व्यवहारपदानि - समयस्यानपाकर्म

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥१॥

पाषण्डनैगमश्रेणी पूगव्रातगणादिषु ।
संरक्षेत्समयं राजा दुर्गे जनपदे तथा ॥२॥

यो धर्मः कर्म यच्चैषां उपस्थानविधिश्च यः ।
यच्चैषां वृत्त्युपादानं अनुमन्येत तत्तथा ॥३॥

प्रतिकूलं च यद्राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् ॥४॥

मिथः संघातकरणं अहितं शस्त्रधारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् ॥५॥

पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः ।
आवहेयुर्भयं घोरं व्याधिवत्ते ह्युपेक्षिताः ॥६॥

दोषवत्करणं यत्स्यादनाम्नायप्रकल्पितम् ।
प्रवृत्तं अपि तद्राजा श्रेयस्कामो निवर्तयेत् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP