पाद १ - खण्ड ८२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १२१ - सर्ववचनम् किमर्थम् ।

२ - १२१ - सर्ववचनम् अलोन्त्यनिवृत्त्यर्थम् ।

३ - १२१ - सर्वग्रहणम् क्रियते अलोन्त्यनिवृत्त्यर्थम् ।

४ - १२१ - अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनम् मा भूत् इति ।

५ - १२१ - क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन ।

६ - १२१ - नित्यवीप्सयोः इति ।

७ - १२१ - नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते ।

८ - १२१ - इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत ।

९ - १२१ - षष्ठीनिर्देशार्थम् च । षष्ठीनिर्देशार्थम् च सर्वग्रहणम् कर्तव्यम् ।

१० - १२१ - षष्ठीनिर्देशः यथा प्रकल्पेत ।

११ - १२१ - अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।

१२ - १२१ - कस्य ।

१३ - १२१ - स्थानेयोगत्वस्य ।

१४ - १२१ - क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते ।

१५ - १२१ - परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति ।

१६ - १२१ - इह न का चित् षष्ठी नित्यवीप्सयोः इति ।

१७ - १२१ - ननु च एषा एव षष्ठी ।

१८ - १२१ - न एषा षष्ठी ।

१९ - १२१ - किम् तर्हि ।

२० - १२१ - अर्थनिर्देशः एषः ।

२१ - १२१ - नित्ये च अर्थे वीप्सायाम् च इति ।

२२ - १२१ - अलोन्त्यनिवृत्त्यर्थेन तावत् न अर्थः सर्वग्रहणेन ।

२३ - १२१ - इदम् तावत् अयम् प्रष्टव्यः ।

२४ - १२१ - नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात् न भवति ।

२५ - १२१ - आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यत् अयम् तस्यपरमाम्रेडितम् अनुदात्तम्च इति आह ।

२६ - १२१ - कथम् कृत्वा ज्ञापकम् ।

२७ - १२१ - द्विशब्दः अयम् एकाच् तस्य एकाच्त्वात् तस्यपरमाम्रेडितम् अनुदात्तम्च इति एतत् न अस्ति ।

२८ - १२१ - पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितम् अनुदात्तम्च इति आह ।

२९ - १२१ - यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीम् द्वे भवतः ।

३० - १२१ - द्विशब्देन यत् उच्यते ।

३१ - १२१ - किम् पुनः तत् ।

३२ - १२१ - द्विशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः ।

३३ - १२१ - सङ्ख्येये द्वे भविष्यतः ।

३४ - १२१ - के पुनः ते ।

३५ - १२१ - पदे वाक्ये मात्रे वा ।

३६ - १२१ - तत् यदा तावत् पदे वाक्ये वा तदा अनेकाल्त्वात् सर्वादेशः सिद्धः ।

३७ - १२१ - यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।

३८ - १२१ - यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति ।

३९ - १२१ - न एषः दोषः ।

४० - १२१ - न च अर्धमात्रे द्विः उच्येते ।

४१ - १२१ - किम् कारणम् ।

४२ - १२१ - इह व्याकरेणे यः सर्वाल्पीयान् स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति ।

४३ - १२१ - तेन अर्धमात्रे न भविष्यतः ।

४४ - १२१ - एवम् अपि कुतः एतत् पदे द्वे भविष्यतः इति न पुनः वाक्ये स्याताम् मात्रे वा ।

४५ - १२१ - नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते ।

४६ - १२१ - षष्ठीनिर्देशार्थम् एव तर्हि सर्वग्रहणम् कर्तव्यम् ।

४७ - १२१ - न वा पदाधिकारात् । न वा वक्तव्यम् ।

४८ - १२१ - किम् कारणम् ।

४९ - १२१ - पदाधिकारात् ।

५० - १२१ - पदस्य इति प्रकृत्य द्विर्वचनम् वक्ष्यामि ।

५१ - १२१ - तत् च समासतद्धितवाक्यनिवृत्त्यर्थम् । तत् च अवश्यम् पदग्रहणम् कर्तव्यम् समासनिवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् च ।

५२ - १२१ - समासनिवृत्त्यर्थम् तावत् ।

५३ - १२१ - सप्तपर्णः अष्टापदम् ।

५४ - १२१ - तद्धितनिवृत्त्यर्थम् ।

५५ - १२१ - द्विपदिका त्रिपदिका ।

५६ - १२१ - माषशः कार्षापणशः ।

५७ - १२१ - वाक्यनिवृत्त्यर्थम् ।

५८ - १२१ - ग्रामे ग्रामे पानीयम् ।

५९ - १२१ - माषम् माषम् देहि ।

६० - १२१ - अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते ।

६१ - १२१ - समसस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति ।

६२ - १२१ - आहोस्वित् समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति ।

६३ - १२१ - किम् च अतः ।

६४ - १२१ - यदि विञायते समासस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सिद्धम् सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्याम् सप्तपर्णेभ्यः इति अत्र प्राप्नोति ।

६५ - १२१ - अथ विज्ञायते समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति ।

६६ - १२१ - तथा तद्धितनिवृत्त्यर्थम् इति ।

६७ - १२१ - कथम् इदम् विज्ञायते ।

६८ - १२१ - तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति ।

६९ - १२१ - आहोस्वित् तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति ।

७० - १२१ - किम् च अतः ।

७१ - १२१ - यदि विज्ञायते तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति सिद्धम् द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्याम् त्रिपदिकाभ्याम् माषशः कार्षापणशः इति अत्र प्राप्नोति ।

७२ - १२१ - अथ विज्ञायते तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति ।

७३ - १२१ - तथा वाक्यनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते ।

७४ - १२१ - वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति ।

७५ - १२१ - आहोस्वित् वाक्ये निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति ।

७६ - १२१ - किम् च अतः ।

७७ - १२१ - यदि विज्ञायते वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति यदि वाक्यम् वीप्सायुक्तम् भवितव्यम् एव द्विर्वचनेन ।

७८ - १२१ - अथ अपि अवयवः भवतु एव ।

७९ - १२१ - तत् एतत् क्रियमाणे अपि पदग्रहणे आलूनविशीर्णम् भवति ।

८० - १२१ - किम् चित् सङ्गृहीतम् किम् चित् असङ्गृहीतम् ।

८१ - १२१ - सगतिग्रहणम् च । सगतिग्रहणम् च कर्तव्यम् ।

८२ - १२१ - प्रपचति प्रपचति ।

८३ - १२१ - प्रकरोति प्रकरोति इति ।

८४ - १२१ - किम् पुनः कारणम् न सिध्यति ।

८५ - १२१ - न हि सगतिकम् पदम् भवति ।

८६ - १२१ - समासनिवृत्त्यर्थेन तावत् न अर्थः पदग्रहणेन ।

८७ - १२१ - समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति ।

८८ - १२१ - किम् च भोः समासः वीप्सायाम् इति उच्यते ।

८९ - १२१ - न खलु वीप्सायाम् इति उच्यते गम्यते तु सः अर्थः ।

९० - १२१ - तत्र उक्तः समासेन इति कृत्वा द्विर्वचनम् न भविष्यति ।

९१ - १२१ - यत्र च समासेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

९२ - १२१ - तत् यथा ।

९३ - १२१ - एकैकविचिताः अन्योन्यसहायाः इति ।

९४ - १२१ - अथ वा यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।

९५ - १२१ - किम् पुनः तत् ।

९६ - १२१ - पर्वणि पर्वणि सप्त पर्णानि अस्य ।

९७ - १२१ - पङ्क्तौ पङ्क्तौ अष्टौ पदानि अस्य इति ।

९८ - १२१ - तद्धितनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन ।

९९ - १२१ - तद्धितेन उकत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति ।

१०० - १२१ - तद्धितः खलु अपि वीप्सायाम् इति उच्यते ।

१०१ - १२१ - यत्र च तद्धितेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

१०२ - १२१ - तत् यथा ।

१०३ - १२१ - एकैकशः ददाति इति ।

१०४ - १२१ - वाक्यनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन ।

१०५ - १२१ - पदद्विर्वचनेन उक्तत्वात् वीप्सायाः वाक्यद्विर्वचनम् न भविष्यति ।

१०६ - १२१ - यत्र च पदद्विर्वचनेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

१०७ - १२१ - तत् यथा ।

१०८ - १२१ - प्रपचति प्रपचति ।

१०९ - १२१ - प्रकरोति प्रकरोति ।

११० - १२१ - उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ।

१११ - १२१ - तस्यपरमाम्रेडितम् अनुदात्तम्च इति वक्ष्यति तत् पदद्विर्वचने यथा स्यात् वाक्यद्विर्वचनेमा भूत् ।

११२ - १२१ - मह्यम् ग्रहीष्यति मह्यम् ग्रहीष्यति ।

११३ - १२१ - माम् अभिव्याहरिष्यति माम् अभ्व्याहरिष्यति ।

११४ - १२१ - कथम् च अत्र द्विर्वचनम् ।

११५ - १२१ - छान्दसत्वात् ।

११६ - १२१ - स्वरः अपि तर्हि छान्दसत्वात् एव न भविष्यति ।

११७ - १२१ - उत्तरार्थम् एव तर्हि पदग्रहणम् कर्तव्यम् ।

११८ - १२१ - पदस्य पदात् इति वक्ष्यति तत् पदग्रहणम् न कर्तव्यम् भवति ।

११९ - १२१ - सर्वग्रहणम् अपि तर्हि उत्तरार्थम् ।

१२० - १२१ - अनुदात्तंसर्वमपादादौ इति वक्ष्यति तत् सर्वग्रहणम् कर्तव्यम् भवति ।

१२१ - १२१ - उभयम् क्रियते तत्र एव

१ - २५ - इहार्थम् एव तर्हि षष्ठीनिर्देशार्थम् अन्यतरत् कर्तव्यम् ।

२ - २५ - षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनम् यथा स्यात् द्विःप्रयोगः मा भूत् इति ।

३ - २५ - किम् च स्यात् ।

४ - २५ - आम् पचसि देवदत्ता३ आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता न स्यात् ।

५ - २५ - इह च पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न स्यात् ।

६ - २५ - यदि तर्हि स्थाने द्विर्वचनम् राजा राजा वाक् वाक् पदस्य इति नलोपादीनि न सिध्यन्ति ।

७ - २५ - इदम् इह सम्प्रधार्यम् ।

८ - २५ - द्विर्वचनम् क्रियताम् नलोपादीनि इति किम् अत्र कर्तव्यम् ।

९ - २५ - परत्वात् नलोपादीनि ।

१० - २५ - पूर्वत्र असिद्धे नलोपादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

११ - २५ - एवम् तर्हि पूर्वत्र असिद्धीयम् अद्विर्वचने इति वक्ष्यामि ।

१२ - २५ - तत् च अवश्यम् वक्तव्यम् ।

१३ - २५ - किम् प्रयोजनम् ।

१४ - २५ - विभाषिताः प्रयोजयन्ति ।

१५ - २५ - द्रोग्धा द्रोग्धा ।

१६ - २५ - द्रोढा द्रोढा इति ।

१७ - २५ - इह तर्हि बिसम् बिसम् मुसलम् मुसलम् आदेशप्रत्यययोः इति षत्वम् प्राप्नोति ।

१८ - २५ - आदेशः यः सकारः प्रतयः यः सकारः इति एवम् एतत् विज्ञायते ।

१९ - २५ - इह तर्हि नृभिः नृभिः रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

२० - २५ - समानपदे इति उच्यते समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव ।

२१ - २५ - किम् वक्तव्यम् एतत् ।

२२ - २५ - न हि ।

२३ - २५ - कथम् अनुच्यमानम् गंस्यते ।

२४ - २५ - समानग्रहणसामर्थ्यात् ।

२५ - २५ - यदि हि यत् समानम् च असमानम् च तत्र स्यात् समानग्रहणम् अनर्थकं स्यात्

१ - १४ - अथ वा पुनः अस्तु द्विःप्रयोगः द्विर्वचनम् ।

२ - १४ - ननु च उक्तम् आम् पचसि पचसि देवदत्ता३ आमः एकान्तरम् आमन्त्रितम् अनन्तिके इति एकान्तरता न प्राप्नोति ।

३ - १४ - न एषः दोषः ।

४ - १४ - सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।

५ - १४ - सुप्तिङन्तम्पदम् ।

६ - १४ - यस्मात् सुप्तिङ्विधिः तदादि सुप्तिङन्तम् च ।

७ - १४ - ननु च एकैकस्मात् एव अत्र सुप्तिङ्विधिः ।

८ - १४ - समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा ।

९ - १४ - कुतः एतत् ।

१० - १४ - शास्त्राहानेः ।

११ - १४ - एवम् हि शास्त्रम् अहीनम् भवति ।

१२ - १४ - यत् अपि उच्यते इह पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न प्राप्नोति इति मा भूत् एवम् ।

१३ - १४ - समर्थात् इति एवम् भविष्यति ।

१४ - १४ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकेभ्यः तद्धितोत्पत्तिः इति यत् अयम् कस्कादिषु कौतस्कुतशब्दम् पठति

१ - ९ - इह कस्मात् न भवति ।

२ - ९ - हिमवान् खाण्डवः पारियात्रः समुद्रः इति ।

३ - ९ - नित्ये द्वे भवतः इति प्राप्नोति ।

४ - ९ - न एषः दोषः ।

५ - ९ - अयम् नित्यशब्दः अस्ति एव कूटस्थेषु अविचालिषु भावेषु वर्तते ।

६ - ९ - तत् यथा नित्या द्यौः नित्या पृथिवी नित्यम् आकाशम् इति ।

७ - ९ - अस्ति आभीक्ष्ण्ये वर्तते ।

८ - ९ - तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति ।

९ - ९ - तत् यः आभीक्ष्ण्ये वर्तते तस्य इदम् ग्रहणम् ।

१ - ३२ - अथ किम् इदम् वीप्सा इति ।

२ - ३२ - आप्नोतेः अयम् विपूर्वाइ इच्छायाम् अर्थे सन् विधीयते ।

३ - ३२ - यदि एवम् चिकीर्षति जिहीर्षति इति अत्र अपि प्राप्नोति ।

४ - ३२ - न एषः दोषः ।

५ - ३२ - न एवम् विज्ञायते वीप्सायाम् अभिधेयायाम् इति ।

६ - ३२ - कथम् तर्हि ।

७ - ३२ - कर्तृविशेषणम् एतत् ।

८ - ३२ - वीप्सति इति वीप्सः ।

९ - ३२ - वीप्सः चेत् कर्ता भवति इति ।

१० - ३२ - कः पुनः वीप्सार्थः ।

११ - ३२ - अनवयवाभिधानम् वीप्सार्थः ।

१२ - ३२ - अनवयवेन द्रव्याणाम् अभिधानम् एषः वीप्सार्थः ।

१३ - ३२ - अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनप्रसङ्गः ।

१४ - ३२ - अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनम् प्राप्नोति ।

१५ - ३२ - व्रीहिभिः यवैः वा इति ।

१६ - ३२ - न वा एकार्थत्वात् जातेः । न वा एषः दोषः ।

१७ - ३२ - किम् कारणम् ।

१८ - ३२ - एकार्थत्वात् जातेः ।

१९ - ३२ - एकार्थः हि जातिः ।

२० - ३२ - एकम् अर्थम् प्रत्याययिष्यामि इति जातिशब्दः प्रयुज्यते ।

२१ - ३२ - अनेकार्थाश्रयत्वात् च वीप्सायाः । अनेकार्थाश्रया च पुनः वीप्सा ।

२२ - ३२ - अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति वीप्सा प्रयुज्यते ।

२३ - ३२ - एकार्थत्वात् जातेः अनेकार्थाश्रयत्वात् च वीप्सायाः जात्याख्यायाम् द्विर्वचनम् न भविष्यति ।

२४ - ३२ - निवर्तकत्वाद्वा । अथ वा न अनेन द्विर्वचनम् निर्वर्त्यते ।

२५ - ३२ - किम् तर्हि अद्विर्वचनम् अनेन निवर्त्यते ।

२६ - ३२ - यावन्तः ते अर्थाः तावताम् शब्दानाम् प्रयोगः प्राप्नोति ।

२७ - ३२ - तत्र अनेन निवृत्तिः क्रियते ।

२८ - ३२ - नित्यवीप्सयोः अर्थयोः द्वे एव शब्दरूपे प्रयोक्तव्ये न अतिबहु प्रयोक्तव्यम् इति ।

२९ - ३२ - सर्वपदसगतिग्रहणानर्थक्यम् च अर्थाभिधाने द्विर्वचनविधानात् । सर्वग्रहणम् च अनर्थकम् ।

३० - ३२ - किम् कारणम् ।

३१ - ३२ - सर्वस्य एव हि द्विर्वचनेन अर्थः गम्यते न अवयवस्य ।

३२ - ३२ - पदग्रहणम् च अनर्थकम् पदस्य एव हि द्विर्वचनेन अर्थः गम्यते न अगतिकस्य

१ - २७ - किम् पुनः इदम् वीप्सायाम् सर्वम् अभिधीयते आहोस्वित् एकम् ।

२ - २७ - कः च अत्र विशेषः ।

३ - २७ - वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः ।

४ - २७ - वीप्सायाम् सर्वाभिधाने वचनम् न सिध्यति ।

५ - २७ - ग्रामः ग्रामः ।

६ - २७ - जनपदः जनपदः ।

७ - २७ - बहवः ते अर्थाः तत्र बहुषुबहुवचनम् इति बहुवचनम् प्राप्नोति ।

८ - २७ - अस्तु तर्हि एकम् ।

९ - २७ - एकाभिधाने असर्वद्रव्यगतिः । एकाभिधाने सर्वद्रव्यगतिः न सिध्यति ।

१० - २७ - अस्तु तर्हि सर्वम् ।

११ - २७ - ननु च उक्तम् वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः इति ।

१२ - २७ - न वा पदार्थत्वात् । न वा एषः दोषः ।

१३ - २७ - किम् कारणम् ।

१४ - २७ - पदार्थत्वात् ।

१५ - २७ - पदस्य अर्थः वीप्सा ।

१६ - २७ - सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् ।

१७ - २७ - यत् तर्हि प्रातिपदिकम् दृषत् दृषत् समित् समित् इति ।

१८ - २७ - एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् ।

१९ - २७ - अपर आह ।

२० - २७ - न वा पदार्थत्वात् ।

२१ - २७ - न वा एषः दोषः ।

२२ - २७ - किम् कारणम् ।

२३ - २७ - पदार्थत्वात् ।

२४ - २७ - पदस्य अर्थः वीप्सा सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् ।

२५ - २७ - यत् तर्हि प्रातिपदिकम् ।

२६ - २७ - दृषत् दृषत् समित् समित् इति ।

२७ - २७ - एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम्

१ - २१ - अथ इह कथम् भवितव्यम् ।

२ - २१ - पचति पचतितराम् तिष्ठति ।

३ - २१ - आहोस्वित् पचतितराम् पचतितराम् तिष्ठति इति ।

४ - २१ - पचति पचतितराम् तिष्ठतीति भवितव्यम् ।

५ - २१ - कथम् ।

६ - २१ - द्विर्वचनम् क्रियताम् आतिशायिकः इति द्विर्वचनम् भविष्यति विप्रतिषेधेन ।

७ - २१ - इह अपि तर्हि आतिशायिकात् द्विर्वचनम् स्यात् ।

८ - २१ - आद्यतरम् आद्यतरम् आनय इति ।

९ - २१ - अस्ति अत्र विशेषः ।

१० - २१ - अन्तरङ्गः आतिशायिकः ।

११ - २१ - का अन्तरङ्गता ।

१२ - २१ - ङ्याप्प्रातिपदिकात् आतिशायिकः पदस्य द्विर्वचनम् ।

१३ - २१ - आतिशायिकः अपि न अन्तरङ्गः ।

१४ - २१ - कथम् ।

१५ - २१ - समर्थात् तद्धितः असौ उत्पद्यते सामर्थ्यम् च सुबन्तेन ।

१६ - २१ - अथ वा स्पर्धायाम् आतिशायिकः विधीयते न च अन्तरेण प्रतियोगिनम् स्पर्धा गम्यते ।

१७ - २१ - एवम् तर्हि इह द्वौ अर्थौ वक्तव्यौ नित्यवीप्से च अतिशयः च न च एकस्य प्रयोक्तुः अनेकम् अर्थम् युगपत् वक्तुम् सम्भवः अस्ति ।

१८ - २१ - तत् एतत् प्रयोक्तरि अधीनम् भवति ।

१९ - २१ - एतस्मिन् च प्रयोक्तरि अधीने क्व चित् का चित् प्रसृततरा गतिः भवति ।

२० - २१ - इह तावत् पचति पचतितराम् तिष्ठति इति एषा प्रसृततरा गतिः यत् नित्यम् उक्त्वा अतिशयः उच्यते ।

२१ - २१ - इह इदानीम् आद्यतरम् आद्यतरम् आनय इति एषा प्रसृततरा गतिः यत् अतिशयम् उक्त्वा वीप्साद्विर्वचनम् उच्यते

१ - १२ - परेः असमासे ।

२ - १२ - परेः असमासे इति वक्तव्यम् ।

३ - १२ - इह मा भूत् ।

४ - १२ - परित्रिगर्तम् वृष्टः देवः ।

५ - १२ - तत् तर्हि वक्तव्यम् ।

६ - १२ - न वक्तव्यम् ।

७ - १२ - परेः वर्जने इति उच्यते न च अत्र परिः वर्जने वर्तते ।

८ - १२ - कः तर्हि ।

९ - १२ - समासः ।

१० - १२ - परेर्वर्जने वावचनम् । परेर्वर्वने वा इति वक्तव्यम् ।

११ - १२ - परि त्रिगर्तेभ्यः वृष्टः देवः ।

१२ - १२ - परि परि त्रिगर्तेभ्यः वृष्टः देवः

१ - ११ - असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशानर्थक्यम् ।

२ - ११ - असूया कुत्सनम् इति एकः अर्थः ।

३ - ११ - कोपः भर्त्सनम् इति एकः अर्थः ।

४ - ११ - असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशः अनर्थकः ।

५ - ११ - न हि अनसूयन् कुत्सयति न च अपि अकुपितः भर्त्सयते ।

६ - ११ - ननु च भोः अकुपिताः अपि दृश्यन्ते दारकान् भर्त्सयमानाः ।

७ - ११ - अन्ततः ते ताम् शरीराकृतिम् कुर्वन्ति या कुपितस्य भवति ।

८ - ११ - एवम् तर्हि आह ।

९ - ११ - सामृतैः पाणिभिः घ्नन्ति गुरवः न विषोकितैः ।

१० - ११ - लाडनाश्रयिणः दोषाः ताडनाश्रयिणः गुणाः ।

११ - ११ - एकम् बहुव्रीहिवत्

१ - ११ - इह कस्मात् बहुव्रीहिवद्भावः न भवति ।

२ - ११ - एकः इति ।

३ - ११ - एकस्य द्विर्वचनसम्बन्धेन बहुव्रीहिवद्भावः उच्यते न च अत्र द्विर्वचनम् पश्यामः ।

४ - ११ - एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः ।

५ - ११ - एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः कर्तव्यः ।

६ - ११ - द्विर्वचनम् अपि हि अत्र कस्मात् न भवति ।

७ - ११ - तस्मात् वाच्यम् अस्मिन् अर्थे द्वे भवतः बहुव्रीहिवत् च इति ।

८ - ११ - न वा वीप्साधिकारात् । न वा वक्तव्यम् ।

९ - ११ - किम् कारणम् ।

१० - ११ - वीप्साधिकारात् ।

११ - ११ - नित्यवीप्सयोः इति वर्तते

१ - २२ - अथ बहुव्रीहिवत्त्वे किम् प्रयोजनम् ।

२ - २२ - बहुव्रीहिवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावौ ।

३ - २२ - सुब्लोपः ।

४ - २२ - एकैकम् ।

५ - २२ - पुंवद्भावः ।

६ - २२ - गतगता ।

७ - २२ - यदि एवम् सर्वनामस्वरसमासान्तेषु दोषः । सर्वनामस्वरसमासान्तेषु दोषः भवति ।

८ - २२ - सर्वनामविधौ दोषः भवति ।

९ - २२ - एकैकस्मै ।

१० - २२ - नबहुव्रीहौ इति प्रतिषेधः प्राप्नोति ।

११ - २२ - सर्वनाम ।

१२ - २२ - स्वर ।

१३ - २२ - नन सुसु ।

१४ - २२ - नञ्सुभ्याम् इति एषः स्वरः प्राप्नोति ।

१५ - २२ - स्वर ।

१६ - २२ - समासान्त ।

१७ - २२ - ऋगृक् पूःपूः ।

१८ - २२ - ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति ।

१९ - २२ - सर्वनामविधौ तावत् न दोषः ।

२० - २२ - उक्तम् तत्र बहुव्रीहिग्रहणस्य प्रयोजनम् बहुव्रीहिः एव यः बुहुव्रीहिः तत्र प्रतिषेधः यथा स्यात् बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति ।

२१ - २२ - स्वरसमासान्तयोः अपि प्रकृतम् समासग्रहणम् अनुवर्तते तेन एव बहुव्रीहिम् विशेषयिष्यामः ।

२२ - २२ - समासः यः बहुव्रीहिः इति

१ - ८ - कर्मधारयवत्त्वे कानि प्रयोजनानि ।

२ - ८ - कर्मधारयवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावान्तोदात्तत्वानि ।

३ - ८ - सुब्लोपः ।

४ - ८ - पटुपटुः ।

५ - ८ - पुंवद्भावः ।

६ - ८ - पटुपट्वी ।

७ - ८ - अन्तोदात्तत्वम् ।

८ - ८ - पटुपटुः

१ - १८ - गुणवचनस्य इति किमर्थम् ।

२ - १८ - अग्निः माणवकः ।

३ - १८ - गौः वाहीकः ।

४ - १८ - प्रकारे सर्वेषाम् गुणवचनत्वात् सर्वप्रसङ्गः ।

५ - १८ - सर्वे हि शब्दाः प्रकारे वर्तमानाः गुणवचनाः सम्पद्यन्ते तेन इह अपि प्राप्नोति ।

६ - १८ - अग्निः माणवकः ।

७ - १८ - गौः वाहीकः इति ।

८ - १८ - सिद्धम् तु प्रकृत्यर्थविशेषणत्वात् । सिद्धम् एतत् ।

९ - १८ - कथम् ।

१० - १८ - प्रकृत्यर्थविशेषणत्वात् ।

११ - १८ - प्रकृत्यर्थः विशेष्यते ।

१२ - १८ - न एवम् विज्ञायते प्रकारे गुणवचनस्य इति ।

१३ - १८ - कथम् तर्हि ।

१४ - १८ - गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्य इति ।

१५ - १८ - अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः गुणवचनः इति ।

१६ - १८ - कः च साधीयः ।

१७ - १८ - यः प्रकारे च प्राक् च प्रकारात् ।

१८ - १८ - अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते ते एवम् विज्ञास्यामः प्राक् प्रकारात् यः गुणवचनः इति

१ - ४५ - [आनुपूर्व्ये ।] आनुपूर्व्ये द्वे भवतः इति वक्तव्यम् ।

२ - ४५ - मूले मूले स्थूलाः ।

३ - ४५ - अग्रे अग्रे सूक्ष्माः ।

४ - ४५ - स्वार्थे अवधार्यमाणे अनेकस्मिन् । स्वार्थे अवधार्यमाणे अनेकस्मिन् द्वे भवतः इति वक्तव्यम् ।

५ - ४५ - अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि ।

६ - ४५ - अवधार्यमाणे इति किमर्थम् ।

७ - ४५ - अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि द्वौ देहि त्रीन् देहि ।

८ - ४५ - अनेकस्मिन् इति किमर्थम् ।

९ - ४५ - अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि ।

१० - ४५ - माषम् एव देहि ।

११ - ४५ - किम् पुनः कारणम् न सिध्यति ।

१२ - ४५ - अनवयवाभिधानम् वीप्सार्थः इति उच्यते अवयवाभिधानम् च अत्र गम्यते ।

१३ - ४५ - आतः च अवयवाभिधानम् यः हि उच्यते अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा शेषम् पृच्छति किम् अनेन क्रियताम् इति. यः पुनः उच्यते इमम् कार्षापणम् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा तूष्णीम् आस्ते ।

१४ - ४५ - [चापले ।] चापले द्वे भवतः इति वक्तव्यम् ।

१५ - ४५ - अहिः अहिः बुध्यस्व बुध्यस्व ।

१६ - ४५ - न च अवश्यम् द्वे एव ।

१७ - ४५ - यावद्भिः शब्दैः सः अर्थः गम्यते तावन्तः प्रयोकव्याः ।

१८ - ४५ - अहिः अहिः अहिः बुध्यस्व बुध्यस्व बुध्यस्व इति ।क्रियासमभिहारे । क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।

१९ - ४५ - सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

२० - ४५ - [आभीक्ष्ण्ये ।] आभीक्ष्ण्ये द्वे भवतः इति वक्तव्यम् ।

२१ - ४५ - भुक्त्वा भुक्त्वा व्रजति ।

२२ - ४५ - भोजम् भोजम् व्रजति ।

२३ - ४५ - डाचि च । डाचि च द्वे भवतः इति वक्तव्यम् ।

२४ - ४५ - पटपटायति मटमटायति ।

२५ - ४५ - पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् । पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् द्वे भवतः इति वक्तव्यम् ।

२६ - ४५ - पूर्वम् पूर्वम् पुष्प्यन्ति ।

२७ - ४५ - प्रथमम् प्रथमम् पच्यन्ते ।

२८ - ४५ - डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे । डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे द्वे भवतः इति वक्तव्यम् ।

२९ - ४५ - उभौ इमौ आढ्यौ कतरा कतरा अनयोः आढ्यता ।

३० - ४५ - सर्वे इमे आढ्याः कतमा कतमा एषाम् इति ।

३१ - ४५ - कर्मव्यतिहारे सर्वनाम्नः समासवत् च बहुलम् यदा न समासवत् प्रथमैकवचनम् तदा पूर्वपदस्य । कर्मव्यतिहारे सर्वनाम्नः द्वे भवतः इति वक्तव्यम् समासवत् च बहुलम् ।

३२ - ४५ - यदा न समासवत् प्रथमैकवचनम् भवति तदा पूर्वपदस्य ।

३३ - ४५ - अन्योऽन्यम् इमे ब्राह्मणाः भोजयन्ति ।

३४ - ४५ - अन्योऽन्यस्य भोजयन्ति ।

३५ - ४५ - इतरेतरम् भोजयन्ति ।

३६ - ४५ - इतरेतरस्य भोजयन्ति ।

३७ - ४५ - स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः । स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः वक्तव्यः ।

३८ - ४५ - अन्योऽन्यम् इमे ब्राह्मण्यौ भोजयतः ।

३९ - ४५ - अन्योऽन्याम् भोजयतः ।

४० - ४५ - इतरेतरम् भोजयतः ।

४१ - ४५ - इतरेतराम् भोजयतः ।

४२ - ४५ - अन्योऽन्यम् इमे ब्राह्मणकुले भोजयतः ।

४३ - ४५ - अन्योऽन्याम् भोजयतः ।

४४ - ४५ - इतरेतरम् भोजयतः ।

४५ - ४५ - इतरेतराम् भोजयतः

१ - ८ - अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् ।

२ - ८ - अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् कर्तव्यम् ।

३ - ८ - द्वन्द्वम् स्कन्दविशाखौ ।

४ - ८ - द्वन्द्वम् नारदपर्वतौ ।

५ - ८ - अत्यन्तसहचरिते इति किमर्थम् ।

६ - ८ - द्वौ युधिष्ठिरार्जुनौ ।

७ - ८ - लोकविज्ञाते इति किमर्थम् ।

८ - ८ - द्वौ देवदत्तयज्ञदत्तौ

१ - ५ - अथ द्वन्द्वम् इति किम् निपात्यते ।

२ - ५ - द्वन्द्वम् इति पूर्वपदस्य च अम्भावः उत्तरपदस्य च अत्वम् नपुंसकत्वम् च ।

३ - ५ - पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वम् नपुंसकत्वम् च ।

४ - ५ - उक्तम् वा । किम् उक्तम् ।

५ - ५ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति तत्र नपुंसकत्वम् अनिपात्यम्

१ - २१ - आ कुतः पदाधिकारः ।

२ - २१ - पदाधिकारः प्राक् अपदान्ताधिकारात् ।

३ - २१ - अपदान्तस्यमूर्धन्यः इति अतः प्राक् पदाधिकारः ।

४ - २१ - अथ पदात् इति अधिकारः आ कुतः ।

५ - २१ - पदात् प्राक् सुपि कुत्सनात् । पदात् इति अधिकारः प्राक् सुपि कुत्सनात् ।

६ - २१ - कुत्सने च सुप्य् अगोत्रादौ इति अतः प्राक् ।

७ - २१ - यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् । यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् कर्तव्यः ।

८ - २१ - इह वचने हि अपदान्तस्य अप्राप्तिः । इह हि क्रियमाणे अपदान्तस्य अप्राप्तिः स्यात् ।

९ - २१ - उदात्तस्वरितयोर् यणःस्वरितः अनुदात्तस्य इति इह एव स्यात् कुमार्यौ किशोर्यौ इह न स्यात् कुमार्यः किशोर्यः ।

१० - २१ - एकादेशे उदात्तेनोदात्तः इह एव स्यात् वृक्षौ प्लक्षौ इह न स्यात् वृक्षाः प्लक्षाः ।

११ - २१ - न वा पदाधिकारस्य विशेषणत्वात् । न वा ऊर्ध्वम् पदाधिकारात् कर्तव्यः यणेकादेशस्वरः ।

१२ - २१ - किम् कारणम् ।

१३ - २१ - पदाधिकारस्य विशेषणत्वात् ।

१४ - २१ - पदस्य इति न एषा स्थानषष्ठी ।

१५ - २१ - का तर्हि ।

१६ - २१ - विशेषणषष्ठी ।

१७ - २१ - किम् वक्तव्यम् एतत् ।

१८ - २१ - न हि ।

१९ - २१ - कथम् अनुच्यमानम् गंस्यते ।

२० - २१ - प्रत्याख्यायते स्थनषष्ठी ।

२१ - २१ - अन्तग्रहणात् वा नलोपे । अथ वा यत् अयम् नलोपःप्रातिपदिकान्तस्य इति अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः विशेषणषष्ठी एषा न स्थानषष्ठी इति

१ - ३४ - सर्ववचनम् किमर्थम् ।

२ - ३४ - सर्ववचनम् अनादेः अनुदात्तार्थम् ।

३ - ३४ - सर्वग्रहणम् क्रियते अनादेः अपि अनुदात्तत्वम् यथा स्यात् इति ।

४ - ३४ - तिङतिङः इह एव स्यात् देवदत्तः पचति इति इह न स्यात् देवदत्तः करोति इति ।

५ - ३४ - सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् लुटि प्रतिषेधात् सिद्धम् ।

६ - ३४ - सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् तत् न ।

७ - ३४ - किम् कारणम् ।

८ - ३४ - लुटि प्रतिषेधात् सिद्धम् ।

९ - ३४ - यत् अयम् लुटि प्रतिषेधम् शास्ति नलुट् इति तत् ज्ञापयति आचार्यः अनादेः अपि अनुदात्तत्वम् भवति इति ।

१० - ३४ - कथम् कृत्वा ज्ञापकम् ।

११ - ३४ - न हि लुडन्तम् आद्युदात्तम् अस्ति ।

१२ - ३४ - अलोऽन्त्यविधिप्रसङ्गः तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य विधिः प्राप्नोति ।

१३ - ३४ - यत्र हि आदिविधिः न अस्ति अलोऽन्त्यविधिना तत्र भवितव्यम् ।

१४ - ३४ - तत्र कः दोषः ।

१५ - ३४ - तिङतिङः इति इह एव स्यात् देवदत्तयज्ञदत्तौ कुरुतः इह न स्यात् देवदत्तः करोति इति ।

१६ - ३४ - लृटि प्रतिषेधात् सिद्धम् । यत् अयम् लृटि प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनन्त्यस्य अपि अनुदात्तत्वम् भवति इति ।

१७ - ३४ - कथम् कृत्वा ज्ञापकम् ।

१८ - ३४ - न हि लृडन्तम् अन्तोदात्तम् अस्ति ।

१९ - ३४ - ननु च इदम् अस्ति भोक्ष्ये इति ।

२० - ३४ - उक्तम् वा । किम् उक्तम् ।

२१ - ३४ - न वा पदाधिकारस्य विशेषणत्वात् इति ।

२२ - ३४ - इदम् तर्हि प्रयोजनम् युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति वाम्नौ आदयः सविभक्तिकस्य यथा स्युः इति ।

२३ - ३४ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - ३४ - पदस्य इति हि वर्तते विभक्त्यन्तम् च पदम् तत्र अन्तरेण सर्वग्रहणम् सविभक्तिकस्य भविष्यति ।

२५ - ३४ - भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति ।

२६ - ३४ - ग्रामः वाम् दीयते ।

२७ - ३४ - ग्रामः नौ दीयते ।

२८ - ३४ - जनपदः वाम् दीयते ।

२९ - ३४ - जनपदः नौ दीयते ।

३० - ३४ - ननु च स्थग्रहणम् क्रियते तेन सविभक्तिकस्य एव भविष्यति ।

३१ - ३४ - अस्ती अन्यत् स्थग्रहणस्य प्रयओजनम् ।

३२ - ३४ - किम् ।

३३ - ३४ - श्रूयमाणविभकिविशेषणम् यथा विज्ञायेत ।

३४ - ३४ - यत्र विभक्तिः श्रूयते तत्र यथा स्यात् इह मा भूत् इति युष्मत्पुत्रः ददाति इति अस्मत्पुत्रः ददाति इति

१ - १२ - समानवाक्ये निघातयुष्मदस्मदादेशाः ।

२ - १२ - समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।

३ - १२ - किम् प्रयोजनम् ।

४ - १२ - नानावाक्ये मा भूवन् इति ।

५ - १२ - अयम् दण्डः हर अनेन ।

६ - १२ - ओदनम् पच तव भविष्यति मम भविष्यति ।

७ - १२ - पश्यार्थैः च प्रतिषेधः । पश्यार्थैः च प्रतिषेधः समानवाक्ये इति प्रकृत्य वक्तव्यः ।

८ - १२ - इतरथा हि यत्र एव पश्यार्थानाम् युष्मदस्मदी साधनम् तत्र प्रतिषेधः स्यात् ।

९ - १२ - ग्रामः त्वाम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।

१० - १२ - ग्रामः माम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः. इह न स्यात् ।

११ - १२ - ग्रामः तव स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।

१२ - १२ - ग्रामः मम स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः

१ - २६ - युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे ।

२ - २६ - युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे इति वक्तव्यम् ।

३ - २६ - ग्रामे कम्बलः ते स्वम् ।

४ - २६ - ग्रामे कम्बलः तव स्वम् ।

५ - २६ - ग्रामे कम्बलः मे स्वम् ।

६ - २६ - ग्रामे कम्बलः मम स्वम् ।

७ - २६ - अनन्वादेशे इति किमर्थम् ।

८ - २६ - अथो ग्रामे कम्बलः ते स्वम् ।

९ - २६ - अथो ग्रामे कम्बलः मे स्वम् ।

१० - २६ - अपरः आह सर्वे एव वाम्नावादयः अनन्वादेशे विभाषा वक्तव्याः ।

११ - २६ - कम्बलः ते स्वम् ।

१२ - २६ - कम्बलः तव स्वम् ।

१३ - २६ - कम्बलः मे स्वम् ।

१४ - २६ - कम्बलः मम स्वम् ।

१५ - २६ - अनन्वादेशे इति किमर्थम् ।

१६ - २६ - अथो कम्बलः ते स्वम् ।

१७ - २६ - अथो कम्बलः मे स्वम् ।

१८ - २६ - न तर्हि इदानीम् इदम् वक्तव्यम् सपूर्वायाः प्रथमायाः विभाषा इति ।

१९ - २६ - वक्तव्यम् च ।

२० - २६ - किम् प्रयोजनम् ।

२१ - २६ - अन्वादेशार्थम् ।

२२ - २६ - अन्वादेशे विभाषा यथा स्यात् ।

२३ - २६ - अथो ग्रामे कम्बलः ते स्वम् ।

२४ - २६ - अथो ग्रामे कम्बलः तव स्वम् ।

२५ - २६ - अथो ग्रामे कम्बलः मे स्वम् ।

२६ - २६ - अथो ग्रामे कम्बलः मम स्वम्

१ - ११ - किम् इदम् तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् ।

२ - ११ - कुत्सनाभीक्ष्ण्ययोः अर्थयोः गोत्रादीनि भवन्ति तिङः पराणि अनुदात्तानि इति ।

३ - ११ - आहोस्वित् अनुदात्तविशेषणम् ।

४ - ११ - तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः अर्थयोः अनुदात्तानि भवन्ति इति ।

५ - ११ - तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् ।

६ - ११ - तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् क्रियते पाठविशेषणम् ।

७ - ११ - पाठः विशेष्यते ।

८ - ११ - अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् । अनुदात्तविशेषणे हि सति अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् कर्तव्यम् स्यात् ।

९ - ११ - चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः इति कुत्सनाभीक्ष्ण्ययोः इति वक्तव्यम् स्यात् ।

१० - ११ - अनुदात्तग्रहणम् वा । अथ वा यानि अनुदात्तानि इति वक्तव्यम् स्यात् ।

११ - ११ - तस्मात् सुष्ठु उच्यते तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् अनुदात्तग्रहणम् वा इति

१ - ७ - अतिङः इति किमर्थम् ।

२ - ७ - पचति करोति ।

३ - ७ - अतिङ्वचनम् अनर्थकम् समानवाक्याधिकारात् ।

४ - ७ - अतिङ्वचनम् अनर्थकम् ।

५ - ७ - किम् कारणम् ।

६ - ७ - समानवाक्याधिकारात् ।

७ - ७ - समानवाक्ये इति वर्तते न च समानवाक्ये द्वे तिङन्ते स्तः

१ - १३ - निपातैः इति किमर्थम् ।

२ - १३ - यत् कूजति शकटम् ।

३ - १३ - यती कूजति शकटी ।

४ - १३ - यन् रथः कूजति ।

५ - १३ - निपातैः इति शक्यम् अवक्तुम् ।

६ - १३ - कस्मात् न भवति ।

७ - १३ - यत् कूजति शकटम् ।

८ - १३ - यती कूजति शकटी ।

९ - १३ - यन् रथः कूजति ।

१० - १३ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

११ - १३ - न एषा परिभाषा इह शक्या विज्ञातुम् ।

१२ - १३ - इह हि दोषः स्यात् ।

१३ - १३ - यावद्यथाभ्याम् इह न स्यात् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत्

१ - ६ - चण् णिद्विशिष्टः चेदर्थे ।

२ - ६ - चण् णिद्विशिष्टः चेदर्थे द्रष्टव्यः ।

३ - ६ - अयम् च वै मरिष्यति ।

४ - ६ - अयम् चेत् मरिष्यति ।

५ - ६ - न च पितृभ्यः पूर्वेभ्यः दास्यति ।

६ - ६ - अप्रायश्चित्तिकृतौ च स्याताम्

१ - ८ - अनेकम् इति किम् उदाहरणम् ।

२ - ८ - यदा हि असौ मत्तः भवति अथ यत् तपति ।

३ - ८ - न एतत् अस्ति ।

४ - ८ - एकम् अत्र हियुक्तम् अपरम् यद्युक्तम् ततः उभयोः अपि अनिघातः ।

५ - ८ - इदम् तर्हि ।

६ - ८ - अनृतम् हि मत्तः वदति पाप्मा एनम् विपुनाति ।

७ - ८ - एकम् खलु अपि ।

८ - ८ - अग्निः हि पूर्वम् उदजयत् तम् इन्द्रः अनूदजयत् इति

१ - ६ - पूजायाम् इति वर्तमाने पुनः पूजाग्रहणम् किमर्थम् ।

२ - ६ - अनिघातप्रतिषेधाभिसम्बद्धम् तत् ।

३ - ६ - यदि तत् अनुवर्तेत इह अपि अनिघातप्रतिषेधः प्रसज्येत ।

४ - ६ - इष्यते च अत्र निघातप्रतिषेधः ।

५ - ६ - यथा पुनः तत्र यावत् यथा इति एताभ्याम् अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्यते इह इदानीम् केन अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्येत ।

६ - ६ - इह अपि यद्वृत्तान्नित्यम् इति एवमादिभिः

१ - ५ - किमर्थम् इदम् उच्यते न गत्यर्थलोटा लृट् इति एव सिद्धम् ।

२ - ५ - नियमार्थः अयम् आरम्भः ।

३ - ५ - एहि मन्ये प्रहासे एव यथा स्यात् ।

४ - ५ - क्व मा भूत् ।

५ - ५ - एहि मन्ये रथेन यास्यसि इति

१ - २३ - किम् इदम् अपूर्वग्रहणम् जातुविशेषणम् ।

२ - २३ - जातुशब्दात् अपूर्वात् तिङन्तम् इति ।

३ - २३ - आहोस्वित् तिङन्तविशेषणम् ।

४ - २३ - जातुशब्दात् तिङन्तम् अपूर्वम् इति ।

५ - २३ - जातुविशेषणम् इति आह ।

६ - २३ - कथम् ज्ञायते ।

७ - २३ - यत् अयम् किंवृत्तञ्चचिदुत्तरम् इति आह ।

८ - २३ - कथम् कृत्वा ज्ञापकम् ।

९ - २३ - अत्र अपि अपूर्वम् इति एतत् अनुवर्तते न च अस्ति सम्भवः यत् किंवृत्तम् च चिदुत्तरम् स्यात् तिङन्तम् च अपूर्वम् ।

१० - २३ - अत्र अपि तिङन्तविशेषणम् एव ।

११ - २३ - कथम् ।

१२ - २३ - किंवृत्तात् चिदुत्तरात् तिङन्तम् अपूर्वम् इति ।

१३ - २३ - यत् तर्हि आहोउताहोचानन्तरम् इति अनन्तरग्रहणम् करोति ।

१४ - २३ - एतस्य अपि अस्ति वचने प्रयोजनम् ।

१५ - २३ - किम् ।

१६ - २३ - शेषप्रक्ल्̥प्त्यर्थम् एतत् स्यात् ।

१७ - २३ - शेषेविभाषा कः च शेषः ।

१८ - २३ - सान्तरम् शेषः इति ।

१९ - २३ - अन्तरेण अपि अनन्तरग्रहणम् प्रक्ल्̥प्तः शेषः ।

२० - २३ - कथम्. अपूर्वः इति वर्तते ।

२१ - २३ - शेषे विभाषा ।

२२ - २३ - कः च शेषः ।

२३ - २३ - सपूर्वः शेषः इति

१ - १७ - लृटः प्रकृतिभावे कर्तुः अन्यत्वे उपसङ्ख्यानम् कारकान्यत्वात् ।

२ - १७ - लृटः प्रकृतिभावे कर्तुः यत् कारकम् अन्यत् तस्य अन्यत्वे उपसङ्ख्यानम् कर्तव्यम् ।

३ - १७ - आगच्छ देवदत्त ग्रामम् ओदनम् भोक्ष्यसे ।

४ - १७ - किम् पुनः कारणम् न सिध्यति ।

५ - १७ - कारकान्यत्वात् ।

६ - १७ - न चेत् कारकम् सर्वान्यत् इति उच्यते सर्वान्यत् च अत्र कारकम् ।

७ - १७ - किम् पुनः कारणम् सर्वान्यत्प्रतिषेधेन आश्रीयते न पुनः असर्वान्यद्विधानेन आश्रीयेत ।

८ - १७ - कर्ता च अत्र असर्वान्यः ततः कर्तृसामान्यात् सिद्धम् ।

९ - १७ - कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे अन्यसामान्ये प्रकृतिभावप्रसङ्गः । कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे कर्तृभेदे अन्यस्मिन् कारकसामान्ये प्रकृतिभावः प्राप्नोति ।

१० - १७ - आहर देवदत्त शालीन् यज्ञदत्त एनान् भोक्ष्यते ।

११ - १७ - एवम् तर्हि व्यक्तम् एव पठितव्यम् न चेत् कर्ता सर्वान्यः इति ।

१२ - १७ - न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके । न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके इच्छन्ति ।

१३ - १७ - उह्यन्ताम् देवदत्तेन शालयः यज्ञदत्तेन भोक्ष्यन्ते इति प्राप्नोति भोक्ष्यन्ते इति च इष्यते ।

१४ - १७ - सिद्धम् तु तिङोः एकद्रव्याभिधानात् । सिद्धम् एतत् ।

१५ - १७ - कथम् ।

१६ - १७ - तिङोः एकद्रव्याभिधानात् ।

१७ - १७ - यत्र तिङ्भ्याम् एकम् द्रव्यम् अभिधीयते तत्र इति वक्तव्यम्

१ - २२ - कस्य अयम् प्रतिषेधः ।

२ - २२ - आमः एकान्तरे ऐकश्रुत्यप्रतिषेधः ।

३ - २२ - आमः एकान्तरे ऐकश्रुत्यस्य अयम् प्रतिषेधः ।

४ - २२ - कथम् पुनः अप्रकृतस्य असंशब्दितस्य ऐकश्रुत्यस्य प्रतिषेधः शक्यः विज्ञातुम् ।

५ - २२ - अनन्तिके इति उच्यते ।

६ - २२ - अनन्तिकम् च किम् ।

७ - २२ - दूरम् ।

८ - २२ - दूरात् सम्बुद्धौ एकश्रुतिः उच्यते ।

९ - २२ - अस्ति प्रयोजनम् एतत् ।

१० - २२ - किम् तर्हि इति ।

११ - २२ - निघातप्रसङ्गः तु । निघातः तु प्राप्नोति ।

१२ - २२ - आम् भोः देवदत्त३ ।

१३ - २२ - आमन्त्रितस्य अनुदात्तत्वम् प्राप्नोति ।

१४ - २२ - सिद्धम् तु प्रतिषेधाधिकारे प्रतिषेधवचनात् । सिद्धम् एतत् ।

१५ - २२ - कथम् ।

१६ - २२ - प्रतिषेधाधिकारे प्रतिषेधवचनसामर्थ्यात् निघातः न भविष्यति ।

१७ - २२ - न एव वा पुनः अत्र ऐकश्रुत्यम् प्राप्नोति ।

१८ - २२ - किम् कारणम् ।

१९ - २२ - अनन्तिके इति उच्यते अन्यत् च दूरम् अन्यत् अनन्तिकम् ।

२० - २२ - यदि एवम् प्लुतः अपि तर्हि न प्राप्नोति प्लुतः अपि हि दूरात् इति उच्यते ।

२१ - २२ - इष्टम् एव एतत् सङ्गृहीतम् ।

२२ - २२ - आम् भोः देवदत्त इति एव भवितव्यम्

१ - १७ - किमर्थम् इदम् उच्यते ।

२ - १७ - यदादैः एव सर्वैः एतैः अनिघातकारणैः योगे अनिघातः उच्यते ।

३ - १७ - यथा एव पूर्वैः योगे एवम् परैः अपि ।

४ - १७ - अतः उत्तरम् पठति ।

५ - १७ - यद्धितुपरस्य छन्दसि अनिघातः अन्यपरप्रतिषेधार्थः ।

६ - १७ - यद्धितुपरस्य छन्दसि अनिघातः उच्यते अन्यपरप्रतिषेधार्थः ।

७ - १७ - अन्यपरस्य प्रतिषेधः मा भूत् इति ।

८ - १७ - जाये स्वः रोहाव एहि ।

९ - १७ - अथ इदानीम् रोहाव इति अनेन युक्ते एहि इति अस्य कस्मात् न भवति ।

१० - १७ - लोट् च गत्यर्थलोटा युक्तः इति प्राप्नोति ।

११ - १७ - न रुहिः गत्यर्थः ।

१२ - १७ - कथम् ज्ञायते ।

१३ - १७ - यत् अयम् गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च इति पृथक् रुहिग्रहणम् करोति ।

१४ - १७ - यदि न रुहिः गत्यर्थः आरोहन्ति हस्तिनम् मनुष्याः आरोहयति हस्ती स्थलम् मनुष्यान् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ इति कर्मसञ्ज्ञा न प्राप्नोति ।

१५ - १७ - तस्मात् न एतत् शक्यम् वक्तुम् न रुहिः गत्यर्थः इति ।

१६ - १७ - कस्मात् तर्हि रोहाव इति अनेन युक्ते एहि इति अस्य न भवति ।

१७ - १७ - छान्दसत्वात्

१ - ९ - आम्रेडितेषु अगतेः सगतिः अपि तिङ् इति अत्र गतिग्रहणे उपसर्गग्रहङम् ।

२ - ९ - आम्रेडितेषु अगतेः सगतिरपितिङ् इति अत्र गतिग्रहणे उपसर्गग्रहणम् द्रष्टव्यम् ।

३ - ९ - इह मा भूत् ।

४ - ९ - शुक्लीकरोति चन ।

५ - ९ - क्र्ष्णीकरोति चन ।

६ - ९ - यत्काष्ठा शुक्लीकरोति ।

७ - ९ - यत्काष्ठा कृष्णीकरोति ।

८ - ९ - अपर आह ।

९ - ९ - सर्वत्र एव आष्टमिके गतिग्रहणे उपसर्गग्रहणम् द्रष्तव्यम् गतिर्गतौतिङिचोदात्तवतिवर्जम् इति

१ - १३ - यद्वृत्तात् इति उच्यते तत्र इदम् न सिध्यति यः पचति यम् पचति इति ।

२ - १३ - वृत्तग्रहणेन तद्विभक्त्यन्तम् प्रतीयात् ।

३ - १३ - कथम् यतरः पचति यतमः पचति इति ।

४ - १३ - डतरडतमौ च प्रतीयात् ।

५ - १३ - कथम् यदा ददाति इति ।

६ - १३ - एषः अपि विभक्तिसञ्ज्ञः ।

७ - १३ - कथम् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् ।

८ - १३ - यावद्यथाभ्याम् इति एवम् भविष्यति ।

९ - १३ - कथम् यद्र्यङ् वायुः पवते यत्कामाः ते जुहुमः ।

१० - १३ - एवम् तर्हि यत् अस्मिन् वर्तते यद्वृत्तम् यद्वृत्तात् इति एवम् भविष्यति ।

११ - १३ - वा याथाकाम्ये ।

१२ - १३ - वा याथाकाम्ये इति वक्तव्यम् ।

१३ - १३ - यत्र क्व चन यजते देवयजने एव यजते

१ - ७ - पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् ।

२ - ७ - पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् कर्तव्यम् ।

३ - ७ - काष्ठादिभ्यः पूजनात् इति वक्तव्यम् ।

४ - ७ - इह मा भूत् ।

५ - ७ - शोभनः अध्यापकः ।

६ - ७ - मलोपवचनम् च । मलोपः च वक्तव्यः ।

७ - ७ - दारुणाध्यापकः दारुणाभिरूपः

१ - १९ - सगतिग्रहणम् किमर्थम् ।

२ - १९ - सगतिग्रहणम् अपदत्वात् ।

३ - १९ - सगतिग्रहणम् क्रियते अपदत्वात् ।

४ - १९ - पदस्य इति वर्तते न हि सगतिकम् पदम् भवति ।

५ - १९ - उत्तरार्थम् च । उत्तरार्थम् च सगतिग्रहणम् क्रियते ।

६ - १९ - कुत्सने च सुपि अगोत्रादौ सगतिः अपि ।

७ - १९ - प्रपचति पूति ।

८ - १९ - अथ अपिग्रहणम् किमर्थम् ।

९ - १९ - अगतिकस्य अपि यथा स्यात् ।

१० - १९ - यत् काष्ठा पचति ।

११ - १९ - न एतत् अस्ति प्रयोजनम् ।

१२ - १९ - सिद्धम् पूर्वेण अगतिकस्य ।

१३ - १९ - न सिध्यति ।

१४ - १९ - मलोपाभिसम्बद्धम् तत् ।

१५ - १९ - यदि तत् अनुवर्तेत इह अपि मलोपः प्रसज्येत ।

१६ - १९ - दारुणम् पचति इति ।

१७ - १९ - उत्तरार्थम् च अपिग्रहणम् क्रियते ।

१८ - १९ - कुत्सने च सुपि अगोत्रादौ अगतिः अपि इति ।

१९ - १९ - पचति पूति इति

१ - १४ - तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् विप्रतिषेधेन ।

२ - १४ - तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् इति एतत् भवति विप्रतिषेधेन ।

३ - १४ - तिङ्निघातस्य अवकाशः ।

४ - १४ - देवदत्तः पचति ।

५ - १४ - पूजनात् पूजितम् अनुदात्तम् इति अस्य अवकाशः ।

६ - १४ - काष्टाध्यापकः ।

७ - १४ - इह उभयम् प्राप्नोति ।

८ - १४ - काष्ठा पचति ।

९ - १४ - पूजनात् पूजितम् इति एतत् भवति विप्रतिषेधेन ।

१० - १४ - कः पुनः अत्र विशेषः तेन वा सति अनेन वा ।

११ - १४ - अयम् अस्ति विशेषः ।

१२ - १४ - सापवादकः सः विधिः अयम् पुनः निरपवादकः ।

१३ - १४ - यदि हि तेन स्यात् इह न स्यात् ।

१४ - १४ - यत् काष्ठा पचति

१ - १३ - सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् ।

२ - १३ - क्रियायाः कुत्सने इति वक्तव्यम् ।

३ - १३ - कर्तुः कुत्सने मा भूत् ।

४ - १३ - पचति पुतिः ।

५ - १३ - पूतिः च चानुबन्धः ।

६ - १३ - पूतिः च चानुबन्धः द्रष्टव्यः ।

७ - १३ - पचति पूति ।

८ - १३ - विभाषितम् च अपि बह्वर्थम् । विभाषितम् च अपि बह्वर्थम् द्रष्टव्यम् ।

९ - १३ - पचन्ति पुति ।

१० - १३ - पचन्ति पुति ।

११ - १३ - सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् ।

१२ - १३ - पूतिः च चानुबन्धः ।

१३ - १३ - विभाषितम् च अपि बह्वर्थम् ।

१ - ३९ - गतौ इति किमर्थम् ।

२ - ३९ - प्रपचति प्रकरोति ।

३ - ३९ - गतेः अनुदात्तत्वे गतिग्रहणानर्थक्यम् तिङि अवधारणात् ।

४ - ३९ - गतेः अनुदात्तत्वे गतिग्रहणम् अनर्थकम् ।

५ - ३९ - किम् कारणम् ।

६ - ३९ - तिङि अवधारणात् ।

७ - ३९ - तिङिच उदात्तवति इति एतत् नियमार्थम् भविष्यति ।

८ - ३९ - तिङि उदात्तवति एव गतिः अनुदात्तः भवति न अन्यत्र इति ।

९ - ३९ - छन्दोर्थम् तर्हि गतिग्रहणम् कर्तव्यम् ।

१० - ३९ - छन्दसि गतौ परतः अनुदात्तत्वम् यथा स्यात् मन्द्रशब्दे मा भूत् ।

११ - ३९ - अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः ।

१२ - ३९ - छन्दोर्थम् इति चेत् न अगतित्वात् । छन्दोर्थम् इति चेत् तत् न ।

१३ - ३९ - किम् कारणम् ।

१४ - ३९ - अगतित्वात् ।

१५ - ३९ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र आङः मन्द्रशब्दम् प्रति क्रियायोगः ।

१६ - ३९ - किम् तर्हि याहिशब्दम् प्रति ।

१७ - ३९ - इह अपि तर्हि न प्राप्नोति ।

१८ - ३९ - अभ्युद्धरति उपसमादधाति इति ।

१९ - ३९ - अत्र अपि न अभेः उदम् प्रति क्रियायोगः ।

२० - ३९ - किम् तर्हि हरतिम् प्रति क्रियायोगः ।

२१ - ३९ - न एषः दोषः ।

२२ - ३९ - उदम् प्रति क्रियायोगः ।

२३ - ३९ - कथम् ।

२४ - ३९ - उद्धरतिक्रियाम् विशिनष्टि ।

२५ - ३९ - उदा विशिष्टाम् अभिः विशिनष्टि ।

२६ - ३९ - तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः ।

२७ - ३९ - इह अपि तर्हि मन्द्रसाधना क्रिया आङा व्यज्यते ।

२८ - ३९ - आ याहि मन्द्रैः इति ।

२९ - ३९ - ननु पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।

३० - ३९ - न एतत् सारम् ।

३१ - ३९ - पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

३२ - ३९ - किम् कारणम् ।

३३ - ३९ - साधनम् हि क्रियाम् निर्वर्तयति ताम् उपसर्गः विशिनष्टि अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।

३४ - ३९ - सत्यम् एवम् एतत् ।

३५ - ३९ - यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरे कृत्वा धातुः साधनेन युज्यते ।

३६ - ३९ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

३७ - ३९ - यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् ।

३८ - ३९ - गतिना तु विशिष्टस्य गतिः एव विशेषकः ।

३९ - ३९ - साधने केन ते न स्यात् बाह्यम् आभ्यन्तरः हि सः ।

१ - २४ - तिङ्ग्रहणम् किमर्थम् ।

२ - २४ - तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम् ।

३ - २४ - तिङ्ग्रहणम् क्रियते उदात्तवतः परिमाणार्थम् ।

४ - २४ - तिङि उदात्तवति यथा स्यात् मन्द्रशब्दे मा भूत् ।

५ - २४ - आ मन्द्रैः इन्द्र हरिभिः याहि ।

६ - २४ - यद्योगात् गतिः ।

७ - २४ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च आङः मन्द्रशब्दम् प्रति क्रियायोगः ।

८ - २४ - किम् तर्हि याहिशब्दम् प्रति ।

९ - २४ - यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः । यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः स्यात् ।

१० - २४ - यत्प्रकरोति ।

११ - २४ - तस्मात् तिङ्ग्रहणम् कर्तव्यम् ।

१२ - २४ - यदि तिङ्ग्रहणम् क्रियते आमन्ते न प्राप्नोति ।

१३ - २४ - प्रपचतितराम् ।

१४ - २४ - प्रजल्पतितराम् ।

१५ - २४ - असति पुनः तिङ्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्मात् अतिशये तरप् उत्पद्यते तरबन्तात् स्वार्थे आम् तत्र यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति भवति एतम् सङ्घातम् प्रति क्रियायोगः ।

१६ - २४ - तस्मात् न अर्थः तिङ्ग्रहणेन ।

१७ - २४ - कस्मात् न भवति ।

१८ - २४ - अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः ।

१९ - २४ - यद्योगात् गतिः इति ।

२० - २४ - ननु च उक्तम् यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः इति ।

२१ - २४ - न एषः दोषः ।

२२ - २४ - यद्क्रियायुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

२३ - २४ - कथम् तर्हि ।

२४ - २४ - या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति

१ - ३ - वत्करणम् किमर्थम् ।

२ - ३ - स्वाश्रयम् अपि यथा स्यात् ।

३ - ३ - आम् भोः देवदत्त इति अत्र आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता यथा स्यात्

१ - १० - पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्याप्रसिद्धिः ।

२ - १० - पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्यस्य अप्रसिद्धिः स्यात् ।

३ - १० - इमम् मे गङ्गे यमुने सरस्वति ।

४ - १० - गङ्गेशब्दः अयम् यमुनेशब्दम् प्रति अविद्यमानवत् भवति ।

५ - १० - तत्र आमन्त्रितस्य पदात् परस्य इति अनुदात्तत्वम् न स्यात् ।

६ - १० - सिद्धम् तु पदपूर्वस्य इति वचनात् ।

७ - १० - सिद्धम् एतत् ।

८ - १० - कथम् ।

९ - १० - पदपूर्वस्य इति वचनात् ।

१० - १० - पदपूर्वस्य च आमन्त्रितस्य अविद्यमानवद्भावः भवति इति वक्तव्यम्

१ - २२ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - २२ - अविद्यमानवत्त्वे प्रयोजनम् आमन्त्रितयुष्मदस्मत्तिङ्निघाताः ।

३ - २२ - आमन्त्रितस्य पदात् परस्य अनुदात्तः भवति इति इह एव भवति पचसि देवदत्त ।

४ - २२ - देवदत्त यज्ञदत्त इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

५ - २२ - युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति इह एव भवति ग्रामः वाम् स्वम् जनपदः नौ स्वम् ।

६ - २२ - देवदत्तयज्ञदत्तौ युवयोः स्वम् इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

७ - २२ - तिङतिङः इति इह एव भवति देवदत्तः पचति ।

८ - २२ - देवदत्त पचसि इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

९ - २२ - पूजायाम् अनन्तरप्रतिषेधः । पूजायाम् अनन्तरप्रतिषेधः प्रयोजनम् ।

१० - २२ - यावत् पचति शोभनम् ।

११ - २२ - यावत् देवदत्त पचति इति अत्र अपि सिद्धम् भवति ।

१२ - २२ - जातु अपूर्वम् । जातु अपूर्वम् प्रयोजनम् ।

१३ - २२ - जातु पचति ।

१४ - २२ - देवदत्त जातु पचसि इति अत्र अपि सिद्धम् भवति ।

१५ - २२ - आहो उताहो च अनन्तरविधौ । आहो उताहो च अनन्तरविधौ प्रयोजनम् ।

१६ - २२ - आहो पचसि ।

१७ - २२ - आहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति ।

१८ - २२ - उताहो पचसि ।

१९ - २२ - उताहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति ।

२० - २२ - आमः एकान्तरविधौ । आमः एकान्तरविधौ प्रयोजनम् ।

२१ - २२ - आम् पचसि देवदत्त ।

२२ - २२ - आम् भोः पचसि देवदत्त अत्र अपि सिद्धम् भवति

१ - ५ - इह कस्मात् न भवति ।

२ - ५ - अघ्न्ये देवि सरस्वति इडे कव्ये विहव्ये एतनि ते अघ्न्ये नमानि ।

३ - ५ - योगविभागः करिष्यते ।

४ - ५ - न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ।

५ - ५ - ततः विभाषितम् विशेषवचने इति

१ - १४ - इह कस्मात् न भवति ।

२ - १४ - ब्रह्मण वैयाकरण ।

३ - १४ - बहुवचनम् इति वक्ष्यामि ।

४ - १४ - सामान्यवचनम् इति शक्यम् अवक्तुम् ।

५ - १४ - कथम् ।

६ - १४ - विभाषितम् विशेषवचने इति उच्यते तेन यत् प्रति विशेषवचनम् इति एतत् भवति तस्य भविष्यति ।

७ - १४ - किम् च प्रति एतत् भवति ।

८ - १४ - सामान्यवचनम् ।

९ - १४ - अपरः आह विशेषवचने इति शक्यम् अवक्तुम् ।

१० - १४ - कथम् ।

११ - १४ - सामान्यवचनम् विभाषितम् इति उच्यते तेन यत् प्रति सामान्यवचनम् इति एतत् भवति ।

१२ - १४ - किम् च प्रति एतत् भवति ।

१३ - १४ - विशेषवचनम् ।

१४ - १४ - सामान्यवचनम् विभाषितम् विशेषवचने इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP