तन्त्रवार्तिके - श्लोक २६ ते ५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


लोकैत्यादिभाष्यस्य ( १ ) षडर्थान् संप्रचक्षते ।
भाष्यकाराsनुसारेण प्रयुक्तस्यादितः पृथक् ॥२६॥
सर्वव्याख्या मुपालभ्भं प्रत्याख्यानं तथाsपरे ।
परिसंख्यास्तुती के चिद्थशब्दस्य दूषणम् ॥२७॥
साधारणी विशिष्टा च सूत्रव्याख्या द्विधा मता ।
विशिष्टा प्रतिसूत्र या सर्वाथा त्वियमुच्यते ॥२८॥
प्रवृत्तिस्तु पदेष्वेव निवृत्तिः सूत्रसंश्रया ।
वेदवाक्याsविरुद्धेषु न तु सर्वेषु केषु चित् ॥२९॥
अध्याहारस्य वाक्येषु व्यत्पासस्य च संभवः ( १ ) ।
तेनैषामिति सूत्राणां पाराथ्यै सत्यपि ग्रहः ॥३०॥
एवशब्दोsल्पवाच्यत्वादस्याssवृत्तौ तु गौरवम् ।
प्रसिद्धत्वादवाच्यं चेन्न दोषः पुङ्गिरामयम् ॥३१॥
व्याख्याङ्गत्वाsभिमानेन योsध्याहाराद्यपेक्षते ।
स्वसंज्ञां वापि तस्येदं शास्त्ररूपं निरूप्यते ॥३२॥
वृत्त्यन्तरेषु केषा चिल्लौकिकाsर्थव्यतिक्रमः ।
शब्दानां दृश्यते तेषामुपालम्भोsयमुच्यते ॥३३॥
अथात इत्ययं लोके नाssनन्तर्ये प्रयुज्यते ।
तस्मात् तादर्थ्यमेतस्य परिभाषादिभिर्भवेत् ॥३४॥
‘ प्रसिद्धहानिः शब्दानामप्रसिद्धे च कल्पना ।
न कार्या वृत्तिकारेण सति सिद्धार्थसंभवे ॥३५॥
सूत्रार्थे क्लिश्यतश्चैवं ( १ ) दूरे वेदार्थनिर्णयः ।
तत्र यत्रस्य भारत्वं वक्तृश्रोत्रोः प्रसज्यते ’ ॥३६॥
न व्याख्यास्यति सूत्राणि चोदनार्थपरत्वतः ।
यत् तस्य परिहारोsयं प्रत्याख्यानेन चोच्यते ( २ ) ॥३७॥
‘ प्रयासो वेदवाक्येषु कार्यः सूत्रेष्वनेन किम् ।
फलवत्त्वाsफलत्वाभ्या ’ मेभिः करणसंमतैः ॥३८॥
चोदनार्थ उपेतव्यो नोभयं यत्नगौरवात् ।
पदार्थानां प्रसिद्धत्वाद् व्याख्येयं नावशिष्यते ॥३९॥
‘ एवं ’ शब्दादिको ग्रन्थः पक्षे चास्मिन् समर्थ्यते ।
‘ पदच्छेदाद्यभावेन प्रत्याख्यानमतिस्त्वियम् ॥४०॥
ब्रवीत्येव हि सूत्रार्थ ’ मतिरिक्तादि चेष्यते ( १ ) ।
नन्वशक्तमिदं सूत्रं सम्यक् सूत्रितमित्यापि ॥४१॥
सूत्रे चागमकत्वादि प्रत्याख्याने विरुध्यते ।
न चोपायाsनभिज्ञेय शक्योपेयाsवधारणा ॥४२॥
नाsन्यतो वेदविद्भ्यश्च सूत्रवृत्तिक्रियेष्यते ।
प्रत्याख्यानस्य हेतुश्च पदार्थानां प्रसिद्धता ॥४३॥
योक्ता सा विदवाक्यानां तुल्यार्थ त्वान्निवारयेत् ।
वाक्यार्थे तत्र सन्देहाद् व्याख्यानं चेत् प्रवर्तते ॥४४॥
सूत्रेष्वपि समानत्वात् प्रत्याख्यानं न युज्यते ।
न व्याख्यातव्यमित्येव प्रत्पाख्याने च सिध्यति ॥४५॥
दुष्टव्याख्यानिषेधेन तदपेता न वार्थते ।
अस्य दृष्ट विरुद्धत्वात् फल्गुत्वाच्चापि पूर्वयोः ॥४६॥
मध्यमे चातिदौर्जन्यात् परिसंख्यैव युज्यते ।
वैदिकं जैमिनीयं च यत्र वाक्यं विरुध्यते ॥४७॥
यथाश्रुतगृहीतेsर्थे तत्रेदसुपदिश्यते ।
अध्याहारादिभिः सूत्रं वैदिकं तु ( १ ) यथाश्रुतम् ॥४८॥
नेयं विरोधेsन्योन्यस्य वैदिकानां भवन्तु ते ।
यथा धर्मावबोधस्य प्रमाणं वैद्कं वचः ॥४९॥
तदर्थनिर्णये हेतुर्जैमिनीयं तथैव नः ।
वाक्यसामर्थ्यतुल्यत्वात तथा पदतदर्शयोः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP