उपोद्घघात

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


ॐ तत्सद्बहयणे नम:


भाष्यं :--- ॐ नमो ब्रम्हादिभ्यो ब्रम्हाविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्य: । ‘उषा वा अश्चस्य” इत्येवमाद्या वाजसनेयिब्राम्हाणेपनिषत । तस्या इयमल्पग्रन्था वृत्तिरारभ्यते संसारव्यावृत्सुभ्य:संसारहेतुनिवृत्तिसाधनब्रम्हात्मैकत्वविद्याप्रतिपत्तये । सेयं ब्रम्हाविद्योपनिषच्छब्दवाच्या अत्पगणां सहेतो: संसारस्यात्यन्तावसादनात । उप -नि - पूर्वस्य सदेस्तदर्थत्वात । तादर्थ्वादग्रन्थोऽप्युपनिषदुच्यते । सेयं षडध्याय्यऽरण्येऽनूच्यमानत्वादारण्यकम । बृहत्त्वात्परिमाणतो बृहदारण्यकम ॥

भाष्यं :--- तस्यास्य कर्मकाण्डेन संबन्धोऽभिधीयते । सर्वोऽययं वेद: प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपर: । सर्वपुरुषाणं निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात ॥

भाष्यं :--- द्दष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नाऽऽगमान्वेषणा ॥

भाष्यं :--- न चासति जन्मन्तरसंबन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात ।
स्वभाववादिदर्शनात । तस्माज्जन्मान्तरसंबन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते ॥

भाष्यं :--- ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके इत्युपक्रम्य “अस्तीत्येवोपलब्धव्य” इत्येवमादिनिर्णयदर्शनात । “यथा च मरणं प्राप्य” इत्युपक्रम्य - “ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देद्दिन: । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम” इति च । “स्वयंज्योति:”इत्युपक्रम्य “तं विद्याकर्मणी समन्वारभेते” “पुण्यो वै पुण्येन कर्मणा भवति पाप: पापेन’ इति च । “इपयिश्यानि” इत्युपक्रम्य ‘विज्ञानमय:’ इति च व्यतिरिक्तात्मास्तित्वम ॥

भाष्यं :--- तत्प्रत्यक्षविषयमेवेति चेन्न । वादिविप्रतिपत्तिदर्शनात । न हि देहान्तरसंवन्धिन आत्मन: प्रत्यक्षेणास्तित्वविज्ञाने लौकायतिका बौद्धाश्च न: प्रतिकृला: स्युर्नास्त्यात्मेति वदन्त: । न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घत इति ॥

भाष्यं :--- स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत । न। निरूपितेऽभावात । न द्दि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रत्तिपत्तिर्भवति । विनाशिकास्त्वहमितिप्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते । तस्मात्प्रत्यक्षविषयवैलक्षण्यात्प्रत्यक्षान्नाऽऽत्मास्तित्वसिद्धि: ॥

भाष्यं :--- तथाऽनुमानादपि । श्रुत्याऽऽत्मास्तित्वे लिङगस्य दर्शितत्वाल्लिङगस्य च प्रत्यक्षविषयत्वान्नेति चेत । न । जन्मान्तरसंबन्धस्याग्रहणात । आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङगविसेषैश्छ तदनुसारिणो मीमांसकास्तार्किकाश्चाहंप्रत्ययलिंगानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चाऽऽमेति ॥

भाष्यं :--- सर्वथाऽष्यस्त्यात्मा देहान्तरसंबन्धीत्येवं प्रतिपत्तुर्देहान्तरग्तेष्ठानिष्ठप्राप्तिपरिहारोपायबिशेषार्तिनस्ताद्विशेषज्ञापनाय कर्मकाण्डमारब्धम । न त्वात्मन इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रम्हात्मत्वर्पविज्ञानेनापनीतम । यावद्धि तन्नापनीयते तावदयं कर्मपहलरागद्वेषादिस्वाभाविकदोषप्रयुक्त: शास्त्रविहितप्रतिपिद्धतिकमेणापि प्रवर्तमानो मनोवाक्कायैर्द्दष्टाद्दष्टानिष्टसाधनान्यधर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन स्वाभाइव्कदोषबईयस्त्वात । तत: स्थाबरान्ताधोगति: ॥

भाष्यं :--- कदाचिच्छास्त्र्कृतसंस्कारबलीयस्त्वम । ततो मनादिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम । तदविविधम ज्ञानपूर्वकं केवलं च । तत्र केवलं पितृलोकादिप्राप्तिफलम । ज्ञानपूर्वकं देवलोकादिब्रम्हालोकातप्राप्तिफलम । तथा च शास्रम आत्मयाजि श्रेयान्देवयाजिन:” इत्यादि ॥

भाष्यं :--- स्मृतिश्च दिविधं कर्म वैदिकम” इत्याद्या । साम्ये च धर्माघर्मयोर्मनुष्यत्वप्राप्ति: । एवं ब्रम्हाद्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवतो धर्माधर्मसाधनकृता संसारगतिर्नामरुपकर्माश्रया । तदेवेदं व्याकृतं साध्यसाधनरूपं जगत्प्रगुप्तत्तेर्व्याकृतमासीत ॥

भाष्यं :--- स एष बीजाङकुरादिवदबिद्याकृत: संसार आत्मनि क्रियाकारककलाध्यारोपलक्षणोऽनादिरनन्तोऽनर्थ इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतव्रम्हविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ॥

भाष्यं :---  अस्य त्वश्वमेधकर्मसंवन्धिनो विज्ञानस्य प्रयोजनं येषामश्चमेघे नाधिकारस्तेषामस्मादेव विज्ञानात्तत्फलप्राप्ति: । “विद्यया वा कर्मणा वा” “तद्धैतल्लोकजिदेव इत्येवमादिश्रुतिभ्य: ॥

भाष्यं :--- कर्मविषयत्वमेव विज्ञानस्येति चेत । न । “योऽसअमेधेन यजते य उ चैनमेवं वेद” इति विकल्पश्रुते: । विद्याप्रकरणे चाऽऽम्नानात । कर्मान्तरे च संपादनदर्शनाद्विज्ञानात्तत्फलप्राप्तिरस्तीत्यवगम्यते । सर्वेषां च कर्मणां प परं कर्माश्चमेध: । समष्टिप्राप्तिफलत्वात । तस्य चेह ब्रम्हाविद्याप्रारम्भ आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम । तथा च दर्शयिष्यति फलमशनाया मृत्युभावम ॥

भाष्यं :--- न नित्यानाम संसारविषयफलत्वमिति चेत । न । सर्वकर्मफलोपसंहारश्रुते: । सर्वं हि पत्नीसंबद्धं कर्म । “जाया मे स्यादेतावान्वै काम:” इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा पुत्रकर्मापरविद्यानां च “अयं लोक: पितृलोको देवलोक:” इति फलं दर्शयित्वाऽन्नात्मकतां चान्त उपसंहरिष्यति “त्रयं वा इदं नाम रूपं कर्म इति । सर्वकर्मणां फलं व्याकृतं संसार एवेति ॥

भाष्यं :--- इदमेव त्रयं प्रागुत्प्रत्तेस्तहर्यव्याकृतमासीत । तदेव पुन: सर्वप्राणिकर्मवशादव्याक्रियते बीजादिव वृक्ष: । सोऽयं व्याकृताव्याकृतरूप: संसारोऽविद्याविषय: क्रियाकारकफलात्मकतयाऽऽत्मरूपत्वेनाध्यारोपोइतो*विद्ययैव मूर्तामूर्ततद्वासनात्मक: । अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्त स्वभावोऽपि क्रियाकार कफलभेदादिविपर्ययेणावभासते ॥

भाष्यं :--- अतोऽस्मात्क्रियाकारकफलभेदस्वरूपादेतावदिदमितिसाध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रम्हाविद्याऽऽरभ्यते । तत्र तावदश्वमेधविज्ञानाय “उषा वा अश्वस्य” इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते प्राधान्यादश्वस्य । प्राधान्यं च तन्नामाङकितत्वात्क्रतो: प्राजापत्यत्वाच्च ॥

उपोद्घघात समाप्त

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP