चरमांशुः - विप्रपादोकदकग्रहणसंकल्पः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा मम जन्मप्रभृत्यद्ययावत्कृत - कायिक - वाचिक - मानसिक - सांसर्गिक - भुक्ताभुक्त - पीतापीतोपपातक - संकरीकरण - मलिनीकरण - जातिभ्रंशकरण - प्रकीर्णादिपापानां मध्ये संभावितपापानां सद्यो निरासार्थं अंते उत्तमलोकावाप्तिकामोऽहं विप्रपादोदकग्रहणं करिष्ये । ( कर्तापुत्रादिश्चेत् मम पितुर्जन्मप्रभृतीत्याद्यह्यम् ) तत्रादौ गणपतिपूजनं ब्राह्मणपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य ब्राह्मणान्‍ यथाविभवमभ्यर्च्य । पृथिव्यां यानि तीर्थानि यानि तीर्थानि सागरे । तानि तीर्थानि सर्वाणि पदे विप्रस्य दक्षिणे । ’ इति मंत्रेण विप्रपादोदकं गृहीत्वा ‘ अकालमृत्युहरणं सर्वपापप्रणाशनम् । विप्रपादोदकं तीर्थं जठरे धारयाम्यहम् ॥ अच्युतानंतगोविंद नामोच्चारणभेषजात् । नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ’ इति मंत्राभ्यां पिबेत् । ततः कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणेभ्यः सामान्नां भूयसीं दक्षिणां दद्यात् ॥ ॥ इति कृत्यदिवाकरे चरमांशौ विप्रपादोदकग्रहणप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP