प्रथमपरिच्छेदः - त्रयोदशोऽध्यायः

प्रकाशसंहिता


श्रीहंस उवाच

ये प्रोक्ता देवगन्धर्वकर्मज्ञानास्त्वतात्विकाः ।
पक्वाधिकारिणो भूमेरुत्क्रान्ता महरादिषु ॥१॥

स्थिता विपशेषोक्तमार्गेण स्वोत्तमेषु ते ।
भोगदेहप्रतिषठास्तु अण्डान्तद्विरजातले ॥२॥

(यु)त्यक्तलिङ्गास्तुर्यवशा अण्डनाश उपागते ।
पराष्टमांशावशिष्टकाले श्रहरिगर्भगाः ॥३॥

मुक्ता अपि न मुक्ताख्याः पुनर्ब्रह्माण्डसम्भवे ।
विष्णोर्बहिर्गताः कुक्षेः शुद्धसात्वकदेहकैः ॥४॥

रमादत्तैर्भोगयोग्यपूर्वोक्तानन्तसात्विकैः ।
अर्थैरभ्युन्नताश्वेतद्वीपस्था हरिमञ्जसा ॥५॥

दृष्ट्वा नत्वा प्रसाद्येशं मुक्ताख्यां प्राप्यचाज्ञया ।
अव्याहतेष्टगतयो वैकुण्ठे शुद्धसात्विकैः ॥६॥

देहैर्मोदन्ति भूदुर्गाभागयोः श्रीशलालिताः ।
चिन्मात्रदेहैः श्रीभागे न चात्र जडसंस्थिताः ॥७॥

वृक्षपक्षिमृगा ह्यब्धिनद्योपि नवकोटयः ।
सरांसि नानाविधबद्धा अपि लोकेषु वै हरेः ॥८॥

श्रीभूदुर्गाभाग एते सेवन्ते हरिमञ्जसा ।
स्वाधिक्यस्य सिध्यर्थं स्वानन्दाधिक्यकाङ्क्षिणः ॥९॥

केवलं लिङ्गदेहेन भोगभागे वसन्ति हि ।
(भूभागे संवसन्ति हि) निरंशानां सूक्ष्मदेहाः अण्डान्तःसत्यलोकगा तु ॥१०॥

अनिरुद्धादल्पकालव्यत्ययात्प्रभवन्ति हि ।
लयेण्डनाशात्पुरतः नतत्सू(नाशः सू)क्ष्मतनोर्भवेथ् ॥११॥

तृणादारभ्य सन्मर्त्यगन्धर्वास्त(न्त)स्य कृत्स्नशः ।
एषां सूक्ष्मतनुः सृष्टिः क्रमाद्युक्तमतोलयः ॥१२॥

स्रष्ट्वैष्वेवामर्त्यगन्धर्वादिकर्म्यन्ते(न्त) देवताः ।
दुर्गाभागस्थानिरुद्धात्सूक्ष्मयुक्ता भवन्ति हि ॥१३॥

सृष्टिक्रमाद्व्युत्क्रमेण नाशस्तत्रगताद्धरेः ।
अण्डनाशात्पुरैवेते केवलं लिङ्गमात्रगाः ॥१४॥

तृणाद्याशचातात्विकाश्च भूभागे संवसन्ति हि ।
एषां श्रीभागपरिखाभूत श्रीविरजा जले ॥१५॥

अण्डनाशात्पुराभग्नलिङ्गानां तुर्यसंश्रयं ।
प्राप्तानां श्रीहरेर्गभे तदावासो भविष्यति ॥१६॥

भूमावुत्क्रममाणास्तु देहन्त्यक्त्वा महर्जनाः ।
तपः सत्येषु दुर्गाख्यभागे नीचोच्चकाः क्रमाथ् ॥१७॥

वसन्ति देहभोगैस्ते(भोगदेहैः) निरंशानान्तु भोगतः ।
शीर्णा भवन्ति हि अनिरुद्धेन ये चते ॥१८॥

प्रविष्टानि भवन्ति हि अनिरुद्धेन ये चते ।
अनिरुद्धे प्रविष्टानि सङ्कर्षणजयाय ते ॥१९॥

सृष्टान्यतो लिङ्गमुक्ताः प्रभवन्ति ह्यतात्विकाः ।
भोगेदेहैः स्वोत्तमेषु प्रविष्टाः प्रभवन्ति हि ॥२०॥

गन्धर्वाणां कुबेरन्तु पितॄणां यम एव हि ।
कृष्टाङ्गसङ्ग गोपीनां सर्वजातिषु सप्ततेः ॥२१॥

मितानामाजानजानां सस्त्रीकाणां धनाधिपे ।
तत्समानास्तु ऋषयः शतोनशतकोटयः ॥२२॥

एतेषां तुलयोदक्षे ह्यग्निपुत्रगणस्य तु ।
वह्नौ कर्मजदेवानां लयः स्वायम्भुवे मतः ॥२३॥

तस्मिन्नेकादशमितामनवोविध्यतात्विकाः ।
तात्विकौ द्वौ सप्तमाद्यौ यौ तौ मनुपदेश्वरौ ॥२४॥

नारायणः स्वयं विष्णुः तापसोमनुरीरितः ।
विना तान्स्त्रीन्मनून्स्वायम्भुवे लय उदीरितः ॥२५॥

आद्य इन्द्रो हरिर्यज्ञः वायुधर्मोश्विनौ क्रमात् ।
षष्टस्तु मन्द्रद्युम्ननामा सप्तमस्तु पुरन्दरः ॥२६॥

द्वौ शचीरमणांशौ तौ षडैते तात्विकाः स्मृताः ।
भावीन्द्राः कर्मजाभास्ते तेषामाद्यमनौ लयः ॥२७॥

सप्तकानां ऋषीणान्तु शतस्य च लयः स्मृतः ।
दक्षे धर्मे च तत्तुल्यपितॄणां सप्तकस्य तु ॥२८॥

तत्समास्त्वष्टगन्धर्वास्त्वष्टोन शतयोषितः ।
उर्वश्याद्यास्तत्समाहि कुबेरं प्रविशन्ति हि ॥२९॥

अतो निरंशास्तूत्क्रान्ति योगिनस्तु त(नस्त)दुत्तमाः ।
अतात्विकास्तु भूलोकादुत्क्रान्त महरादिगाः ॥३०॥

भोगदेहैरुत्तमैस्तु भक्षिताः प्रभवन्ति हि ।
उत्क्रमाणुत्क्रमेण गायन्योगिनस्तानथो जगुः ॥३१॥

नित्यसंसारिणः पृथ्व्यां त्यक्त्वा स्थूलन्तु सूक्ष्मतः ।
धर्मे प्रविश्यसन्त्यक्तानाद्यविद्या भवन्ति हि ॥३२॥

केचिदत्रैव मुच्यन्ते केचिद्वैमेरुमूर्धनि ।
वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ॥३३॥

त्यक्त्वाविद्यां मिश्रपाकालये नाभौ हरेर्गताः ।
स्वर्गभूम्यादिषु सृष्टौ भ्रमन्ति श्रीहरीच्छया ॥३४॥

लयेऽयोग्या गर्भोदगतसङ्कर्षणाग्निना ।
पाताले नित्यनरके भग्नसूक्ष्मकलेवराः ॥३५॥

वायोर्गदाप्रहारेण भग्नलिङ्गास्तमोनुगाः ।
लये सृष्टौ तमस्यन्धे पतन्ति श्री हरीच्छया ॥३६॥

तत्वाभिमानिनो देवाः ह्यणडान्तर्बहिरूपतः ।
अनुत्क्रमाः स्वोत्तमेषु विपशेषादि मार्गतः ॥३७॥

त्यक्तदेहाः सूक्ष्मदेहैः सत्यलोके वसन्ति हि ।
नष्टे सत्ये ब्रह्मदेहे नष्टे तैः सह पद्मजाः ॥३८॥

अण्डनाश उपावृत्ते विशेषं यातितैः सह ।
अत्रस्थितैःसूक्ष्मदैहैः सर्वतत्रस्थसूक्ष्मकैः ॥३९॥

एकीभवन्त्येवमेकविंशत्तत्वगणा(ता) अपि ।
व्युत्क्रमेण तु भूम्यादि तत्वोपादान सञ्चये ॥४०॥

स्थले तथा नाभिमानिवशगे सति विष्णुना ।
अन्नादि नाम्नादेवैस्तदूर्ध्वमूर्ध्वगतक्रमाथ् ॥४१॥

त्यक्तान्यावरणान्येते पूर्वमानेन नाशनं ।
यन्ति पूर्वोक्तमानेन अनिरुद्धादिवत्क्रमाथ् ॥४२॥

सङ्कर्षणाद्विनष्टे(षु) तु सूक्ष्मदेहेषु कृत्स्नशः ।
तदा सत्वार्ध श्रीभागस्थलक्ष्म्यालक्ष्म्यात्मके जले॥ ४३॥
(प्रधानविरजा नद्यामित्यर्थः)

नीचक्रमात्भग्नलिङ्गाः विशन्ति जठरे हरेः ।
पुनरण्डे समुत्पन्ने श्वेतद्वीपे समाप्य च ॥४४॥

मुक्तौ भवत्यसौ लोकः क्षीरसागरमध्यगः ।
लक्ष्म्यैश्चतुषष्ठिमितैः विस्तृतं(विसृजः) पुष्कराह्वयः ॥४५॥

द्वीपः क्षीराब्धिपरितो मणिवज्रमयद्युतिः ।
तन्मध्यदेशपरितो वर्तुलो मानसोत्तरः ॥४६॥

महीधरोयुतोन्नहः द्विसहस्रसुविस्तरः ।
धृढो वज्रमयः सप्तरथचक्रं रवेः स्थितं ॥४७॥

तदन्तर्मर्त्यसंसारः तद्वाह्योमर्त्यगोचरः ।
द्वीपायामसमशुद्धवारिसागरवेष्टितः ॥४८॥

तस्यापि परितो वज्रलेपिकास्वर्णभूः शुभा ।
चतुर्लक्षन्यूनकोटिविस्तरात्तद्गतो नगः ॥४९॥

लोकालोकाभिधोवर्तुलाकारो परितो गिरिः ।
मणिस्वर्णमयः प्राकाराकारो निर्मलो महान् ॥५०॥

स पञ्चाशत्सहस्रेतत्पञ्चाशल्लक्षविस्तृतिः ।
तावतैवोच्छ्रितस्तस्मातर्धलक्षाधिकोन्नतः ॥५१॥

नानावृक्षाश्रयो यत्र भाति पूर्वोदितं जगत् ।
तदष्टदिक्षु शिखराण्यपि छिद्रान्वितानि च ॥५२॥

शतोन्नतानि दिग्दन्तिगणास्तदुपरिस्थिताः ।
तच्छिद्रवेष्टितः शुण्डादण्डैरूत्तंभयन्ति ते(तैः) ॥५३॥

गोत्रन्ते चान्तरिक्षस्थाः हर्यावेशयुताः शुभाः ।
ते च पूर्वाद्यष्टदिक्षु गर्भोदस्थागतं(ता) भुवं ॥५४॥

ऊर्ध्वोश्चित्रैरात्महस्तैर्धरन्ति श्रीहरीच्छया ।
ते मानसोत्तरे मेरौ स्वर्गे रूपान्तरस्थिताः ॥५५॥

कुर्वन्ति श्री हरेराज्ञां दिक्पालानां च वाहनाः ।
अनन्तरूपैर्भगवानुपरिस्तंन्नगोर्ध्वगः ॥५६॥

ऊर्ध्वाधः शिखरस्पृष्टानन्तमूर्ध्वोति यो हरिः ।
लोकालोकान्तराले तु सूर्येन्द्वृक्षग्रहप्रभाः ॥५७॥

वसिष्ठनारदात्र्याद्यानन्तगं स्वर्णभूमिगं ।
वदन्ति पूर्वद्वीपेषु यथा सूर्यो(पूर्वो)दयान्तरे ॥५८॥

यथा तथैव गिरिशृङ्गे मैत्रेयपूर्वकाः ।
स्वर्णभूमिमतीत्यैवस्थितमाहुर्नगोत्तमं ॥५९॥

तदुक्तमाहुः पैङ्ग्याद्याः तन्नेत्याहुर्मृ(क)कुण्डजः ।
मेरुलोकालोकमध्यप्रदेशस्तु त्रिकोटिकः ॥६०॥

योजनानां सार्थकोटिसंमितः परिकीर्तितः ।
लोकालोकध(र)भूम्यासहितः परिमाणतः ॥६१॥

अन्धन्तमस्तन्नगस्य परितः सप्तकोटिकः ।
यत्र मिथ्याज्ञानयुक्ताः पतन्ति शतकोटिशः ॥६१॥

हरीरसुरगुर्वायर्विष्णुवैष्णवविद्विषः ।
निष्कारणं साधुयोषिद्वेदशास्त्र विदूषकाः ॥६२॥

भक्तिलेशविहीनाश्च नित्यनैमित्तिकोज्जिताः ।
अनन्तपापकरणे भयलेशविवर्जिताः ॥६३॥

जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥६४॥

प्रादुर्भावविपर्यासः तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेखिला मताः ॥६५॥

सम्प्राप्य भारते जन्म विष्णुद्वेषादि पाकतः ।
यथा योग्यं वैपरीत्या परोक्षगुरुविद्विषः ॥६६॥

पक्वस्वरूपविद्वेषाद्व्युदस्यात्मीय सञ्चितं ।
भुक्त्वा दुष्प्रारब्धफलं पूर्णं प्रमादिका गतं ॥६७॥

सुप्रारब्धफलं विष्णुद्वेषादल्पीकृतं हरेः ।
भुक्त्वागामि व्युदस्यैव ह्यागामि द्वेषयाकृतः(पाकतः) ॥६८॥

प्राप्तव्यदुःखमिच्छन्ति स्थूलदेहान्विषाग्निभिः ।
शस्त्रत्यक्त्वा यातनाद्यैः नित्यतामिश्रनामकः(रकाः) ॥६९॥

अण्डनाशात्पुरा सूक्ष्मदेहान्तत्र विसृज्य च ।
वायोर्गदाघाततश्च लिङ्गभङ्गो भविष्यति ॥७०॥

चिरं श्रीहर्यूरुदेशे क्ळ्प्तदुःखभुजः खलाः ।
पुनरण्डे समुत्पन्ने तमस्यन्धे पतत्यलं ॥७१॥

मर्त्याधमा निरंशाश्च पिशाचाः स्वल्पतामसाः ।
तेषु केचित्तत्वदेवाभासरूपास्त्वधस्तने ॥७२॥

स्वर्गादिषु चरन्तस्ते पापकर्माभिमानिनः ।
दैत्याश्चराक्षसाश्चैव सांशास्ते बहुरूपिणः ॥७३॥

रसातलस्थानिरुद्धात्प्राक्सूक्ष्मं देहमाश्रिताः ।
कर्मानुवशतः स्थूलदेहान्प्राप्य महासुरैः ॥७४॥

स्वयं नष्टा परान्साधून्नाशयन्ति कुसाधनैः ।
तमस्यन्धे लक्षनिम्नोध्युपर्यस्थले स्थिताः ॥७५॥

प्राप्तव्यदुःखं भुञ्जन्ति शुद्धं तामसविग्रहैः ।
पूयासृङ्मूत्रविष्टाद्यैः तप्ततैलास्त्रशस्त्रकैः ॥७६॥

अदृष्टाश्रुतदुःखाप्ति साधनोचितवस्तुभिः ।
दुर्गयाकल्पितैः घोरैः निर्घाताद्यैरनेकशः ॥७७॥

सिंहव्याघ्रादिरूपिण्या सह तादृक्स्वरूपवान् ।
अवर्णनीयदुःखौघं वायुर्दास्यति तान्प्रति ॥७८॥

तत्प्राप्तव्यमिति प्राहुः क्ळ्प्तं दुःखं ततोप्यधः ।
भुञ्जन्ति स्वस्वरूपस्थं सर्वरोगव्रणादिकं ॥७९॥

सर्वक्षतादिकं नित्यं पूर्णदुःखं व्रजन्त्यलं ।
ततो द्विसप्तकोटिभ्यां(क्यां) घनोदः परितः स्थितं ॥८०॥

यत्र नारायणोनन्ततनुरूपात्मकश्रिया ।
सदा विहरति श्रीशो ब्रह्माद्यैरपि सेवितः ॥८१॥

ततोर्धकोटिसमितमनन्तासनमीशितुः ।
धामण्डखर्परस्पृष्ट विंशल्लक्षोच्च वेदिमथ् ॥८२॥

चत्वारिंशल्लक्षामितो भूभागः परिकीर्तितः ।
त्रिंशल्लक्षमितस्तूच्चः श्रीभागः सर्वतः शुभः ॥८३॥

तदन्यानन्तगुणितः श्वेतद्वीपसमः स्मृतः ॥८४॥

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे त्रयोदशोऽध्यायः

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP