हरस्वाम्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति वचनं पुत्र्याः प्राह शोकाकुलो नृपः ।
पुत्रि त्वया प्रतिज्ञाय संशये जनिता वयम् ॥५४॥
त्वां यौवनवतीमाह कन्यकैव सुमध्यमे ।
अप्रत्ययश्च लोकोऽयं न जाने किं भविष्यति ॥५५॥
अन्यं भर्तारमासाद्य कल्पिताश्चर्यवादिनः ।
नरास्त्यक्तस्वकर्माणो मोदन्ते साधुनिन्दया ॥५६॥
परापवादं संहृष्टा गुणलेशासहिष्णवः ।
लीलयोत्पादयन्त्येव मिथ्यादोषं सतां खलाः ॥५७॥
कुसुमाख्ये पुरे पूर्वं तपस्वी नियतेन्द्रियः ।
उवास ब्राह्मणवरो हरस्वामी गुणाधिकः ॥५८॥
ततः कदाचिज्जनिता मध्ये तद्गुणसंस्तवे ।
उवाच दुर्जनः कश्चिदुष्माभिः किं तु न श्रुतम् ॥५९॥
बाला दुरात्मनानेन भक्षिता निखिलाः पुरे ।
इति तत्पप्रथे वाक्यमेकद्वित्रिचतुःक्रमात् ॥६०॥
हा हरस्वामिना कृत्स्ना बालका भक्षिताः पुरे ।
प्रवाह इति सर्वत्र बभूव निरवग्रहः ॥६१॥
ब्रह्मोत्तरे जनपदे तद्विवासनसंगते ।
निजापवादनिर्विण्णो हरस्वामी सभां ययौ ॥६२॥
तमागतमभिप्रेक्ष्य सामर्षभयविह्वला ।
चकम्पे भक्षणभयात्कृतान्तालोकनादिव ॥६३॥
ततो व्यजिज्ञपत्सर्वान्हरस्वामी कृताञ्जलिः ।
दारका भक्षिताः कस्य मया ब्रूतां स संसदि ॥६४॥
कियन्तस्ते कियन्तस्ते पुत्राः सन्तीति तान्क्रमात् ।
पप्रच्छ भक्षितास्तेभ्यः कियन्तश्चेति गण्यताम् ॥६५॥
श्रुत्वेति तस्य वचनं गणयित्वा निजान्सुतान् ।
निर्विकारा वयमिति प्रययुर्लज्जिता द्विजाः ॥६६॥
इत्यनालोक्य सद्भावं वदन्त्येके तथा परे ।
पशूनामिव यूथोऽयं गतानुगतिको जनः ॥६७॥
इति हरस्वाम्याख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP