TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

महाभिशेको नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


महाभिशेको नाम
नवकुचकाञ्चनकलशाः श्रोणीसिंहासनाः सितच्छत्राः ।
अभिषेकाय तरुण्यो यस्य स मकरध्वजो जयति ॥१॥
अथ विद्याधरोऽभ्येत्य प्रतीहारेण सूचितः ।
व्यजिज्ञपत्सभासीनम प्रणम्य नरवाहनम् ॥२॥
अपि स्मरसि मे देव संप्राप्य विजयश्रियम् ।
न दृश्यते स्थितः पश्चात्सदीपैरिव पार्थिवैः ॥३॥
यदा त्व गौरीमुण्डेन पातितोऽग्निगिरेस्तटे ।
पुरा मया तदा देव रक्षितोऽसि हराज्ञया ॥४॥
दूरपातमहामूर्च्छामदसंस्कारसंविदा ।
मन्ये मां नाभिजानासि चिरवृद्ध इवाग्रगम् ॥५॥
पुराकृतावलम्बोऽपि हृदि प्रत्यग्रसंभ्रमे ।
अपराध इवार्यस्य मन्येऽहं विस्मृतोऽद्य ते ॥६॥
अमृतप्रभनामाहं प्रपन्नस्तव शासनम् ।
वामदेवेन मुनिना प्रेषितो भगदन्तिकम् ॥७॥
मुनिस्त्वामाह रत्नानि गृहाणाभ्येत्य मद्गिरा ।
चक्रवर्तिश्रिये देव तूर्णमित्युत्तमप्रियः ॥८॥
इति विद्याधरवचो निशम्य नरवाहनः ।
तं परिज्ञाय नभसा वामदेवाश्रमं ययौ ॥९॥
तं प्रणम्य मुनिं तत्र तदादिष्टो गुहान्तरात् ।
सोऽद्य विघन्घनोत्पातं राज्यप्रसवभूतये ॥१०॥
ध्वजं छत्रं सुधाबिम्बं खङ्गांश्च रथकुञ्जरान् ।
दन्डरत्नं च संप्राप्य स निजं कटकं ययौ ॥११॥
अथ श्रीमान्प्रशस्तेऽह्नि विमानं सचिवैः सह ।
प्रियाभिश्च समारुह्य जययात्रां दिदेश सः ॥१२॥
ततो विद्याधरानीकसंछादितनभस्तलः ।
जेतुं मन्दरदेवं स त्रिनेत्राद्रितटे ययौ ॥१३॥
तत्र सेना बभौ तस्य स्फटिकप्रतिबिम्बिता ।
पूरितेव निजानीकैः सेवायै गर्भभूभृता ॥१४॥
तत्र गीर्वाणतटिनीतीरविश्रान्तसैनिकः ।
विजहार मृगाक्षीभिः पारिजातलतावने ॥१५॥
पुष्पेषुरुदितः कोऽयमस्य शस्त्रैः समुद्यमः ।
इति ताः स्पृहया वीक्ष्य जगदुर्गुह्यकाङ्गनाः ॥१६॥
ततस्तं प्रस्थितं जेतुं वायुवेगः कृताञ्जलिः ।
व्यजिज्ञपदितो देव न पन्थाश्चक्रवर्तिनाम् ॥१७॥
इहास्ते त्रिपुरारातिः सदा संणिहितो हरः ।
विभूतयः सुरेन्द्राणां यत्प्रसादात्सविप्रुषः ॥१८॥
तमुल्लङ्घ्य विरूपाक्षं व्योम्नि यो याति मोहितः ।
पतति भ्रष्टविद्योऽसौ क्षीणपुण्य इव ग्रहः ॥१९॥
शंकरेणैव विहिता गुहेयं चक्रवर्तिना ।
गिरिं विदार्य शूलेन स ते मार्गः शिवप्रदः ॥२०॥
इति विद्याधरपतिः सचिवानां च भाषितम् ।
श्रुत्वा प्रणम्य चण्डीशं गुहारन्ध्रेण निर्ययौ ॥२१॥
त्र्यम्बकेन धृतां तत्र कालरात्रिं प्रणम्य सः ।
पुरं मन्दरदेवस्य प्रतस्थे विजयोत्सुकः ॥२२॥
देवमायं महाकालं जित्वा विद्याधरेश्वरम् ।
तन्महावाहिनीपूर्णसेनाब्धिः प्रबभौ विभुः ॥२३॥
ततोऽदृश्यत संरब्धो विद्याधरबलाग्रजः ।
प्रलयाम्बुधरध्वानधीरः सपदि मन्दरः ॥२४॥
अथ युद्धमभूद्धोरं विद्याधरधराभुजाम् ।
मौलिरत्नविनिष्पाति खङ्गज्वालाजटोत्कटम् ॥२५॥
तद्रक्ततटिनीसिक्तफुल्लाशोकवनच्छविः ।
पद्मरागाचलः क्षिप्रं बभूव स्फटिकाचलः ॥२६॥
ततो धनवतीविद्यामोहिते वाहिनीद्वये ।
स्वयं मन्दरदेवस्य पुरोऽभून्नरवाहनः ॥२७॥
चतुर्विद्याधरपतौ (सायकास्तीक्ष्णपक्ष्मणः ।
नरवाहननामाङ्काः कटाक्षाः समरश्रियः ॥२८॥
ततो मन्दरदेवस्य ) विद्याभिरभिपूरितम् ।
बभूव वक्त्रं कल्पान्तहुतभुग्भीमविभ्रम म् ॥२९॥
नरवाहनदत्तोऽथ केशपाशमिव श्रियः ।
खङ्गमाकृष्य जग्राह तमुभ्द्रान्तशिरोरुहम् ॥३०॥
तरं खङ्गसंपातमन्त्रान्तरितजीवितम् ।
दृष्ट्वा मन्दरदेवीति नरवाहनमभ्यधात् ॥३१॥
भो भो प्रतापचण्डांशो कीर्तिज्योत्स्नासुधाकर ।
नरवाहनदत्त त्वं त्रातुमर्हसि मेऽग्रजम् ॥३२॥
इति तस्या वशः श्रुत्वा तं तत्याज नृपात्मजः ।
सन्तः प्रणयभङ्गेषु भीतानां नहि शिक्षिताः ॥३३॥
स्वस्रा मन्दरदेवोऽथ मोचितो लज्जया नतः ।
ययौ तपोवनं मानी मुनेः स्वपितुराश्रम म् ॥३४॥
विपत्सु च कुलीनानां वियोगेषु च धीमताम् ।
पराजये च शूराणां वृत्तिरेका तपोवनम् ॥३५॥
ततो धनवतीध्यानादुत्थिते रक्षिते बले ।
नरवाहनदत्तस्य जजृम्भे जयडिण्डिमः ॥३६॥
जम्भारिविजयोद्युक्तं तं समभ्येत्य नारदः ।
त्रिदशैर्नास्ति वो वैरमित्युक्त्वा विमुखं व्यधात् ॥३७॥
अभिषिच्यामितगतिं कैलासे गुलिताभृतम् ।
कान्तां मन्दरदेवीं तां पित्रा दत्तामवाप्तवान् ॥३८॥
यन्मुखेनेक्षणच्छायाशबलेनाभवन्नभः ।
नीलोत्पलदलालोलहेमाब्जेनेव भूषितम् ॥३९॥
दत्तामकल्पनाख्येन पित्रा तां प्राप्य सुन्दरीम् ।
तद्वयस्याश्चतस्रोऽन्याः प्रापैकोद्वाहनिश्चयाः ॥४०॥
ततः प्रणम्य श्रीकण्ठं प्रयातो वीक्ष्य शूलिनम् ।
ऋषभस्य गिरेः श्रृङमभिशेकश्रिये ययौ ॥४१॥
तत्र विद्याविकल्पोत्था दिव्याभिप्रायशालिनी ।
राजधानी बभूवास्य रत्नप्राकारतोरणा ॥४२॥
अथाययुः समुद्रेभ्यो रत्नकुम्भैः सुलोचनाः ।
हेमकुम्भोपमकुचा गृहीत्वाप्सरसो जलम् ॥४३॥
ततो वायुपथाहूतस्तं विद्याभिर्विहायसा ।
सामात्यः सह देवीभ्यामाययौ वत्सभूपतिः ॥४४॥
यत्नात्पित्राभ्यनुज्ञातः कथंचिद्विनताननः ।
रत्नसिंहासनं भेजे भूषितो नरवाहनः ॥४५॥
रोहणाद्रेरिवोत्सङ्गं नानारत्नविभूषितम् ।
स बभार महामौलिं क्रीडाशैलमिव श्रियः ॥४६॥
अथाभिशेकपुण्याहे विस्तीर्णे मङ्गलोदके ।
आसनार्धं प्रभोर्भेजे देवी मदनमञ्चुका ॥४७॥
रतिरस्य स्मृतिभुवो दयितेयमयोनिजा ।
कान्ताः श्रुत्वेति नभसो नावमानं ययुः पराः ॥४८॥
ततः कुण्डलिनः शूरा मौलिपिञ्जरिताम्बराः ।
तस्य विद्याधराधीशाः प्रणता विविशुः सभाम् ॥४९॥
मणिकुट्टिमसंप्राप्तप्रांशुरश्मिभृताम्बराः ।
त्रैलोक्यमिव रुन्धानास्ते बभुर्गुलिकाधराः ॥५०॥
प्रबलश्रियमालोक्य सुतं वत्सनरेश्वरः ।
ब्रह्माण्डं संकटं मेने हर्षसंपूर्णमानसः ॥५१॥
देवी वासवदत्तापि शच्या पुत्रश्रिया पदम् ।
प्राप्ता कुमारविजयानन्दिनीव सती बभौ ॥५२॥
मङ्गलोदधिकलोलश्रीलताकुसुमाकरः ।
हर्षपीयूषजलदः कोऽप्यभूत्स महोत्सवः ॥५३॥
ततस्तनयमामन्त्र्य कौशाम्बीं प्रमदाकुलः ।
ययौ व्योम्ना सहामात्यो वत्सराजः प्रियासखः ॥५४॥
इति स निखिलभूभृन्मौलिविश्रान्तकीर्ति -
र्मदकलसुरनारीगीयमानप्रतापः ।
अभिनवजयलक्ष्मीनम्रविद्याधरेन्द्र -
प्रकटमुकुटपीठस्पष्टपादो रराज ॥५५॥

इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां महाभिशेको नाम सप्तदशो लम्बकः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-02T22:27:50.2530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तळाटदार

  • पु. १ गांवचा तलाठी ; कुलकर्णी ; सरकारने नेमलेला कुळकर्ण्यासारखा वसूली कामगार . तलाठी पहा . २ गैरहजर असलेल्या किंवा कामावरुन तात्पुरते बडतर्फ केलेल्या कामगाराच्या जागी काम करणारा अधिकारी ; बदली कामगार . [ तलाठी ] 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.