पाद २ - खण्ड ५५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ९ - धनहिरण्यात् कामाभिधाने ।

२ - ९ - धनहिरण्यात् कामाभिधाने इति वक्तव्यम् ।

३ - ९ - षष्थ्यर्थे हि अनिष्टप्रसङ्गः ।

४ - ९ - षष्थ्यर्थे हि सति अनिष्टः प्राप्नोति ।

५ - ९ - धने कामः अस्य इति ।

६ - ९ - तत् तर्हि वक्तव्यम् ।

७ - ९ - न वक्तव्यम् ।

८ - ९ - कस्मात् न भवति धने कामः अस्य इति ।

९ - ९ - अनभिधानात् ।

१ - ८ - किम् यः शीतम् करोति सः शीतकः यः वा उष्णम् करोति स उष्णकः ।

२ - ८ - किम् च अतः ।

३ - ८ - तुषारे आदित्ये च प्राप्नोति ।

४ - ८ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

५ - ८ - शीतम् इव शीतम् ।

६ - ८ - उष्णम् इव उष्णम् ।

७ - ८ - यः आशु कर्तव्यान् अर्थान् चिरेण करोति सः उच्यते शीतकः इति ।

८ - ८ - यः पुनः आशु कर्तव्यान् अर्थान् आशु एव करोति सः उच्यते उष्णकः इति ।

१ - ९ - अधिकम् इति किम् निपात्यते ।

२ - ९ - अद्यारूढस्य उत्तरपदलोपः च कन् च प्रत्ययः ।

३ - ९ - अध्यारूढम् अधिकम् इति ।

४ - ९ - भवेत् सिद्धम् अध्यारूढः द्रोणः खार्याम् अधिकः द्रोणः खार्याम् इति ।

५ - ९ - इदम् तु न सिध्यति ।

६ - ९ - अध्यारूढा द्रोणेन खारी ।

७ - ९ - अधिका द्रोणेन खारी इति ।

८ - ९ - गत्यर्थानाम् हि क्तः कर्तरि विधीयते ।

९ - ९ - गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।

१ - ६ - किम् यः पार्श्वेन अन्विच्छति सः पार्व्श्वकः ।

२ - ६ - किम् च अतः ।

३ - ६ - राजपुरुषे प्राप्नोति ।

४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

५ - ६ - पार्श्वम् इव पार्श्वम् ।

६ - ६ - यः ऋजुना उपायेन अन्वेष्टव्यान् अर्थान् अनृजुना उपायेन अन्विच्छति सः उच्यते पार्श्वकः इति ।

१ - ६ - किम् यः अयःशुलेन अन्विच्छति सः आयःशूलिकः ।

२ - ६ - किम् च अतः ।

३ - ६ - शिवभागवते प्राप्नोति ।

४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

५ - ६ - अयःशुलम् इव अयःशुलम् ।

६ - ६ - यः मृदुना उपायेन अन्वेष्टव्यान् अर्थान् रभसेन उपायेन अन्विच्छति सः उच्यते आयःशूलिकः इति ।

१ - ९ - तावतिथम् ग्रहणम् इति लुक् वावचनानर्थक्यम् विभाषाप्रकरणात् ।

२ - ९ - तावतिथम् ग्रहणम् इति लुक् वावचनम् अनर्थकम् ।

३ - ९ - किम् कारणम् ।

४ - ९ - विभाषाप्रकरणात् ।

५ - ९ - प्रकृता महाविभाषा ।

६ - ९ - तया एतत् सिद्धम् ।

७ - ९ - तावतिथेन गृह्णाति इति लुक् च ।

८ - ९ - तावतिथेन गृह्णाति इति उपसङ्ख्यानम् कर्तव्य लुक् च वक्तव्यः ।

९ - ९ - षष्थेन गृह्णाति षट्कः ।

१ - १६ - शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।

२ - १६ - शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।

३ - १६ - अगमकः निर्देशः अनिर्देशः ।

४ - १६ - न हि तस्य शृङ्खलबन्धनम् ।

५ - १६ - शृङ्खलवत्या असौ रज्ज्वा बध्यते ।

६ - १६ - सिद्धम् तु तद्वन्निर्देशात् लुक् च ।

७ - १६ - सिद्धम् एतत् ।

८ - १६ - कथम् ।

९ - १६ - तद्वन्निर्देशः कर्तव्यः लुक् च वक्तव्यः ।

१० - १६ - शृङ्खलवत् बन्धनम् इति ।

११ - १६ - सः तर्हि तद्वन्निर्देशः कर्तव्यः ।

१२ - १६ - न कर्तव्यः ।

१३ - १६ - इह यत् न अन्तरेण यस्य प्रवृत्तिः भवति तत् तस्य निमित्तत्वाय कल्पते ।

१४ - १६ - न च अन्तरेण शृङ्खलम् बन्धनम् प्रवर्तते ।

१५ - १६ - अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

१६ - १६ - शृङ्खलसहचरितम् बन्धनम् श्र्ङ्खलम् बन्धनम् इति ।

१ - ३ - प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः ।

२ - ३ - प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः वक्तव्यः ।

३ - ३ - वटकिनी पौर्णमासी ।

१ - ६ - किम् निपात्यते ।

२ - ६ - श्रोत्रियन् छन्दः अधीते इति वाक्यार्थे पदवचनम् ।

३ - ६ - छन्दः अधीते इति अस्य वाक्यस्य अर्थे श्रोत्रियन् इति एतत् पदम् निपात्यते ।

४ - ६ - छन्दसः वा श्र्तोत्रभावः तत् अधीते इति घन् च ।

५ - ६ - छन्दसः वा श्र्तोत्रभावः निपात्यते तत् अधीते इति एतस्मिन् अर्थे घन् च प्रत्ययः ।

६ - ६ - छन्दः अधीते शृओत्रियः ।

१ - ६ - इनिठनोः समानकालग्रहणम् ।

२ - ६ - इनिठनोः समानकालग्रहणम् कर्तव्यम् ।

३ - ६ - अद्य भुक्ते श्रः श्राद्धिकः इति मा भूत् ।

४ - ६ - उक्तम् वा ।

५ - ६ - किम् उक्तम् ।

६ - ६ - अनभिधानात् इति ।

१ - ४ - सञ्ज्ञायाम् इति किमर्थम् ।

२ - ४ - त्रिभिः साक्षात् दृष्टम् भवति यः च ददाति यस्मै च दीयते यः च उपद्रष्टा ।

३ - ४ - तत्र सर्वत्र प्रत्ययः प्राप्नोति ।

४ - ४ - सञ्ज्ञाग्रहणसामर्थ्यात् धनिकान्तेवासिनोः न भवति ।

१ - ६ - किम् निपात्यते ।

२ - ६ - क्षेत्रियः श्रोत्रियवत् । क्षेत्रियः श्रोत्रियवत् निपात्यते ।

३ - ६ - परक्षेत्रे चिकित्स्यः इति एतस्य वाक्यस्य अर्थे क्षेत्रियच् इति एतत् पदम् निपात्यते ।

४ - ६ - परक्षेत्रात् वा तत्र चिकित्स्यः इति परलोपः घच् च ।

५ - ६ - परक्षेत्रात् वा तत्र चिकित्स्यः इति एतस्मिन् अर्थे परलोपः निपात्यते घच् च ।

६ - ६ - परक्षेत्रे चिकित्स्यः क्षेत्रियः ।

१ - ४३ - किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते अस्य अस्मिन् इति न यत् यस्य भवति तस्मिन् अपि तत् भवति यत् च यस्मिन् भवति तत् तस्य अपि भवति ।

२ - ४३ - न एतयोः आवश्यकः समावेशः ।

३ - ४३ - भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिन् आधृताः भवन्ति ।

४ - ४३ - भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति ।

५ - ४३ - अथ अस्तिग्रहणम् किमर्थम् ।

६ - ४३ - सत्तायाम् अर्थे प्रत्ययः यथा स्यात् ।

७ - ४३ - न एतत् अस्ति प्रयोजनम् ।

८ - ४३ - न सत्ताम् पदार्थः व्यभिचरति ।

९ - ४३ - इदम् तर्हि प्रयोजनम् सम्प्रतिसत्तायाम् यथा स्यात् , भूतभविष्यत्सत्तायाम् मा भूत् गावः अस्य आसन् ।

१० - ४३ - गावः अस्य भवितारः इति ।

११ - ४३ - न तर्हि इदानीम् इदम् भवति गोमान् आसीत् ।

१२ - ४३ - गोमान् भविता इति ।

१३ - ४३ - भवति न तु एतस्मिन् वाक्ये ।

१४ - ४३ - यदि एतस्मिन् वाक्ये स्यात् यथा इह अस्तेः प्रयोगः न भवति गोमान् यवमान् इति एवम् इह अपि न स्यात् गोमान् आसीत् ।

१५ - ४३ - गोमान् भविता इति ।

१६ - ४३ - सति अपि अस्तेः प्रयोगे यथा इह बहुवचनम् श्रूयते गावः अस्य आसन् गावः अस्य भवितारः एवम् इह अपि स्यात् ।

१७ - ४३ - गोमान् आसीत् ।

१८ - ४३ - गोमान् भविता इति ।

१९ - ४३ - का तर्हि इयम् वाचोयुक्तिः ।

२० - ४३ - गोमान् आसीत् ।

२१ - ४३ - गोमान् भविता इति ।

२२ - ४३ - एषा एषा वाचोयुक्तिः ।

२३ - ४३ - न एषा गवाम् सत्ता कथ्यते ।

२४ - ४३ - किम् तर्हि ।

२५ - ४३ - गोमत्सत्ता एषा कथ्यते ।

२६ - ४३ - अस्ति अत्र वर्तमानकालः अस्तिः ।

२७ - ४३ - कथम् तर्हि भूतभविष्यत्सत्ता गम्यते ।

२८ - ४३ - धातुसम्बन्धे प्रत्ययाः इति ।

२९ - ४३ - इदम् तर्हि प्रयोजनम् ।

३० - ४३ - अस्तियुक्तात् यथा स्यात् ।

३१ - ४३ - अनन्तरादियुक्तात् मा भूत् इति ।

३२ - ४३ - गावः अस्य अनन्तराः ।

३३ - ४३ - गावः अस्य समीपे इति ।

३४ - ४३ - अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात् न भवति ।

३५ - ४३ - गावः अस्य सन्ति अनन्तराः ।

३६ - ४३ - गावः अस्य सन्ति समीपे इति ।

३७ - ४३ - असामर्थ्यात् ।

३८ - ४३ - कथम् असामर्थ्यम् ।

३९ - ४३ - सापेक्षम् असर्मर्थम् भवति इति ।

४० - ४३ - यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यात् अनन्तरादिषु न भवन्ति एवम् अक्रियमाणे अपि न भविष्यति ।

४१ - ४३ - अस्ति अत्र विशेषः ।

४२ - ४३ - क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।

४३ - ४३ - अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।

१ - ५६ - अथ इह कस्मात् न भवति ।

२ - ५६ - चित्रगुः ।

३ - ५६ - शबलगुः इति ।

४ - ५६ - बहुव्रीह्युक्तत्वात् मत्वर्थस्य ।

५ - ५६ - अथ इह कस्मात् न भवति ।

६ - ५६ - चित्राः गावः अस्य सन्ति इति ।

७ - ५६ - कुतः कस्मात् न भवति ।

८ - ५६ - किम् अवयवात् आहोस्वित् समुदायात् ।

९ - ५६ - अवयवात् कस्मात् न भवति ।

१० - ५६ - असामर्थ्यात् ।

११ - ५६ - कथम् असामर्थ्यम् ।

१२ - ५६ - सापेक्षम् असर्मर्थम् भवति इति ।

१३ - ५६ - समुदायात् तर्हि कस्मात् न भवति ।

१४ - ५६ - अप्रातिपदिकत्वात् ।

१५ - ५६ - ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।

१६ - ५६ - तत् यथा सुप् सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति ।

१७ - ५६ - सत्यम् एवम् एतत् ।

१८ - ५६ - आकृतिः तु प्रत्येकम् परिसमाप्यते ।

१९ - ५६ - यावति एतत् परिसमाप्यते ङ्याप्प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।

२० - ५६ - अवयवे च एतत् परिसमाप्यते न समुदाये ।

२१ - ५६ - अथ इह कस्मात् न भवति ।

२२ - ५६ - पञ्च गावः अस्य सन्ति पञ्चगुः ।

२३ - ५६ - दशगुः इति ।

२४ - ५६ - प्रत्येकम् असामर्थ्यात् समुदायात् अप्रातिपदिकत्वात् समासात् समासेन उक्तत्वात् ।

२५ - ५६ - न एतत् सारम् ।

२६ - ५६ - उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः ।

२७ - ५६ - तत् यथा द्वैमातुरः पाञ्चनापितिः इति ।

२८ - ५६ - न एषः द्विगुः ।

२९ - ५६ - कः तर्हि ।

३० - ५६ - बहुव्रीहिः ।

३१ - ५६ - अपवादत्वात् द्विगुः प्राप्नोति ।

३२ - ५६ - अन्तरङ्गत्वात् बहुव्रीहिः भविष्यति ।

३३ - ५६ - का अन्तरङ्गता ।

३४ - ५६ - अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः ।

३५ - ५६ - तस्मिन् च अस्य तद्धिते अस्तिग्रहणम् क्रियते ।

३६ - ५६ - यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणम् कर्तव्यम् अस्तियुक्तात् यथा स्यात् अनन्तरादियुक्तात् मा भूत् इति ।

३७ - ५६ - अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन ।

३८ - ५६ - सत्यम् एवम् एतत् ।

३९ - ५६ - क्रियते तु इदानीम् तद्धितविधौ अस्तिग्रहणम् ।

४० - ५६ - तत् वै क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।

४१ - ५६ - अस्तिमान् इति मतुप् यथा स्यात् ।

४२ - ५६ - किम् च कारणम् न स्यात् ।

४३ - ५६ - अप्रातिपदिकत्वात् ।

४४ - ५६ - न एषः दोषः ।

४५ - ५६ - अव्ययम् एषः अस्तिशब्दः ।

४६ - ५६ - न एष अस्तेः लट् ।

४७ - ५६ - कथम् अव्ययत्वम् ।

४८ - ५६ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

४९ - ५६ - निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

५० - ५६ - एवम् अपि न सिध्यति ।

५१ - ५६ - किम् कारणम् ।

५२ - ५६ - अस्तिसामानाधिकरण्ये मतुप् विधीयते ।

५३ - ५६ - न च अस्तेः अस्तिना सामानाधिकरण्यम् ।

५४ - ५६ - तत् एतत् क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।

५५ - ५६ - तस्मात् द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत् न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति ।

५६ - ५६ - सति हि तस्मिन् तेन एव सिद्धम् ।

१ - ३२ - अथ मत्वर्थीयात् मत्वर्थीयेन भवितव्यम् ।

२ - ३२ - न भवितव्यम् ।

३ - ३२ - किम् कारणम् ।

४ - ३२ - अर्थगत्यर्थः शब्दप्रयोगः ।

५ - ३२ - अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

६ - ३२ - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।

७ - ३२ - किम् कारणम् ।

८ - ३२ - उक्तार्थानाम् अप्रयोगः इति ।

९ - ३२ - न तर्हि इदानीम् इदम् भवति दण्डिमती शाला ।

१० - ३२ - हस्तिमती उपपत्यका इति ।

११ - ३२ - भवति ।

१२ - ३२ - अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।

१३ - ३२ - षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।

१४ - ३२ - अथ मत्वन्तात् मतुपा भवितव्यम् गोमन्तः अस्य सन्ति ।

१५ - ३२ - यवमन्तः अस्य सन्ति इति ।

१६ - ३२ - न भवितव्यम् ।

१७ - ३२ - किम् काऋअणम् ।

१८ - ३२ - यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति ।

१९ - ३२ - तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति ।

२० - ३२ - न तर्हि इदानीम् इदम् भवति दण्डिमती शाला ।

२१ - ३२ - हस्तिमती उपपत्यका इति ।

२२ - ३२ - भवति ।

२३ - ३२ - अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।

२४ - ३२ - षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।

२५ - ३२ - इह अपि सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते ।

२६ - ३२ - अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता ।

२७ - ३२ - येन एव खलु अपि हेतुना एतत् वाक्यम् भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

२८ - ३२ - तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधः वक्तव्यः ।

२९ - ३२ - तम् च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यम् ।

३० - ३२ - भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति ।

३१ - ३२ - शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः ।

३२ - ३२ - सनन्तात् न सन् इष्यते ।

१ - ५० - किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति ।

२ - ५० - एवम् भवितुम् अर्हति ।

३ - ५० - मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः ।

४ - ५० - मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति ।

५ - ५० - इह अपि प्राप्नोति ।

६ - ५० - व्रीहिः अस्य ।

७ - ५० - यवः अस्य इति ।

८ - ५० - तस्मात् भूमादिग्रहणम् कर्तव्यम् ।

९ - ५० - के पुनः भूमादयः ।

१० - ५० - भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायाम् भवन्ति मतुबादयः ।

११ - ५० - भूम्नि गोमान् यवमान् ।

१२ - ५० - निन्दायाम् ककुदावर्ती सङ्खादकी ।

१३ - ५० - प्रशंसयाम् रूपवान् वर्णवान् ।

१४ - ५० - नित्ययोगे क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति ।

१५ - ५० - अतिशायने उदरिणी कन्या ।

१६ - ५० - संसर्गे दण्डी छत्री ।

१७ - ५० - तत् तर्हि भूमादिग्रहणम् कर्तव्यम् ।

१८ - ५० - न कर्तव्यम् ।

१९ - ५० - कस्मात् न भवति ।

२० - ५० - व्रीहिः अस्य ।

२१ - ५० - यवः अस्य इति ।

२२ - ५० - उक्तम् वा. किम् उक्तम् ।

२३ - ५० - अनभिधानात् इति ।

२४ - ५० - इतिकरणः खलु अपि क्रियते ।

२५ - ५० - ततः चेत् विवक्षा ।

२६ - ५० - भूमादियुक्तस्य एव च विवक्षा ।

२७ - ५० - गोमान् यवमान् ।

२८ - ५० - भूमादियुक्तस्य एव सत्ता कथ्यते ।

२९ - ५० - न हि कस्य चित् यवः न अस्ति ।

३० - ५० - सङ्खादकी ककुदावर्तिनी ।

३१ - ५० - निन्दाउक्तस्य एव सत्ता कथ्यते ।

३२ - ५० - न हि कः चित् न सङ्खादकी ।

३३ - ५० - रूपवान् वर्णवान् ।

३४ - ५० - प्रशंसायुक्तस्य एव सत्ता कथ्यते ।

३५ - ५० - न हि कस्य चित् रूपम् न अस्ति ।

३६ - ५० - क्षीरिणः वृक्षाः ।

३७ - ५० - कण्टकिनः वृक्षाः इति ।

३८ - ५० - नित्ययुक्तस्य एव सत्ता कथ्यते ।

३९ - ५० - न हि कस्य चित् क्षिरम् न अस्ति ।

४० - ५० - उदरिणी कन्या इति ।

४१ - ५० - अतिशायनयुक्तस्य एव सत्ता कथ्यते ।

४२ - ५० - न हि कस्य चित् उदरम् न अस्ति ।

४३ - ५० - दण्डी छत्री ।

४४ - ५० - संसर्गयुक्तस्य एव सत्ता कथ्यते ।

४५ - ५० - न हि कस्य चित् दण्डः न अस्ति ।

४६ - ५० - यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते ।

४७ - ५० - कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते ।

४८ - ५० - सन्मात्रे च ऋषिदर्शनात् ।

४९ - ५० - सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् ।

५० - ५० - यवमतीभिः अद्भिः यूपम् प्रोक्षति इति ।

१ - १६ - गुणवचनेभ्यः मतुपः लुक् ।

२ - १६ - गुणवचनेभ्यः मतुपः लुक् वक्तव्यः ।

३ - १६ - शुक्लः कृष्णः इति ।

४ - १६ - अव्यतिरेकात् सिद्धम् ।

५ - १६ - न गुणः गुणिनम् व्यभिचरति इति ।

६ - १६ - अव्यतिरेकात् सिद्धम् इति चेत् दृष्टः व्यतिरेकः ।

७ - १६ - दृश्यते व्यतिरेकः ।

८ - १६ - तत् यथ पटस्य शुक्लः इति ।

९ - १६ - तथा च लिङ्गवचनसिद्धिः ।

१० - १६ - एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति ।

११ - १६ - शुक्लम् वस्त्रम् ।

१२ - १६ - शुक्ला शाटी ।

१३ - १६ - शुक्लः कम्बलः ।

१४ - १६ - शुक्लौ कम्बलौ ।

१५ - १६ - शुक्लाः कम्बलाः इति ।

१६ - १६ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

१ - १० - किमर्थम् इदम् उच्यते न तत् अस्य अस्ति अस्मिन् इति एव मतुप् सिद्धः ।

२ - १० - रसादिभ्यः पुनर्वचनम् अन्यनिर्वृत्त्यर्थम् ।

३ - १० - रसादिभ्यः पुनर्वचनम् क्रियते अन्येषाम् मत्वर्थीयानाम् प्रतिषेधार्थम् ।

४ - १० - मतुप् एव यथा स्यात् ।

५ - १० - ये अन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन् इति ।

६ - १० - न एतत् अस्ति प्रयोजनम् ।

७ - १० - दृश्यन्ते हि अन्ये रसादिभ्यः मत्वर्थीयाः ।

८ - १० - रसिकः नटः ।

९ - १० - उर्वशी वै रूपिणी अप्सरसाम् ।

१० - १० - स्पर्शिकः वायुः इति ।

१ - ६ - इह कस्मात् न भवति चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।

२ - ६ - प्राण्यङ्गात् इति वक्तव्यम् ।

३ - ६ - तत् तर्हि वक्तव्यम् ।

४ - ६ - न वक्तव्यम् ।

५ - ६ - कस्मात् न भवति चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।

६ - ६ - अनभिधानात् ।

१ - ३३ - सिध्मादिषु यानि अकारान्तानि तेभ्यः लचा मुक्ते इनिठनौ प्रप्नुतः इनिठनौ च न इष्येते ।

२ - ३३ - लच् अन्यतरस्याम् इति समुच्चयः ।

३ - ३३ - लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा ।

४ - ३३ - लच् च मतुप् च ।

५ - ३३ - कथम् पुनः एतत् ज्ञायते लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा इति ।

६ - ३३ - पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।

७ - ३३ - यत् अयम् पिच्छादिभ्यः तुन्दादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

८ - ३३ - यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।

९ - ३३ - तुन्दादीनि अपि पिच्छादिषु एव पठेत् ।

१० - ३३ - न एतत् अस्ति ज्ञापकम् ।

११ - ३३ - अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।

१२ - ३३ - किम् ।

१३ - ३३ - तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।

१४ - ३३ - यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।

१५ - ३३ - ज्ञापकार्थः एव ।

१६ - ३३ - अपरः आह पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।

१७ - ३३ - यत् अयम् तुन्दादिभ्यः पिच्छादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

१८ - ३३ - यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।

१९ - ३३ - पिच्छादीनि अपि तुन्दादिषु एव पठेत् ।

२० - ३३ - न एतत् अस्ति ज्ञापकम् ।

२१ - ३३ - अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।

२२ - ३३ - किम् ।

२३ - ३३ - पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।

२४ - ३३ - यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।

२५ - ३३ - ज्ञापकार्थः एव ।

२६ - ३३ - वस्य च पुनर्वचनम् सर्वविभाषार्थम् ।

२७ - ३३ - वस्य खलु अपि पुनर्वचनम् क्रियते सर्वविभाषार्थम् ।

२८ - ३३ - केशात् वः अन्यतरस्याम् इति ।

२९ - ३३ - एतत् एव ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

३० - ३३ - द्युद्रुभ्याम् नित्यार्थम् एके अन्यतरस्याङ्ग्रहणम् इच्छन्ति ।

३१ - ३३ - कथम् ।

३२ - ३३ - विभाषामध्ये अयम् योगः क्रियते ।

३३ - ३३ - विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति ।

१ - ९ - नप्रकरणे दद्र्वाः ह्रस्वत्वम् च ।

२ - ९ - नप्रकरणे दद्र्वाः उपसङ्ख्यानम् कर्तव्यम् ह्रस्वत्वम् च नप्रकरणे दद्र्वाः ह्रस्वत्वम् च वक्तव्यम् ।

३ - ९ - दद्रुणः ।

४ - ९ - अत्यल्पम् इदम् उच्यते ।

५ - ९ - शाकीपलालीदद्रूणाम् ह्रस्वत्वम् च इति वक्तव्यम् ।

६ - ९ - शाकिनम् , पलालिनम् , दद्रुणम् ।

७ - ९ - विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः ।

८ - ९ - विष्वक् इति उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः ।

९ - ९ - विष्वक् गतानि अस्य विषुणः ।

१ - ३ - वृत्तेः च ।

२ - ३ - वृत्तेः च इति वक्तव्यम् ।

३ - ३ - वार्त्तम् ।

१ - ५ - किमर्थम् तपःशब्दात् विन् विधीयते न असन्तात् इति एव सिद्धम् ।

२ - ५ - तपसः विन्वचनम् अण्विधानात् ।

३ - ५ - तपसः विन्वचनम् क्रियते ।

४ - ५ - तपःशब्दात् अन् विधीयते ।

५ - ५ - सः विशेषविहितः सामान्य्विहितम् विनम् बाधेत ।

१ - ७ - अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् ।

२ - ७ - अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ७ - ज्यौत्स्नः ।

४ - ७ - तामिस्रः ।

५ - ७ - कौण्डलः ।

६ - ७ - कौतपः ।

७ - ७ - वैपादिकः ।

१ - ६ - अयम् मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची ।

२ - ६ - आतः च रसवाची अपि ।

३ - ६ - मधुनि एव हि मधु इदम् मधुरम् इति प्रसज्यते ।

४ - ६ - तत् यः रसवाची तस्य इदम् ग्रहणम् ।

५ - ६ - यदि हि द्रव्यपदार्थकस्य ग्रहणम् स्यात् इह अपि प्रसज्येत ।

६ - ६ - मधु अस्मिन् घटे अस्ति ।

१ - ६ - रप्रकरणे खमुख्कुञ्जेभ्यः उपसङ्ख्यानम् ।

२ - ६ - खरः ।

३ - ६ - मुखरः ।

४ - ६ - कुञ्जरः ।

५ - ६ - नगात् च इति वक्तव्यम् ।

६ - ६ - नगरम् ।

१ - १८ - वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् ।

२ - १८ - वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् ।

३ - १८ - मणिवः ।

४ - १८ - हिरण्यवः ।

५ - १८ - छन्दसि ईवनिपौ च ।

६ - १८ - छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च ।

७ - १८ - रथीः अभूत् मुद्गलनी गविष्टौ ।

८ - १८ - सुमङ्गलीः इयम् वधुः ।

९ - १८ - ऋतवानम् ।

१० - १८ - मघवानम् ईमहे ।

११ - १८ - उत् वा च उद्वती च ।

१२ - १८ - मेधारथाभ्याम् इरनिरचौ ।

१३ - १८ - मेधारथाभ्याम् इरनिरचौ वक्तव्यौ ।

१४ - १८ - मेधिरः ।

१५ - १८ - रथिरः ।

१६ - १८ - अपरः आह वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।

१७ - १८ - बिम्बावम् ।

१८ - १८ - कुररावम् इष्टकावम् ।

१ - ५ - वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते ।

२ - ५ - वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यम् ।

३ - ५ - भ्रातृवलः ।

४ - ५ - पुत्रवलः ।

५ - ५ - उत्सङ्गवलः ।

१ - १९ - इनिठनोः एकाक्षरात् प्रतिषेधः ।

२ - १९ - इनिठनोः एकाक्षरात् प्रतिषेधः वक्तव्यः स्ववान् , खवान् ।

३ - १९ - अत्यल्पम् इदम् उच्यते ।

४ - १९ - एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

५ - १९ - एकाक्षरात् स्ववान् , खवान् ।

६ - १९ - कृतः कारकवान् , हारकवान् ।

७ - १९ - जातेः वृक्षवान् , प्लक्षवान् , व्याघ्रवान् , सिंहवान् ।

८ - १९ - सप्तम्याम् च न तौ ।

९ - १९ - दण्डाः अस्याम् शालायाम् सन्ति इति ।

१० - १९ - यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति ।

११ - १९ - तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति ।

१२ - १९ - एवम् तर्हि न अयम् समुच्चयः कृतः च जातेः च इति ।

१३ - १९ - किम् तर्हि ।

१४ - १९ - जातिविशेषणम् कृद्ग्रहणम् कृत् या जातिः इति ।

१५ - १९ - कथम् कारकवान् , हारकवान् ।

१६ - १९ - अनभिधानात् न भविष्यति ।

१७ - १९ - यदि एवम् न अर्थः अनेन ।

१८ - १९ - कथम् स्ववान् , वृक्षवान् , सिंहवान् , व्याघ्रवान् दण्डाः अस्याम् शालायाम् सन्ति इति ।

१९ - १९ - अनभिधानात् न भविष्यति ।

१ - १० - शिखादिभ्यः इनिः वक्तव्यः इकन् यवखदादिषु ।

२ - १० - किम् प्रयोजनम् ।

३ - १० - नियमार्थम् ।

४ - १० - इनिः एव शिखादिभ्यः इकन् एव यव्खदादिभ्यः ।

५ - १० - शिखायवखदादिभ्यः नियमस्य अवचनम् निवर्तकत्वात् ।

६ - १० - शिखायवखदादिभ्यः नियमस्य अवचनम् ।

७ - १० - किम् कारणम् ।

८ - १० - निवर्तकत्वात् ।

९ - १० - किम् निवर्तकम् ।

१० - १० - अनभिधानम् ।

१ - १५ - नित्यग्रहणम् किमर्थम् ।

२ - १५ - विभाषा मा भूत् ।

३ - १५ - न एतत् अस्ति प्रयोजनम् ।

४ - १५ - पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

५ - १५ - एवम् तर्हि सिद्धे सति यत् नित्यग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् एतस्मात् योगात् विभाषा इति अनुवर्तते ।

६ - १५ - अथ अतः इति अनुवर्तते उताहो न ।

७ - १५ - किम् च अतः ।

८ - १५ - यदि अनुवर्तते एकगविकः न सिध्यति ।

९ - १५ - समासान्ते कृते भविष्यति ।

१० - १५ - एवम् अपि गौशकटिकः न सिध्यति ।

११ - १५ - अथ निवृत्तम् इह अपि प्राप्नोति ।

१२ - १५ - गोविंशतिः अस्य अस्ति इति ।

१३ - १५ - निवृत्तम् ।

१४ - १५ - कस्मात् न भवति गोविंशतिः अस्य अस्ति इति ।

१५ - १५ - अनभिधानात् न भविष्यति ।

१ - ३ - यप्प्रकरणे अन्येभ्यः अपि दृश्यते ।

२ - ३ - यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम्. हिम्याः पर्वताः ।

३ - ३ - गुण्याः ब्राह्मणाः ।

१ - ४८ - छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च ।

२ - ४८ - छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च इति वक्तव्यम् ।

३ - ४८ - अष्ट्रावी ।

४ - ४८ - मेखलावी ।

५ - ४८ - द्वयावी ।

६ - ४८ - उभयावी ।

७ - ४८ - रुजावी ।

८ - ४८ - हृदयावी ।

९ - ४८ - मर्मणः च इति वक्तव्यम् ।

१० - ४८ - ममावी ।

११ - ४८ - सर्वत्र आमयस्य ।

१२ - ४८ - सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् ।

१३ - ४८ - आमयावी ।

१४ - ४८ - शृङ्गवृन्दाभ्याम् आरकन् ।

१५ - ४८ - शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः ।

१६ - ४८ - शृङ्गारकः ।

१७ - ४८ - वृदारकः ।

१८ - ४८ - फलबर्हाभ्याम् इनच् ।

१९ - ४८ - फलबर्हाभ्याम् इनच् वक्तव्यः ।

२० - ४८ - फलिनः ।

२१ - ४८ - बर्हिणः ।

२२ - ४८ - हृदयात् चालुः अन्यतरस्याम् ।

२३ - ४८ - हृदयात् चालुः वक्तव्यः अन्यतरस्याम् ।

२४ - ४८ - हृदयालुः ।

२५ - ४८ - हृदयी ।

२६ - ४८ - हृदयिकः ।

२७ - ४८ - हृदयवान् ।

२८ - ४८ - शीतोष्णतृप्रेभ्यः तत् न सहते ।

२९ - ४८ - शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः ।

३० - ४८ - शीतालुः ।

३१ - ४८ - उष्णालुः ।

३२ - ४८ - तृप्रालुः ।

३३ - ४८ - हिमात् चेलुः ।

३४ - ४८ - हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।

३५ - ४८ - हिमेलुः ।

३६ - ४८ - बलात् च ऊलः ।

३७ - ४८ - बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।

३८ - ४८ - बलूलः ।

३९ - ४८ - वातात् समूहे च ।

४० - ४८ - वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः ।

४१ - ४८ - वातूलः ।

४२ - ४८ - पर्वमरुद्भ्याम् तप् ।

४३ - ४८ - पर्वमरुद्भ्याम् तप् वक्तव्यः ।

४४ - ४८ - पर्वतः ।

४५ - ४८ - मरुत्तः ।

४६ - ४८ - ददातिवृत्तम् वा ।

४७ - ४८ - ददातिवृत्तम् वा पुनः एतत् भविष्यति ।

४८ - ४८ - मरुद्भिः दत्तः मरुत्तः ।

१ - ५ - कुत्सिते इति वक्तव्यम् ।

२ - ५ - यः हि सम्यक् बहु भाषते वाग्मी इति एव सः भवति ।

३ - ५ - तत् तर्हि वक्तव्यम् ।

४ - ५ - न वक्तव्यम् ।

५ - ५ - नानायोगकरणसामर्थ्यात् न भविष्यति ।

१ - ६ - इह कस्मात् न भवति ।

२ - ६ - स्वम् अस्य अस्ति इति ।

३ - ६ - न एषः दोषः ।

४ - ६ - न अयम् प्रत्ययार्थः ।

५ - ६ - किम् तर्हि प्रकृतिविशेषणम् एतत् ।

६ - ६ - स्वामिन् ऐश्वर्ये निपात्यते इति ।

१ - २ - पिशाचात् च इति वक्तव्यम् ।

२ - २ - पिशाचकी वैश्रवणः ।

१ - ३२ - इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् ।

२ - ३२ - इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३२ - बाहुबली ।

४ - ३२ - ऊरुबली ।

५ - ३२ - सर्वादेः च ।

६ - ३२ - सर्वादेः च इनिः वक्तव्यः ।

७ - ३२ - सर्वधनी ।

८ - ३२ - सर्वबीजी ।

९ - ३२ - सर्वकेशी ।

१० - ३२ - अर्थात् च असन्निहिते ।

११ - ३२ - अर्थात् च असन्निहिते इनिः वक्तव्यः ।

१२ - ३२ - अर्थी ।

१३ - ३२ - असन्निहिते इति किमर्थम् ।

१४ - ३२ - अर्थवान् ।

१५ - ३२ - तदन्तात् च ।

१६ - ३२ - तदन्तात् च इति वक्तव्यम् ।

१७ - ३२ - धान्यार्थी ।

१८ - ३२ - हिरण्यार्थी ।

१९ - ३२ - किमर्थम् तदन्तात् इति उच्यते न तदन्तविधिना सिद्धम् ।

२० - ३२ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

२१ - ३२ - एवर्म् तर्हि इनन्तेन सह समासः भविष्यति ।

२२ - ३२ - धान्येन अर्थी धान्यार्थी ।

२३ - ३२ - सः हि समासः न प्राप्नोति ।

२४ - ३२ - यदि पुनः अयम् अर्थयतेः णिनिः स्यात् ।

२५ - ३२ - एवम् अपि क्रियाम् एव कुर्वाणे स्यात् ।

२६ - ३२ - तूष्णीम् अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यम् अनेन इति ।

२७ - ३२ - एवम् तर्हि अयम् अर्थशब्दः अस्ति एव द्रव्यपदार्थकः ।

२८ - ३२ - तत् यथा अर्थवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।

२९ - ३२ - अस्ति क्रियापदार्थकः भावसाधनः ।

३० - ३२ - अर्थनम् अर्थः इति ।

३१ - ३२ - तत् यः क्रियापदार्थकः तस्य इदम् ग्रहणम् ।

३२ - ३२ - एवम् च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP