उत्तरभागः - अध्यायः ९

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


इन्द्र उवाच
भगवन्सर्व धर्मज्ञ त्रिकालज्ञानवित्तम ।
दुष्कृतं तत्प्रतीकारो भवता सम्यगीरितः ॥१॥

केन कर्मविपाकेन ममापदि यमागता ।
प्रायश्चित्तं च किं तस्य गदस्व वदतां वर ॥२॥

बृहस्पतिरुवाच
काश्यपस्य ततो जज्ञे दित्यां दनुरिति स्मृतः ।
कन्या रूपवती नाम धात्रे तां प्रददौ पिता ॥३॥

तस्याः पुत्रस्ततो जातो विश्वरूपो महाद्युतिः ।
नारायणपरो नित्यं वेदवेदाङ्गपारगः ॥४॥

ततो दैत्येश्वरो वव्रे भृगुपुत्रं पुरोहितम् ।
भवानधिकृतो राज्ये देवानामिव वासवः ॥५॥

ततः पूर्वे च काले तु सुधर्मायां त्वयि स्थिते ।
त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा ॥६॥

संसारस्तीर्थयात्रा वा कोऽधिकोऽस्ति तयोर्गुमः ।
वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात् ॥७॥

तत्प्रश्नस्योत्तरं वक्तुं ते सर्व उपचक्रिरे ।
तत्पूर्वमेव कथितं मया विधिबलेन वै ॥८॥

तीर्थ यात्रा समधिका संसारादिति च द्रुतम् ।
तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयोऽखिलाः ॥९॥

कर्मभूमिं व्रजेः शीघ्रं दारिर्द्येण मितैः सुतैः ।
एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम् ॥१०॥

पुरीं पुरोधसा हीनां वीक्ष्य चिन्ताकुलात्मना ।
भवता सह देवैस्तु पौरोहित्यार्थमादरात् ॥११॥

प्रार्थितो विश्वरूपस्तु बभूव तपतां वरः ।
स्वस्रीयो दानवानां तु देवानां च पुरोहितः ॥१२॥

नात्यर्थम करोद्वैरं दैत्येष्वपि महातपाः ।
बभूवतुस्तुल्यबलौ तदा देत्येन्द्रवासवौ ॥१३॥

ततस्त्वं कुपितो राजन्स्वक्लीयं दानवेशितुः ।
हन्तुमिच्छन्नगाश्चाशु तपसः साधनं वनम् ॥१४॥

तमासनस्थं मुनिभिस्त्रिशृङ्गमिव पर्वतम् ।
त्रयी मुखरदिग्भागं ब्रह्मानदैकनिष्ठितम् ॥१५॥

सर्वभूतहितं तं तु मत्वा चेशानुकूलितः ।
शिरांसि यौगपद्येन छिन्नात्यासंस्त्वयैव तु ॥१६॥

तेन पापेन संयुक्तः पीडितश्च मुहुर्मुहुः ।
ततो मेरुगुहां नीत्वा बहूनब्दान्हि संस्थितः ॥१७॥

ततस्तस्य वचः श्रुत्वा ज्ञात्वा तु मुनिवाक्यतः ।
पुत्र शोकेन संतप्तस्त्वां शशाप रुषान्वितः ॥१८॥

निःश्रीको भवतु क्षिप्रं मम शापेन वासवः ।
अनाथकास्ततो देवा विषण्णा दैत्यपीडिताः ॥१९॥

त्वया मया च रहिताः सर्वे देवाः पलायिताः ।
गत्वा तु ब्रह्मसदनं नत्वा तद्वृत्तमूचिरे ॥२०॥

ततस्तु चिन्तया मास तदघस्य प्रतिक्रियाम् ।
तस्य प्रतिक्रियां वेत्तुं न शशाकात्मभूस्तदा ॥२१॥

ततो देवैः परिवृतो नारायणमुपागमत् ॥२२॥

नत्वा स्तुत्वा चतुर्वक्रस्तद्वृत्तान्तं व्यजिज्ञपत् ।
विचिन्त्य सोऽपि बहुधा कृपया लोकनायकः ॥२३॥

तदघं तु त्रिधा भित्त्वा त्रिषु स्थानेष्वथार्पयत् ।
स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ ॥२४॥

तदा भर्त्तृसमायोगं पुत्रावाप्तिमृतुष्वपि ।
छेदे पुनर्भवत्वं तु सर्वेषामपि शाखिनाम् ॥२५॥

खातपूर्तिं धरण्यश्च प्रददौ मधुसूदनः ।
तेष्वघं प्रबभूवाशु रजोनिर्यासमूषरम् ॥२६॥

निर्गतो गह्वरात्तस्मात्त्वमिन्द्रो देवनायकः ।
राज्यश्रियं च संप्राप्तः प्रसादात्परमेष्ठिनः ॥२७॥

तेनैव सांत्वितो धाता जगाद च जनार्दनम् ।
मम शापो वृथा न स्यादस्तु कालान्तरे मुने ॥२८॥

भगवांस्तद्वचः श्रुत्वा मुनेरमिततेजसः ।
प्रहृष्टो भाविकार्यज्ञस्तूष्णीमेव तदा ययौ ॥२९॥

एतावन्तमिमं कालं त्रिलोकीं पालयन्भवान् ।
एश्वर्यमदमत्तत्वात्कैलासाद्रिमपीडयत ॥३०॥

सर्वज्ञेन शिवेनाथ प्रेषितो भगवान्मुनिः ।
दुर्वासास्त्वन्मदभ्रंशं कर्त्तुकामः शशाप ह ॥३१॥

एकमेव फलं जातमुभयोः शापयोरपि ।
अधुना पश्यनिः श्रीकन्त्रैलोक्यं समजायत ॥३२॥

न यज्ञाः संप्रवर्त्तन्ते न दानानि च वासव ।
न यमा नापि नियमा न तपासि च कुत्रचित् ॥३३॥

विप्राः सर्वेऽपि निःश्रीका लोभोपहतचेतसः ।
निःस्त्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशोऽभवन् ॥३४॥

निरौषधिरसा भूमिर्निवीर्य जायतेतराम् ।
भास्करो धूसराकारश्चन्द्रमाः कान्तिवर्जितः ॥३५॥

निस्तेजस्को हविर्भोक्ता मनुद्धूलिकृताकृतिः ।
न प्रसन्ना दिशां भागा नभो नैव च निर्मलम् ॥३६॥

दुर्बला देवताः सर्वा विभान्त्यन्यादृशा इव ।
विनष्टप्रयमेवास्ति त्रैलोक्यं सचराचरम् ॥३७॥

हयग्रीव उवाच
इत्थं कथयतोरेव बृहस्पतिपहेन्द्रयोः ।
मलकाद्या महादैत्याः स्वर्गलोकं बबाधिरे ॥३८॥

नन्दनोद्यान मखिलं चिच्छिदुर्बलगर्विताः ।
उद्यानपालकान्सर्वानायुधैः समताडयन् ॥३९॥

प्राकारमवभिद्यैव प्रविश्य नगरान्तरम् ।
मन्दिरस्थान्सुरान्सर्वानत्यन्तं पर्यपीडयन् ॥४०॥

आजहुरप्सरोरत्नान्यशेषाणि विशेषतः ।
ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः ॥४१॥

तादृशं घोषमाकर्म्य वासवः प्रोज्झितासनः ।
सर्वैरनुगतो देवैः पलायनपरोऽभवत् ॥४२॥

ब्राह्मं धाम समभ्येत्य विषण्मवदनो वृषा ।
यथावत्कथयामास निखिलं दैत्यचेष्टितम् ॥४३॥

विधातापि तदाकर्ण्य सर्वदेवसमन्वितम् ।
हतश्रीकं हरिहयमालोक्येदमुवाच ह ॥४४॥

इन्द्रत्वमखिलैर्द्देवैर्मुकुन्दं शरणं व्रज ।
दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति ॥४५॥

इत्युक्त्वा तेन सहितः स्वयं ब्रह्मा पितामहः ।
समस्तदेवसहितः क्षीरोदधिमुपाययौ ॥४६॥

अथ ब्रह्मादयो देवा भगवन्तं जनार्दनम् ।
तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम् ॥४७॥

अथ प्रसन्नो भगवान्वासुदेवः सनातनः ।
जगाद स कलान्देवाञ्जगद्रक्षणलंपटः ॥४८॥

श्रीभगवानुवाच
भवतां सुविधास्यामि तेजसैवोपबृंहमम् ।
यदुच्यते मयेदानीं युष्माभिस्त द्विधीयताम् ॥४९॥

ओषधिप्रवराः सर्वाः क्षिपत क्षीरसागरे ।
असुरैरपि संधाय सममेव च तैरिह ॥५०॥

मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं च वासुकिम् ।
मयि स्थिते सहाये तु मथ्यताममृतं सुराः ॥५१॥

समस्तदानवाश्चापि वक्तव्याः सांत्वपूर्वकम् ।
सामान्यमेव युष्माकमस्माकं च फलं त्विति ॥५२॥

मथ्यमाने तु दुग्धाब्धौ या समुत्पद्यते सुधा ।
तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ ॥५३॥

यथा दैत्याश्च पीयूषं नैतत्प्राप्स्यन्ति किञ्चन ।
केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम् ॥५४॥

इति श्रीवासुदेवेन कथिता निखिलाः सुराः ।
संधानं त्वतुलैर्दैत्यैः कृतवन्तस्तदा सुराः ।
नानाविधौषधिगणं समानीय सुरासुराः ॥५५॥

श्रीराब्धिपयसि क्षिप्त्वा चन्द्रमोऽधिकनिर्मलम् ।
मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं तु वासुकिम् ।
प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम् ॥५६॥

वासुकेः पुच्छभागे तु सहिताः सर्वदेवताः ।
शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा ॥५७॥

बलवन्तोऽपि ते दैत्यास्तन्मुखोच्छ्वासपावकैः ।
निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन् ॥५८॥

पुच्छदेशे तु कर्षन्तो मुहुराप्यायिताः सुराः ।
अनुकूलेन वातेन विष्णुना प्रेरितेन तु ॥५९॥

आदिकूर्माकृतिः श्रीमान्मध्ये क्षीरपयोनिधेः ।
भ्रमतो मन्दराद्रेस्तु तस्या धिष्टानतामगात् ॥६०॥

मध्ये च सर्वदेवानां रूपेणान्येन माधवः ।
चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च ॥६१॥

ब्रह्मरूपेण तं शैलं विधार्याक्रान्तवारिधिम् ।
अपरेण च देवर्षिर्महता तेजसा मुहुः ॥६२॥

उपवृंहितवान्देवान्येन ते बलशालिनः ।
तेजसा पुनरन्येन बलात्कारसहेन सः ॥६३॥

उपबृंहितवान्नागं सर्वशक्तिजनार्दनः ।
मथ्यमाने ततस्तस्मिन्क्षीरब्धौ देवदानवैः ॥६४॥

आविर्बभूव पुरतः सुरभिः सुरपूजिता ।
मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन ॥६५॥

मथ्यमाने पुनस्तस्मिन्क्षीराब्दौ देवदानवैः ।
किमेतदिति सिद्धानां दिवि चिन्तयतां तदा ॥६६॥

उत्थिता वारुणी देवी मदाल्लोलविलोचना ।
असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत ॥६७॥

जगृहुर्नैव तां दैत्या असुराश्चाभवंस्ततः ।
सुरा न विद्यते येषां तेनैवासुरशब्दिताः ॥६८॥

अथसा सर्वदेवानामग्रतः समतिष्ठत ।
जगृहुस्तां मुदा देवाः सूचिताः परमेष्ठिना ।
सुराग्रहणतोऽप्येते सुरशब्देन कीर्तिताः ॥६९॥

मथ्यमाने ततो भूयः पारिजातो महाद्रुमः ।
आविरासीत्सुंगधेन परितो वासयञ्जगत् ॥७०॥

अत्यर्थसुंदराकारा धीराश्चाप्सरसां गणाः ।
आविर्भूताश्च देवर्षे सर्वलोकमनोहराः ॥७१॥

ततः शीतांशुरुदभूत्तं जग्राह महेश्वरः ।
विषजातं तदुत्पन्नं जगृहुर्नागजातयः ॥७२॥

कौस्तुभाख्यं ततो रत्नमाददे तज्जनार्दनः ।
ततः स्वपत्रगन्धेन मदयन्ती महौषधीः ।
विजया नाम संजज्ञे भैरवस्तामुपाददे ॥७३॥

ततो दिव्यांबरधरो देवो धन्वन्तरिः स्वयम् ।
उपस्थितः करे बिभ्रदमृताढ्यं कमण्डलुम् ॥७४॥

ततः प्रहृष्टमनसो देवा दैत्याश्च सर्वतः ।
मुनयश्चाभवंस्तुष्टास्तदानीं तपसां निधे ॥७५॥

ततो विकसितांभोजवासिनी वरदायिनी ।
उत्थिता पद्महस्ता श्रीस्तस्मात्क्षीरमहार्मवात् ॥७६॥

अथ तां मुनयः सर्वे श्रीसुक्तेन श्रियं पराम् ।
तुष्टुवुस्तुष्ट हृदया गन्धर्वाश्च जगुः परम् ॥७७॥

विश्वाजीप्रमुखाः सर्वे ननृतुश्चाप्सरोगणाः ।
गङ्गाद्याः पुण्यनद्यश्च स्नानार्थमुपतस्थिरे ॥७८॥

अष्टौ दिग्दन्तिनश्चैव मेध्यपात्रस्थितं जलम् ।
आदाय स्नापयाञ्चक्रुस्तां श्रियं पद्मवासिनीम् ॥७९॥

तुलसीं च समुत्पन्नां परार्ध्या मैक्यजां हरेः ।
पद्ममालां ददौ तस्यै मूर्तिमान्क्षीरसागरः ॥८०॥

भूषणानि च दिव्यानि विश्वकर्मा समर्पयत् ।
दिव्यमाल्यां बरधरा दिव्यभूषणभूषिता ।
ययौ वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा ॥८१॥

तुलसी तु धृता तेन विष्णुना प्रभविष्णुना ।
पश्यति स्म च सा देवी विष्णुवक्षथलालया ।
देवान्दयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी ॥८२॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अमृतमन्थनं नाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP