स्मरणालंकार: - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-

‘ सन्त्येवास्मिञ्जगति बहव: पक्षिणो रम्यरूपा-स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि:
स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम्‍ ॥’

अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलध-

रस्य भगवत्सदृशस्य स्मरणेन जनितं भगवत: स्मरणं भगवद्विषयरति-भावाड्रम्‍ । यदि च ‘ सदृशानुभवात्‍ ’ इत्यपहाय ‘ सदृशज्ञानात्‍ ’ इति लक्षणे निवेश्यते तदा । भवत्यस्यापि संग्रह इति दिक्‍ ।

अथास्य ध्वनि: ।

यथा-

‘ इदं लताभि: स्तबकानताभिर्मनोहरं हन्त वनान्तरालम्‍ । सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो ह्लदयं हरेयु: ॥’

अत्र स्तबकानताभिर्लताभि: स्तनभारवतीनां युवतीनां स्मरणमलंकार्य-स्यान्यस्याभावादनुपसर्जनम्‍, स्तनस्तबकरूपस्य बिमप्रतिबिम्बभावमाप-न्नस्य साधारणधर्मस्य वाच्यत्वे‍ऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाव्द्यड्रयं च । युवत्य इति च ‘ सर्वतोऽक्तिन्नर्थात्‍ ’

इति डीषि साधु: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP