TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अतिशयोक्ति अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

लक्षण २
यथा-
‘ नयनानन्दसंदोहतुन्दिलीकरणक्षमा । तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥’
अत्र भगवतो मूर्तिर्निगीर्णा । नामार्थयोरभेदसंसर्गेण विशेष्यविशेषण-भावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभाव:, न तु प्रकृते । विषयितावच्छेदकरूपेण विषयस्यैव
भागादभेदसंसर्गस्याप्रसक्ते: । अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपक इव विषयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्य: । तच्च विषयितावच्छेदकं क्कचित्प्रकृते निगरणदार्ढ्याय विषय-मात्रवृत्तिधर्म-स्वसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम्‍ । यथा ‘ कलिन्द-गिरिनन्दिनी ’ इत्यादौ तमालत्वादि । क्कचिदप्रसिद्धमपि कल्पितोपमा-दाबुपमानमिव कविना स्वप्रतिभया कल्पितम्‍, धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वात्‍ ।
यथा-‘ स्मृतापि तरुणातपम्‍ ’ ।
यथा वा-
‘ जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलय-ञ्जनानां संतापं त्रिविधमपि सद्य: प्रशमयन्‍ । श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो मम स्वान्तध्वान्तं तिरयतु नवीनो जलधर: ॥’
अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवत: प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानु-गुण्यम्‍ । एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेवैव विषय-स्य भानम्‍, न विषय्यभिन्नत्वेनेति स्थिते ‘ रूपकातिशयोक्ति: स्यान्निगी-
र्याध्यवसानत: ’ इत्युक्त्वा ‘ अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शि-तानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्‍ । तेनात्राप्यभेदा-तिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति ’ कुवलयानन्दे यदुक्तं तन्निरस्तम्‍ ” इति नव्या: । प्राञ्चस्तु ‘ रूपक इवात्रापि विषय्यभेदो भासते । परं तु निगीर्णे विषये इति रूपकादस्या विशेष: । अध्यवसायस्य सिद्धत्वेना-प्राधानान्निश्चयात्मकत्वाच्च साध्याध्यवसानाया: संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्‍ ’ इत्याहु: । कथं तर्हि ‘ कमलमिदमनम्बुजातं जयतितमां कनक-
लतिकायाम्‍ । इत्यादाविदंत्वादेर्विषयतावच्छेदकस्योल्लेखान्निगरणमिति चेत्‍, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्ति:, उद्देश्यताव-च्छेदकत्वे तु रूपकमेव । एवं ‘ गौरयम्‍ ’ , ‘ आयुरेवेदम्‍ ’ इत्यादावपि बोध्यम्‍ । अत एवातिशयोक्तावभेदोऽनुवाद्य एव, न विधेय इति प्राचामुक्ति: संगच्छते । एवमेक: प्रकारोऽतिशयस्य, यत्र भेदेऽप्यभेद: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-08-14T16:15:46.2270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

intercellular fluid

  • आंतरपेशीय द्रव 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.