दुर्गासूक्तम् - ॐ ॥ जातवेदसे सुनवाम सोममर...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


ॐ ॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः  
अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरितातिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम्॥पृतनाजितँ सहमानमुग्रमग्निं हुवेम परमात्सधस्थात् ।
स नः पर्षदतिदुर्गाणि विश्वाक्षामद्देवो अति दुरितात्यग्निः ।
प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णो-रनुसंचरेम ।
नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् ॥
ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गि प्रचोदयात् ॥
ॐ शान्तिः शान्तिः शान्तिः

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP