्यादयो ग्रहाः सर्वे तदाद्याः सप्रकाशकाः ।
तदादि कल्पं तं प्राहुः वाराहमिति सज्जनाः ॥६६॥

रात्रौ त्रयोदशांशे तु पुरीं बर्हिष्मतीं व्यधात् ।
वराहात्माह्यादिमनोरावासार्थमशेषविथ् ॥६७॥

तदैवाष्टस्वयंव्यक्ताः पुराणि विविधानि च ।
नद्यश्च देवखा(घा)ताश्च वनान्युपवनानि च ॥६८॥

तदा सर्वोपयुक्तानि सर्वत्र व्यसृजद्विधिः ।
चतुर्दशांशे रात्रेस्तु दिक्पालान्सर्वलोकगान् ॥६९॥

सर्वत्राज्ञापयद्धिक्षु विदिक्षु च यथाक्रमं ।
तत्प्रागेव समुत्पन्ना ब्रह्मणा लोकपालकाः ॥७०॥

विराड्देहगतस्तुर्यो ह्यनिरुद्धा(क्षिगो विभुः)भिधो हरिः ।
अतलादिष्वयोग्यानां सूक्ष्माण्य(प्य)जमदर्शयथ् ॥७१॥

(सं)स तान्पद्मजसम्भूतः(तो) मेरुमध्यस्थकञ्जजः ।
ऊर्ध्वमुधृत्य च स्थूलदेहयुक्तांश्चतान्पुनः ॥७२॥

तत्तल्लोकेषु संस्थाप्य मुख्यप्राणवशान्व्यधात् ।
तदा ब्रह्मवरोद्भूतो हिरण्याक्षो हि राक्षसः ॥७३॥

पञ्चभूतावरां भूमिं गृहीत्वाथ रसातलं ।
विवेश तन्मोचनाय वराहात्माण्डजार्थितः ॥७४॥

रसातलं प्रविश्यैव मोचयित्वा भुवं त्वरन् ।
तं गदापाणिना(मा) क्रुद्धं प्रापयित्वैव भारत ॥७५॥

युध्वा स्वं दंष्ट्राग्रहतं कृत्वा तं नरके व्यधात् ।
ततो मेरुगतो धाता सव्यात्स्वायंभुवं व्यधाथ् ॥७६॥

देहापसव्यतस्तस्य शतरूपां सतीं व्यधात् ।
भुगुदक्षमरीच्यादीन्तपसे(स)मनुमादिमं ॥७७॥

आहूयाजः प्राहसृष्टिं बृंहणाय सतां गतिः ।
शतरूपा पतिः प्राह तपस्तप्त्वा सुदारुणं ॥७८॥

वराहोद्धारणाप्तश्च कियत्कालं विचक्षणः ।
वराद्धरेश्च स्त्रीपुंसो योगात्स्यैष्विविधीरितां ॥७९॥

स्त्रिपुंसयोगाद्भाव्यं च सृष्टिमेतां विधीरितां ।
सृत्वा तस्यामजनयत्पुत्रौ द्वौ लोकविश्रुतौ ॥८०॥

प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च सत्तमः ।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥८१॥

तत्राद्यायामृचेर्जज्ञे यज्ञनामा रमापतिः ।
तेनैव सह सम्भूता दक्षिणा नामिका रमा ॥८२॥

अजावयोनिजौ द्वावप्राकृतदेहयुतौ परौ ।
पुत्रिकापुत्रधर्मेण यज्ञमात्मसुतं मनुः ॥८३॥

चकार दक्षिणा यज्ञे दक्षिणामानिनी च सा ।
तुषिता नाम तत्पुत्राः सम्बभूवुः सुरोत्तमाः ॥८४॥

तत्त्वाभिमानिनः(तैर्नीचातात्विकाः) सर्वे बभूवुः नवकोटयः ।
आकूतेर्देवहूतेश्च प्रसूतिरनुजातुया ॥८५॥

दक्षस्या ससती तस्मातस्यां षोडशकन्यकाः ।
अभवन्नर्कपुत्रस्य धर्मस्यैव त्रयोदश ॥८६॥

पुत्र्यस्त्वेकाग्नये दत्ता तस्यां त्रेता(तत्रा)ग्नयोभवन् ।
आह्वनीयोगर्हपत्यो दक्षिणाग्निरिति त्रयः ॥८७॥

तेषामेका दक्षसुता भार्या(दत्ता) तस्यां त्रिभिः क्रमात् ।
पृथक्पृथक्पञ्चदशपुत्रा अग्निस्वरूपकाः ॥८८॥

आसन्नाद्या यज्ञभुजो मध्यमा हव्यभोजिनः ।
अन्त्याः कव्यभुजः पूर्वै पञ्चाशत्संमिताग्नयः ॥८९॥

एकन्यूना दक्षसुता ज्येष्ठा दत्ता शिवस्य तु ।
धर्मान्वरूत्वती पुत्रान्पञ्चाशन्मरुतोऽसृजथ् ॥९०॥

विश्वेदशासन्विश्वायां वसवौष्टौ वसूद्भवाः ।
रुद्रा असंस्मरुद्राण्यां भूतायां भूतना(य)मकाः ॥९१॥

उपदेवाश्च साध्यायां अन्यास्वपि च धर्मतः ।
उपदेवाश्च देवाश्च बभूवुर्हि बहुप्रजाः ॥९२॥

धर्मस्य ते पदस्थाश्च सर्वे(सर्ग)वासोचिता मताः ।
तदुत्थिताश्च भावीनाः प्रायशो ह्यपरोक्षिणः ॥९३॥

प्रागुक्तास्तात्विकाश्चैकरूपेण भुवि भारते ।
उषित्वा भाविसत्कर्मज्ञानभक्त्यादि काङ्क्षिणः ॥९४॥

शुभाशुभं च प्रारब्धं भोक्तुं योग्यास्ततो भवत् ।
ते च द्वीपाद्रि वर्षेषु भारते(ता)न्येषु सर्वशः ॥९५॥

सुप्रारब्ध्यैक भोगार्हाः धर्माधर्मोत्थसम्भवाः ।
आसन्देवाश्च पूर्वोक्ता ह्यपरोक्ष्य नपरोक्षिणः ॥९६॥

सत्साधनं भारतेस्मिन्कर्तुमर्हाः सुरोत्तमैः ।
(त्य)व्यक्तापरोक्षिभिर्जाताः सदैवासन्हरीच्छया ॥९७॥

प्रियव्रतोत्थानपादौ तयो(पो) निष्ठौ बभूवतुः ।
निशा चतुर्दशांशे तु सृष्टिरेषा सुमेरुगाः ॥९८॥

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP