पाद २ - खण्ड ३८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६० - किम् उपेयिवान् इति निपातनम् क्रियते ।

२ - ६० - उपेयुषि निपातनम् इडर्थम् ।

३ - ६० - उपेयुषि निपातनम् क्रियते इडर्थम् ।

४ - ६० - इट् यथा स्यात् ।

५ - ६० - न एतत् अस्ति प्रयोजनम् ।

६ - ६० - सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति ।

७ - ६० - द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति ।

८ - ६० - इदम् इह सम्प्रधार्यम् ।

९ - ६० - द्विर्वचनम् क्रियताम् इट् इति ।

१० - ६० - किम् अत्र कर्तव्यम् ।

११ - ६० - परत्वात् इडागमः ।

१२ - ६० - नित्यम् द्विर्वचनम् ।

१३ - ६० - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

१४ - ६० - इट् अपि नित्यः ।

१५ - ६० - कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति ।

१६ - ६० - न अत्र एकादेशः प्राप्नोति ।

१७ - ६० - किम् कारणम् ।

१८ - ६० - दीर्घः इणः किति इति दीर्घत्वेन बाधते ।

१९ - ६० - तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते ।

२० - ६० - उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति ।

२१ - ६० - उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति ।

२२ - ६० - एकादिष्टस्य ईय्भावार्थम् तु ।

२३ - ६० - एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते ।

२४ - ६० - एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते ।

२५ - ६० - ननु च उक्तम् न अत्र एकादेशः प्राप्नोति ।

२६ - ६० - किम् कारणम् ।

२७ - ६० - दीर्घः इणः किति इति दीर्घत्वेन बाधते इति ।

२८ - ६० - तत् हि न सुष्ठु उच्यते ।

२९ - ६० - न हि दीर्घत्वम् एकादेशम् बाधते ।

३० - ६० - कः तर्हि बाधते ।

३१ - ६० - यणादेशः ।

३२ - ६० - सः च क्व बाधते ।

३३ - ६० - यत्र अस्य निमित्तम् अस्ति ।

३४ - ६० - यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः ।

३५ - ६० - व्यञ्जने यणादेशार्थम् वा ।

३६ - ६० - अथ वा व्यञ्जने एव यणादेशः निपात्यते ।

३७ - ६० - यणादेशे कृते एकाचः इति इट् सिद्धः भवति ।

३८ - ६० - अपरः आह न उपेयिवान् निपात्यः ।

३९ - ६० - द्विर्वचनाद् इट् भविष्यति परत्वात् ।

४० - ६० - द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन ।

४१ - ६० - इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् ।

४२ - ६० - अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् ।

४३ - ६० - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

४४ - ६० - अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च ।

४५ - ६० - द्विर्वचने च कृते एकाच् भवति ।

४६ - ६० - कथम् ।

४७ - ६० - एकादेशे कृते ।

४८ - ६० - तस्मात् इट् बाधते द्वित्वम् ।

४९ - ६० - तस्मात् इट् द्विर्वचनम् बाधते ।

५० - ६० - अनूचानः कर्तरि ।

५१ - ६० - अनूचानः कर्तरीति वक्तव्यम् ।

५२ - ६० - अनूक्तवान् अनूचानः ।

५३ - ६० - अनूक्तम् इति एव अन्यत्र ।

५४ - ६० - न उपेयिवान् निपात्यः ।

५५ - ६० - द्विर्वचनाद् इट् भविष्यति परत्वात् ।

५६ - ६० - अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः ।

५७ - ६० - अस्य पुनः इट् च नित्यः द्विव्रचनम् च ।

५८ - ६० - न विहन्यते हि अस्य ।

५९ - ६० - द्विर्वचने च एकाच्त्वात् ।

६० - ६० - तस्मात् इट् बाधते द्वित्वम् ।

१ - ३५ - लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात् ।

२ - ३५ - लुङ्लृटोः अपवादः प्राप्नोति ।

३ - ३५ - अगाम घोषान् ।

४ - ३५ - अपाम पयः ।

५ - ३५ - अशयिष्महि पूतीकतृणेषु ।

६ - ३५ - गमिष्यामः घोषान् ।

७ - ३५ - पास्यामः पयः ।

८ - ३५ - शयिष्यामहे पूतीकतृणेषु ।

९ - ३५ - किम् कारणम् ।

१० - ३५ - भूतभविष्यतोः अविशेषवचनात् ।

११ - ३५ - भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ ।

१२ - ३५ - तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः ।

१३ - ३५ - न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।

१४ - ३५ - न वा एषः दोषः ।

१५ - ३५ - किम् कारणम् ।

१६ - ३५ - अपवादस्य निमित्ताभावात् ।

१७ - ३५ - न अत्र अपवादस्य निमित्तम् अस्ति ।

१८ - ३५ - किम् कारणम् ।

१९ - ३५ - अनद्यतने हि तयोः विधानम् ।

२० - ३५ - अनद्यतने हि तौ विधीयेते लङ्लुटौ ।

२१ - ३५ - न च अत्र अनद्यतनः कालः विवक्षितः ।

२२ - ३५ - किम् तर्हि ।

२३ - ३५ - भूतकालसामान्यम् भविष्यत्कालसामान्यम् च ।

२४ - ३५ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति ।

२५ - ३५ - इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति ।

२६ - ३५ - अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव ।

२७ - ३५ - कथम् पुनः सतः नाम अविवक्षा स्यात् ।

२८ - ३५ - सतः अपि अविवक्षा भवति ।

२९ - ३५ - तत् यथा ।

३० - ३५ - अलोमिका एडका ।

३१ - ३५ - अनुदरा कन्या ।

३२ - ३५ - असतः च विवक्षा भवति ।

३३ - ३५ - तत् यथा ।

३४ - ३५ - समुद्रः कुण्डिका ।

३५ - ३५ - विन्ध्यः वर्धितकम् इति ।

१ - १० - वसेः लुङ् रात्रिशेषे ।

२ - १० - वसेः लुङ् रात्रिशेषे वक्तव्यः ।

३ - १० - न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति ।

४ - १० - क्व भवान् उषितः इति ।

५ - १० - सः आह ।

६ - १० - अमुत्र अवात्सम् इति ।

७ - १० - अमुत्र अवसम् इति प्राप्नोति ।

८ - १० - जागरणसन्ततौ ।

९ - १० - जागरणसन्ततौ इति वक्तव्यम् ।

१० - १० - यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् ।

१ - २१ - अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति ।

२ - २१ - अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः ।

३ - २१ - अविद्यमानाद्यतने अनद्यतने इति ।

४ - २१ - किम् प्रयोजनम् ।

५ - २१ - अद्य ह्यः अभुक्ष्महि इति ।

६ - २१ - अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् ।

७ - २१ - यदि एवम् अद्यतने अपि लङ् प्राप्नोति ।

८ - २१ - न हि अद्यतने अद्यतनः विद्यते ।

९ - २१ - अद्यतने अपि अद्यतनः विद्यते ।

१० - २१ - कथम् ।

११ - २१ - व्यपदेशिवद्भावेन ।

१२ - २१ - परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये ।

१३ - २१ - परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः ।

१४ - २१ - अरुणत् यवनः साकेतम् ।

१५ - २१ - अरुणत् यवनः मधमिकाम् ।

१६ - २१ - परोक्षे इति किमर्थम् ।

१७ - २१ - उदगात् आदित्यः ।

१८ - २१ - लोकविज्ञते इति किमर्थम् ।

१९ - २१ - चकार कटम् देवदत्तः ।

२० - २१ - प्रयोक्तुः दर्शनविषये इति किमर्थम् ।

२१ - २१ - जघान कंसम् किल वासुदेवः ।

१ - १४ - किम् उदाहरणम् ।

२ - १४ - तत्र सक्तून् पास्यामः ।

३ - १४ - अभिजानासि देवदत्त तत्र सक्तून् अपिबाम ।

४ - १४ - भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् ।

५ - १४ - परम् तु कथम् साकाङ्क्षम् ।

६ - १४ - परम् अपि साकाङ्क्षम् ।

७ - १४ - कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् ।

८ - १४ - विभाषा साकाङ्क्षे सर्वत्र ।

९ - १४ - विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् ।

१० - १४ - क्व सर्वत्र ।

११ - १४ - यदि च अयदि च ।

१२ - १४ - यदि तावत् ।

१३ - १४ - अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि ।

१४ - १४ - अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि ।

१ - ११ - परोक्षे इति उच्यते ।

२ - ११ - किम् परोक्षम् नाम ।

३ - ११ - परम् अक्ष्णः परोक्षम् ।

४ - ११ - अक्षि पुनः किम् ।

५ - ११ - अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः ।

६ - ११ - अनुते अनेन इति अक्षि ।

७ - ११ - यदि एवम् पराक्षम् इति प्राप्नोति ।

८ - ११ - न एषः दोषः ।

९ - ११ - परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः ।

१० - ११ - उत्वम् वा आदेः परात् अक्ष्णः ।अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् ।

११ - ११ - सिद्धम् वा अस्मात् निपातनात् ।

१ - ४१ - कस्मिन् पुनः परोक्षे ।

२ - ४१ - काले ।

३ - ४१ - न वै कालाधिकारः अस्ति ।

४ - ४१ - एवम् तर्हि धातोः इति वर्तते ।

५ - ४१ - धातौ परोक्षे ।

६ - ४१ - धातुः वै शब्दः ।

७ - ४१ - न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति ।

८ - ४१ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

९ - ४१ - परोक्षे धातौ परोक्षे धात्वर्थे इति ।

१० - ४१ - कः पुनः धात्वर्थः ।

११ - ४१ - क्रिया ।

१२ - ४१ - क्रियायाम् परोक्षायाम् ।

१३ - ४१ - यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति ।

१४ - ४१ - किम् कारणम् ।

१५ - ४१ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

१६ - ४१ - एवम् तर्हि साधनेषु परोक्षेषु ।

१७ - ४१ - साधनेषु च भवतः कः सम्प्रत्ययः ।

१८ - ४१ - यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् ।

१९ - ४१ - अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः ।

२० - ४१ - अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् ।

२१ - ४१ - यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् ।

२२ - ४१ - भवन्ति हि तस्य साधनानि परोक्षाणि ।

२३ - ४१ - अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् ।

२४ - ४१ - कथञ्जातीयकम् पुनः परोक्षम् नाम ।

२५ - ४१ - के चित् तावत् आहुः ।

२६ - ४१ - वर्षशतवृत्तम् परोक्षम् इति ।

२७ - ४१ - अपरे आहुः ।

२८ - ४१ - कटान्तरितम् परोक्षम् इति ।

२९ - ४१ - अपरे आहूः ।

३० - ४१ - द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति ।

३१ - ४१ - सर्वथा उत्तमः न सिध्यति ।

३२ - ४१ - सुप्तमत्तोयोः इति वक्तव्यम् ।

३३ - ४१ - सुप्तः अहम् किल विललाप ।

३४ - ४१ - मत्तः अहम् किल विललाप ।

३५ - ४१ - सुप्तः नु अहम् किल विललाप ।

३६ - ४१ - मत्तः नु अहम् किल विललाप ।

३७ - ४१ - अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते ।

३८ - ४१ - तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते ।

३९ - ४१ - किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते ।

४० - ४१ - मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति ।

४१ - ४१ - मनसः असान्निध्यात् ।

१ - ९ - परोक्षे लिट् अत्यन्ताअपह्नवे च ।

२ - ९ - परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् ।

३ - ९ - नो खण्डिकान् जगाम नो कलिङ्गान् जगाम ।

४ - ९ - न कारिसोमम् प्रपौ ।

५ - ९ - न दार्वजस्य प्रतिजग्राह ।

६ - ९ - कः मे मनुष्यः प्रहरेत् वधाय ।

७ - ९ - परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् ।

८ - ९ - उत्वम् वा आदेः परात् अक्ष्णः ।

९ - ९ - सिद्धम् वा अस्मात् निपातनात् ।

१ - २३ - स्म पुरा भूतमात्रे न स्म पुरा अद्यतने ।

२ - २३ - स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् ।

३ - २३ - किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति ।

४ - २३ - तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति ।

५ - २३ - आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति ।

६ - २३ - तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् ।

७ - २३ - किम् च अतः ।

८ - २३ - स्मादिविधिः पुरान्तः यदि अविशेषेण किम् कृतम् भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह ।

९ - २३ - स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति ।

१० - २३ - अनुवृत्तिः अनद्यतनस्य लात् स्मे इति तत्र न अस्ति नञ्कार्यम् । लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते ।

११ - २३ - अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेत् एतत् वाच्यम् । तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति ।

१२ - २३ - तत्र च अपि लङ्ग्रहणम् । तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति ।

१३ - २३ - अथ बुद्धिः अविशेषाद् स्म पुरा हेतू ।

१४ - २३ - अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति ।

१५ - २३ - तत्र च अपि श्र्णु भूयः ।

१६ - २३ - अपरोक्षे चे इति एषः प्राक् पुरिसंशब्दनात् अविनिवृत्तः सर्वत्र अनद्यतनः ।

१७ - २३ - तथा सति नञा किम् इह कार्यम् ।

१८ - २३ - स्मादौ अपरोक्षे च इति अकार्यम् इति शक्यम् एतत् अपि विद्धि ।

१९ - २३ - शक्यम् हि निवर्तयितुम् परोक्षे इति लात् स्मे इति अत्र ।

२० - २३ - स्यात् एषा तव बुद्धिः ।

२१ - २३ - स्मलक्षणे अपि एवम् एव सिद्धम् इति ।

२२ - २३ - लट् स्मे इति भवेत् न अर्थः ।

२३ - २३ - तस्मात् कार्यम् परार्थम् तु । एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।

१ - १० - ननौ पृष्टप्रतिवचने इति अशिष्यम् क्रियासमाप्तेः विवक्षितत्वात् ।

२ - १० - ननौ पृष्टप्रतिवचने इति अशिष्यः लट् ।

३ - १० - किम् कारणम् ।

४ - १० - क्रियासमाप्तेः विवक्षितत्वात् ।

५ - १० - क्रियायाः अत्र असमाप्तिः विवक्षिता ।

६ - १० - एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् ।

७ - १० - तत्र वर्तमाने लट् इति एव सिद्धम् ।

८ - १० - यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः ।

९ - १० - इष्येते शतृशानचौ ननु माम् कुर्वन्तम् पश्य ।

१० - १० - ननु माम् कुर्वाणम् पश्य इति ।

१ - ३० - हशश्वद्भ्याम् पुरा ।

२ - ३० - हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन ।

३ - ३० - हशश्वल्लक्षणस्य अवकाशः ।

४ - ३० - इति ह अकरोत् ।

५ - ३० - इह ह चकार ।

६ - ३० - शश्वत् अकरोत् ।

७ - ३० - शश्वत् चकार ।

८ - ३० - पुरालक्षणस्य अवकाशः ।

९ - ३० - रथेन अयम् पुरा याति ।

१० - ३० - रथेन अयम् पुरा अयासीत् ।

११ - ३० - इह उभयम् प्राप्नोति ।

१२ - ३० - रथेन ह शश्वत् पुरा याति ।

१३ - ३० - रथेन ह शश्वत् पुरा अयासीत् ।

१४ - ३० - पुरालक्षणः भवति विप्रतिषेधेन ।

१५ - ३० - स्मः सर्वेभ्यः विप्रतिषेधेन ।

१६ - ३० - स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन ।

१७ - ३० - हशश्वल्लक्षणात् पुरालक्षणात् च ।

१८ - ३० - हशश्वल्लक्षणस्य अवकाशः ।

१९ - ३० - इति ह अकरोत् ।

२० - ३० - इह ह चकार ।

२१ - ३० - शश्वत् अकरोत् ।

२२ - ३० - शश्वत् चकार ।

२३ - ३० - पुरालक्षणस्य अवकाशः ।

२४ - ३० - रथेन अयम् पुरा याति ।

२५ - ३० - रथेन अयम् पुरा अयासीत् ।

२६ - ३० - स्मलक्षणस्य अवकाशः ।

२७ - ३० - धर्मेण स्म कुरवः युध्यन्ते ।

२८ - ३० - इह सर्वम् प्राप्नोति ।

२९ - ३० - न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति ।

३० - ३० - स्मलक्षणः लट् भवति विप्रतिषेधेन ।

१ - ६० - प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात् ।

२ - ६० - प्रवृत्तस्य अविरामे शिष्या भवन्ती ।

३ - ६० - इह अधीमहे ।

४ - ६० - इह वसामः ।

५ - ६० - इह पुष्यमित्रम् याजयामः ।

६ - ६० - किम् पुनः कारणम् न सिध्यति ।

७ - ६० - अवर्तमानत्वात् ।

८ - ६० - नित्यप्रवृत्ते च कालाविभागात् ।

९ - ६० - नित्यप्रवृत्ते च शासितव्या भवन्ती ।

१० - ६० - तिष्ठन्ति पर्वताः ।

११ - ६० - स्रवन्ति नद्यः इति ।

१२ - ६० - किम् पुनः कारणम् न सिध्यति ।

१३ - ६० - कालाविभागात् ।

१४ - ६० - इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः ।

१५ - ६० - न च अत्र भूतभविष्यन्तौ कालौ स्तः ।

१६ - ६० - न्याय्या तु आरम्भानपवर्गात् ।

१७ - ६० - न्याय्या तु एषा वर्तमानकालता ।

१८ - ६० - कुतः ।

१९ - ६० - आरम्भानपवर्गात् ।

२० - ६० - आरम्भः अत्र अनपवृक्तः ।

२१ - ६० - एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः ।

२२ - ६० - अस्ति च मुक्तसंशये विरामः ।

२३ - ६० - यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् ।

२४ - ६० - सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति ।

२५ - ६० - यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् ।

२६ - ६० - सन्ति च कालविभागाः ।

२७ - ६० - सन्ति खलु अपि कालविभागाः ।

२८ - ६० - तिष्ठन्ति पर्वताः ।

२९ - ६० - स्थास्यन्ति पर्वताः ।

३० - ६० - तस्थुः पर्वताः ।

३१ - ६० - किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः ।

३२ - ६० - न अवश्यम् प्रयोगात् एव ।

३३ - ६० - इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् ।

३४ - ६० - इह तावत् तिष्ठन्ति पर्वताः इति ।

३५ - ६० - सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु ।

३६ - ६० - स्थास्यन्ति पर्वताः इति ।

३७ - ६० - इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु ।

३८ - ६० - तस्थुः पर्वताः इति ।

३९ - ६० - ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु ।

४० - ६० - अपरः आह न अस्ति वर्तमानः कालः इति ।

४१ - ६० - अपि च अत्र श्लोकान् उदाहरन्ति न वर्तते चक्रम् ।

४२ - ६० - इषुः न पात्यते ।

४३ - ६० - न स्यन्दन्ते सरितः सागराय ।

४४ - ६० - कूटस्थः अयम् लोकः न विचेष्टा अस्ति ।

४५ - ६० - यः हि एवम् पश्यति सः अपि अनन्धः ।

४६ - ६० - मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति किम् ते पतितलक्षणम् ।

४७ - ६० - अनागते न पतसि अतिक्रान्ते च काक न ।

४८ - ६० - यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् ।

४९ - ६० - हिमवान् अपि गच्छति ।

५० - ६० - अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् ।

५१ - ६० - सर्वत्र गतिः न अस्ति ।

५२ - ६० - गच्छति इति किम् उच्यते ।

५३ - ६० - क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् ।

५४ - ६० - अप्रः आह ।

५५ - ६० - अस्ति वर्तमानः कालः इति ।

५६ - ६० - आदित्यगतिवत् न उपलभ्यते ।

५७ - ६० - अपि च अत्र श्लोकम् उदाहरन्ति ।

५८ - ६० - बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते ।

५९ - ६० - अस्ति इति ताम् वेदयन्ते त्रिभभावाः ।

६० - ६० - सूक्ष्मः हि भावः अनुमितेन गम्यः ।

१ - २७ - लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशानुपपत्तिः यथा अन्यत्र ।

२ - २७ - लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र ।

३ - २७ - तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति ।

४ - २७ - क्व अन्यत्र ।

५ - २७ - लङि ।

६ - २७ - अपचत् ओदनम् देवदत्तः इति ।

७ - २७ - योगः इति चेत् अन्यत्र अपि योगः स्यात् ।

८ - २७ - अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् ।

९ - २७ - क्व अन्यत्र ।

१० - २७ - लङि ।

११ - २७ - अपचत् ओदनम् देवदत्तः इति ।

१२ - २७ - न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन ।

१३ - २७ - तत् यथा ।

१४ - २७ - समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

१५ - २७ - न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः ।

१६ - २७ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

१७ - २७ - यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् ।

१८ - २७ - अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति ।

१९ - २७ - तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति ।

२० - २७ - विषमः उपन्यासः ।

२१ - २७ - प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च ।

२२ - २७ - सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति ।

२३ - २७ - भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् ।

२४ - २७ - तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति ।

२५ - २७ - कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति ।

२६ - २७ - तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति ।

२७ - २७ - सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति ।

१ - ८० - किम् पुनः अयम् पर्युदासः यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणे न इति ।

२ - ८० - कः च अत्र विशेषः ।

३ - ८० - लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् ।

४ - ८० - लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् ।

५ - ८० - कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः ।

६ - ८० - अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति ।

७ - ८० - प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः ।

८ - ८० - प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः ।

९ - ८० - कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति ।

१० - ८० - ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः ।

११ - ८० - कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति ।

१२ - ८० - सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।

१३ - ८० - सिद्धम् एतत् ।

१४ - ८० - कथम् ।

१५ - ८० - प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् ।

१६ - ८० - तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।

१७ - ८० - तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः ।

१८ - ८० - आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः ।

१९ - ८० - तत् एतत् इतरेतराश्रयम् भवति ।

२० - ८० - इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।

२१ - ८० - उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।

२२ - ८० - उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः ।

२३ - ८० - उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् ।

२४ - ८० - तत् एतत् इतरेतराश्रयम् भवति ।

२५ - ८० - इतरेतराश्रयाणि च न प्रक्ल्पन्ते ।

२६ - ८० - न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।

२७ - ८० - न वा एषः दोषः ।

२८ - ८० - किम् कारणम् ।

२९ - ८० - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् ।

३० - ८० - लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

३१ - ८० - तदाश्रयम् प्रत्ययविधानम् ।

३२ - ८० - प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति ।

३३ - ८० - तिङादेशात् सुबुत्पत्तिः । तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति ।

३४ - ८० - तस्मात् उत्तरपदप्रसिद्धिः ।

३५ - ८० - तस्मात् उत्तरपदम् प्रसिद्धम् ।

३६ - ८० - उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः ।

३७ - ८० - इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति ।

३८ - ८० - अस्ति अत्र विशेषः ।

३९ - ८० - नित्यः अत्र तिङादेशः ।

४० - ८० - उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति ।

४१ - ८० - नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति ।

४२ - ८० - इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति ।

४३ - ८० - अस्ति अत्र विशेषः ।

४४ - ८० - शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ ।

४५ - ८० - न च अपवादविषये उत्सर्गः अभिनिविशते ।

४६ - ८० - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

४७ - ८० - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

४८ - ८० - न तावत् अत्र कदा चित् तिङ् भवति ।

४९ - ८० - अपवादौ शतृशानचौ प्रतीक्षते ।

५० - ८० - तत् एतत् क्व सिद्धम् भवति ।

५१ - ८० - यत्र सामान्यात् उत्पत्तिः ।

५२ - ८० - यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति ।

५३ - ८० - वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति ।

५४ - ८० - इह च शतृशानचौ प्राप्नुतः ।

५५ - ८० - पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति ।

५६ - ८० - तत् एतत् कथम् कृत्वा सिद्धम् भवति ।

५७ - ८० - शतृशानचौ यदि लटः वा ।

५८ - ८० - यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च ।

५९ - ८० - तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ ।

६० - ८० - इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ ।

६१ - ८० - तत् तर्हि वावचनम् कर्तव्यम् ।

६२ - ८० - न कर्तव्यम् ।

६३ - ८० - प्रकृतम् अनुवर्तते ।

६४ - ८० - क्व प्रकृतम् ।

६५ - ८० - नन्वोः विभाषा इति ।

६६ - ८० - यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति ।

६७ - ८० - सम्बन्धम् अनुवर्तिष्यते ।

६८ - ८० - नन्वोः विभाषा ।

६९ - ८० - पुरि लुङ् च अस्मे विभाषा ।

७० - ८० - वर्तमाने लट् पुरि लुङ् च अस्मे विभाषा ।

७१ - ८० - लटः शतृशानचौ विभाषा ।

७२ - ८० - पुरि लुङ् च अस्मे इति निवृत्तम् ।

७३ - ८० - न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यम् ।

७४ - ८० - वक्तव्यम् च ।

७५ - ८० - किम् प्रयोजनम् ।

७६ - ८० - नित्याऋथम् ।

७७ - ८० - अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् ।

७८ - ८० - क्व तर्हि इदानीम् विभाषा ।

७९ - ८० - प्रथमासमानाधिकरणे ।

८० - ८० - पचन् पचति पचमानः पचते इति ।

१ - ४९ - लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् ।

२ - ४९ - लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४९ - तिष्ठन् मूत्रयति ।

४ - ४९ - गच्छन् भक्षयति ।

५ - ४९ - कर्तुः च लक्षणयोः पर्यायेण अचयोगे ।

६ - ४९ - कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् ।

७ - ४९ - यः अधीयानः आस्ते सः देवदत्त्तः ।

८ - ४९ - यः आसीनः अधीते सः देवदत्तः ।

९ - ४९ - अचयोगे इति किमर्थम् ।

१० - ४९ - यः आस्ते च अधीते च सः चैत्रः ।

११ - ४९ - तत्त्वान्वाख्याने च ।

१२ - ४९ - तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् ।

१३ - ४९ - शयाना वर्धते दूर्वा ।

१४ - ४९ - आसीनम् वर्धते बिसम् इति ।

१५ - ४९ - सदादयः च बहुलम् ।

१६ - ४९ - सदादयः च बहुलम् इति वक्तव्यम् ।

१७ - ४९ - सन् ब्राह्मणः अस्ति ब्राह्मणः ।

१८ - ४९ - विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति ।

१९ - ४९ - इङ्जुहोत्योः वावचनम् ।

२० - ४९ - इङ्जुहोत्योः वा इति वक्तव्यम् ।

२१ - ४९ - अधीते अधीयानः ।

२२ - ४९ - जुहोति जुह्वत् ।

२३ - ४९ - माङि आक्रोशे । माङि आक्रोशे इति वक्तव्यम् ।

२४ - ४९ - मा पचन् ।

२५ - ४९ - मा पचमानः ।

२६ - ४९ - तत् तर्हि वक्तव्यम् ।

२७ - ४९ - न वक्तव्यम् ।

२८ - ४९ - लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् ।

२९ - ४९ - इह तावत् तिष्ठन् मूत्रयति इति ।

३० - ४९ - तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् ।

३१ - ४९ - गच्छन् भक्षयति इति ।

३२ - ४९ - गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् ।

३३ - ४९ - यः अधीयानः आस्ते सः देवदत्त्तः इति ।

३४ - ४९ - अध्ययनक्रिया आसनक्रियायाः लक्षणम् ।

३५ - ४९ - यः आसीनः अधीते सः देवदत्तः इति ।

३६ - ४९ - आसिक्रिया अध्ययनक्रियायाः लक्षणम् ।

३७ - ४९ - इदम् तर्हि प्रयोजनम् ।

३८ - ४९ - अचयोगे इति वक्ष्यामि इति ।

३९ - ४९ - इह मा भूत् ।

४० - ४९ - यः आस्ते च अधीते च सः चैत्रः इति ।

४१ - ४९ - एतत् अपि न अस्ति प्रयोजनम् ।

४२ - ४९ - न एतत् क्रियायाः लक्षणम् ।

४३ - ४९ - किम् तर्हि ।

४४ - ४९ - कर्तृलक्षणम् एतत् ।

४५ - ४९ - शयाना वर्धते दूर्वा इति ।

४६ - ४९ - शेतिक्रिया वृद्धिक्रियायाः लक्षणम् ।

४७ - ४९ - आसीनम् वर्धते बिसम् इति ।

४८ - ४९ - आसिक्रिया वृद्धिक्रियायाः लक्षणम् ।

४९ - ४९ - सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव.

१ - ५० - तौग्रहणम् किमर्थम् ।

२ - ५० - शतृशानचौ प्रतिनिर्दिश्येते ।

३ - ५० - न एतत् अस्ति प्रयोजनम् ।

४ - ५० - प्रकृतौ शतृशानचौ अनुवर्तिष्येते ।

५ - ५० - क्व प्रकृतौ ।

६ - ५० - लटः शतृसानचौ अप्रथमासमानाधिकरणे इति ।

७ - ५० - अतः उत्तरम् पठति ।

८ - ५० - तौ सत् इति वचनम् असंसर्गार्थम् टौ ग्रहणम् क्रियते असंसर्गार्थम् ।

९ - ५० - असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् ।

१० - ५० - ननु च एते विशेषाः निवर्तेरन् ।

११ - ५० - यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः ।

१२ - ५० - तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात् ।

१३ - ५० - भूतभविष्यकालविहितयोः न स्यात् ।

१४ - ५० - किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् ।

१५ - ५० - पूरणगुणसुहितसत् इति ।

१६ - ५० - ब्राह्मणस्य पक्ष्यन् ।

१७ - ५० - ब्राह्मणस्य पक्ष्यमाणः ।

१८ - ५० - अथ क्रियमाणे अपि तौग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या ।

१९ - ५० - लभ्या इति आह ।

२० - ५० - कथम् ।

२१ - ५० - तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते ।

२२ - ५० - सति च योगाङ्गे योगविभागः करिष्यते ।

२३ - ५० - तौ ।

२४ - ५० - तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः ।

२५ - ५० - ततः सत् ।

२६ - ५० - सत्स्ञ्ज्ञौ भवतौ शतृशानचौ ।

२७ - ५० - इह अपि तर्हि प्राप्नुतः ।

२८ - ५० - कारकः हारकः इति ।

२९ - ५० - अवधारणम् लृटि विधानम् ।

३० - ५० - लृतः सत् वा इति एतत् नियमार्थम् भविष्यति ।

३१ - ५० - लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।

३२ - ५० - कैमर्थ्यक्यात् नियमः भवति ।

३३ - ५० - विधेयम् न अस्ति इति कृत्वा ।

३४ - ५० - इह च अस्ति विधेयम् ।

३५ - ५० - किम् ।

३६ - ५० - नित्यौ शतृशानचौ प्राप्तौ ।

३७ - ५० - तौ विभाषा विधेयौ ।

३८ - ५० - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

३९ - ५० - योगविभागतः च विहितम् सत् ।

४० - ५० - एवम् तर्हि योगविभागः करिष्यते ।

४१ - ५० - लृटः सत् ।

४२ - ५० - लृटः सत्सञ्ज्ञौ भवतः ।

४३ - ५० - किमर्थम् इदम् ।

४४ - ५० - नियमार्थम् ।

४५ - ५० - लृटः एव धातुमात्रात् परस्य न अन्यस्य इति ।

४६ - ५० - ततः वा ।

४७ - ५० - वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः ।

४८ - ५० - तत्र अयम् अपि अर्थः ।

४९ - ५० - सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति ।

५० - ५० - तत् न वक्तव्यम् भवति ।

१ - ३७ - अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ ।

२ - ३७ - कः च अत्र विशेषः ।

३ - ३७ - उत्तरयोः लादेशे वावचनम् ।

४ - ३७ - उत्तरयोः लादेशे वा इति वक्तव्यम् ।

५ - ३७ - पवमानः यजमानः ।

६ - ३७ - पवते यजते इति अपि यथा स्यात् ।

७ - ३७ - साधनाभिधानम् ।

८ - ३७ - साधनाभिधानम् च प्राप्नोति ।

९ - ३७ - लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः ।

१० - ३७ - स्वरः ।

११ - ३७ - स्वरः च साध्यः ।

१२ - ३७ - कति इह पवमानाः ।

१३ - ३७ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

१४ - ३७ - उपग्रहप्रतिषेधः च ।

१५ - ३७ - उपग्रहस्य च प्रतिषेधः वक्तव्यः ।

१६ - ३७ - कति इह निघ्नानाः ।

१७ - ३७ - तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति ।

१८ - ३७ - स्ताम् तर्हि अलादेशौ ।

१९ - ३७ - अलादेशे षष्ठीप्रतिषेधः ।

२० - ३७ - अलादेशे षष्ठीप्रतिषेधः वक्तव्यः ।

२१ - ३७ - सोमम् पवमानः ।

२२ - ३७ - नडम् आघ्नानः ।

२३ - ३७ - अधीयन् पारायणम् ।

२४ - ३७ - लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।

२५ - ३७ - मा भूत् एवम् ।

२६ - ३७ - तृन् इति एव भविष्यति ।

२७ - ३७ - कथम् ।

२८ - ३७ - तृन् इति न इदम् प्रत्ययग्रहणम् ।

२९ - ३७ - किम् तर्हि ।

३० - ३७ - प्रत्याहारग्रहणम् ।

३१ - ३७ - क्व सन्निविष्टाणाम् प्रत्याहारः ।

३२ - ३७ - लटः शतृ इति अतः आरभ्य आ तृनः नकारात् ।

३३ - ३७ - यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।

३४ - ३७ - द्विषः शतुः वावचनम् ।

३५ - ३७ - द्विषः शतुः वा इति वक्तव्यम् ।

३६ - ३७ - तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् ।

३७ - ३७ - तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति.

१ - ३० - तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य ।

२ - ३० - तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् ।

३ - ३० - होता पोता ।

४ - ३० - अनुपसर्गस्य इति किमर्थम् ।

५ - ३० - प्रशास्ता प्रतिहर्ता ।

६ - ३० - नयतेः षुक् च ।

७ - ३० - नयतेः षुक् वक्तव्यः ।

८ - ३० - तृन् च प्रत्ययः वक्तव्यञ्. नेष्टा ।

९ - ३० - न वा धात्वन्यत्वात् । न वा वक्तव्यम् ।

१० - ३० - किम् कारणम् ।

११ - ३० - धात्वन्यत्वात् ।

१२ - ३० - धात्वन्तरम् नेषतिः ।

१३ - ३० - कथम् ज्ञायते ।

१४ - ३० - नेषतु नेष्टात् इति दर्शनात् ।

१५ - ३० - नेषतु नेष्टात् इति प्रयोगः दृश्यते ।

१६ - ३० - इन्द्रः नः तेन नेषतु ।

१७ - ३० - गाः वः नेष्टात् ।

१८ - ३० - त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च ।

१९ - ३० - त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति ।

२० - ३० - त्वष्टा ।

२१ - ३० - किम् पुनः इदम् त्विषेः एव अनिट्वम् ।

२२ - ३० - न इति आह ।

२३ - ३० - यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति ।

२४ - ३० - क्षदेः च युक्ते ।

२५ - ३० - क्षदेः च युक्ते तृन् वक्तव्यः ।

२६ - ३० - क्षत्ता ।

२७ - ३० - छन्दसि तृच् च ।

२८ - ३० - छन्दसि तृच् च तृन् च वक्तव्यः ।

२९ - ३० - क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।

३० - ३० - क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।

१ - ५२ - स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः ।

२ - ५२ - स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः ।

३ - ५२ - स्थास्नुः इति ।

४ - ५२ - घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति ।

५ - ५२ - एवम् तर्हि न कित् करिष्यते ।

६ - ५२ - अकिति गुणप्रतिषेधः ।

७ - ५२ - यदि अकित् गुणप्रतिषेधः वक्तव्यः ।

८ - ५२ - जिष्णुः इति ।

९ - ५२ - भुवः इट्प्रतिषेधः च ।

१० - ५२ - भुवः इट्प्रतिषेधः च वक्तव्यः ।

११ - ५२ - किम् च अन्यत् ।

१२ - ५२ - गुणप्रतिषेधः च ।

१३ - ५२ - भूष्णुः इति ।

१४ - ५२ - अस्तु तर्हि कित्. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।

१५ - ५२ - न एषः दोषः ।

१६ - ५२ - स्थादंशिभ्याम् स्नुः छन्दसि ।

१७ - ५२ - स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः ।

१८ - ५२ - स्थास्नु जङ्गमम् ।

१९ - ५२ - दङ्क्ष्णवः पशवः इति ।

२० - ५२ - सः इदानीम् स्थः अविशेषेण विधास्यते ।

२१ - ५२ - सूत्रम् तर्हि भिद्यते ।

२२ - ५२ - यथान्यासम् अस्तु. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति ।

२३ - ५२ - एवम् तर्हि गित् करिष्यते ।

२४ - ५२ - स्थोः गित्त्वात् न स्थः ईकारः ।

२५ - ५२ - स्थोः गित्त्वात् स्थः ईकारः न भविष्यति ।

२६ - ५२ - किम् कारणम् ।

२७ - ५२ - क्ङितोः ईत्त्वशासनात् ।

२८ - ५२ - क्ङितोः ईत्त्वम् शिष्यते ।

२९ - ५२ - इह तर्हि जिष्णुः इति गुणः प्राप्नोति ।

३० - ५२ - गुणाभावः त्रिषु स्मार्यः ।

३१ - ५२ - गुणाभावः त्रिषु स्मर्तव्यः ।

३२ - ५२ - गिति किति ङिति इति ।

३३ - ५२ - तत् गकारग्रहणम् कर्तव्यम् ।

३४ - ५२ - न कर्तव्यम् ।

३५ - ५२ - क्रियते न्यासे एव ।

३६ - ५२ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

३७ - ५२ - क्क्ङिति च इति ।

३८ - ५२ - इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति ।

३९ - ५२ - श्र्युको अनिट्त्वम् गकोः इतोः ।

४० - ५२ - श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् ।

४१ - ५२ - तत् गकारग्रहणम् कर्तव्यम् ।

४२ - ५२ - न कर्तव्यम् ।

४३ - ५२ - क्रियते न्यासः एव ।

४४ - ५२ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

४५ - ५२ - श्र्युकः क्किति इति ।

४६ - ५२ - यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति ।

४७ - ५२ - सौत्रः निर्देशः ।

४८ - ५२ - अथ वा असंहितया निर्देशः करिष्यते ।

४९ - ५२ - श्र्युकः क्किति इति ।

५० - ५२ - स्थोः गित्त्वात् न स्थः ईकारः क्ङितोः ईत्त्वशासनात् ।

५१ - ५२ - गुणाभावः त्रिषु स्मार्यः ।

५२ - ५२ - श्र्युको अनिट्त्वम् गकोः इतोः ।

१ - १३ - घिनण् अयम् वक्तव्यः ।

२ - १३ - घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत ।

३ - १३ - न एषः दोषः ।

४ - १३ - झल्ग्रहणम् तत्र चोदयिष्यति ।

५ - १३ - इह तर्हि शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत ।

६ - १३ - इष्यते एव ह्रस्वत्वम् ।

७ - १३ - घिनुण् अकर्मकाणाम् ।

८ - १३ - घिनुण् अकर्मकाणाम् इति वक्तव्यम् ।

९ - १३ - इह मा भूत् ।

१० - १३ - सम्पृणक्ति शाकम् इति ।

११ - १३ - उक्तम् वा ।

१२ - १३ - किम् उक्तम् ।

१३ - १३ - अनभिधानात् इति ।

१ - १९ - किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् ।

२ - १९ - न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा ।

३ - १९ - तत् एव रूपम् सः एव स्वरः ।

४ - १९ - वुञ्म् अनेकाचः ।

५ - १९ - वुञ्म् अनेकाचः प्रयोजयन्ति ।

६ - १९ - असूयकः ।

७ - १९ - अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् ।

८ - १९ - न सिध्यति ।

९ - १९ - अयम् तच्छीलादिषु तृन् विधीयते ।

१० - १९ - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

११ - १९ - वासरूपन्यायेन ण्वुल् अपि भविष्यति ।

१२ - १९ - अतः उत्तरम् पठति ।

१३ - १९ - निन्दादिभ्यः वुञ्वचनम् अन्येभ्यः ण्वुलः प्रतिषेधार्थम् ।

१४ - १९ - निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् ।

१५ - १९ - किम् ज्ञाप्यम् ।

१६ - १९ - एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति ।

१७ - १९ - तृजादिप्रतिषेधाऋथम् वा ।

१८ - १९ - अथ वा एतत् ज्ञापयति आचार्यः ।

१९ - १९ - तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।

१ - १८ - पदिग्रहणम् अनर्थकम् अनुदात्तेतः च हलादेः इति सिद्धत्वात् ।

२ - १८ - पदिग्रहणम् अनर्थकम् ।

३ - १८ - किम् कारणम् ।

४ - १८ - अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः ।

५ - १८ - न सिध्यति ।

६ - १८ - अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशृ̄भ्यः उकञ् इति ।

७ - १८ - सः विशेषविहितः सामान्यविहितम् युचम् बाधेत ।

८ - १८ - वासरूपन्यायेन युच् अपि भविष्यति ।

९ - १८ - असरूपनिवृत्त्यर्थम् तु ।

१० - १८ - असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते ।

११ - १८ - एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति ।

१२ - १८ - यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् ।

१३ - १८ - अयम् दीपेः रः विधीयते ।

१४ - १८ - नमिकम्पिस्म्यजसहिंसदीपः रः इति ।

१५ - १८ - सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते ।

१६ - १८ - एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति ।

१७ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१८ - १८ - कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति ।

१ - १० - किमर्थम् आलुच् उच्यते न लुश् एव उच्येत ।

२ - १० - का रूपसिद्धिः स्पृहयालुः गृहयालुः ।

३ - १० - शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।

४ - १० - एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

५ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - १० - आलुचि शीङ्ग्रहणम् चोदयिष्यति ।

७ - १० - तत् न कर्तव्यम् भवति ।

८ - १० - आलुचि शीङ्ग्रहणम् ।

९ - १० - आलुचि शीङ्ग्रहणम् कर्तव्यम् ।

१० - १० - शयालुः ।

१ - ३५ - किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् ।

२ - ३५ - किकिनोः कित्त्वम् ऋ̄कारगुणप्रतिषेधाऋथम् ।

३ - ३५ - किकिनोः कित्त्वम् क्रियते ऋ̄कारगुणप्रतिषेधाऋथम् ।

४ - ३५ - अयम् ऋ̄कारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यृ̄त्राम् इति ।

५ - ३५ - सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति ।

६ - ३५ - सः पुनः कित्त्वे बाध्यते ।

७ - ३५ - उत्सर्गः छन्दसि सदादिभ्यः दर्शनात् ।

८ - ३५ - उत्सर्गः छन्दसि किकिनौ वक्तव्यौ ।

९ - ३५ - किम् प्रयोजनम् ।

१० - ३५ - सदादिभ्यः दर्शनात् ।

११ - ३५ - सदादिभ्यः हि किकिनौ दृश्येते ।

१२ - ३५ - सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः ।

१३ - ३५ - नेमिः चक्रम् इव अभवत् ।

१४ - ३५ - विविचिम् रत्नधातमम् ।

१५ - ३५ - भाषायाम् धाञ्कृसृजनिनिमिभ्यः । भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ ।

१६ - ३५ - धाञ् ।

१७ - ३५ - दधिः ।

१८ - ३५ - धाञ् ।

१९ - ३५ - कृ ।

२० - ३५ - चक्रिः ।

२१ - ३५ - कृ ।

२२ - ३५ - सृ ।

२३ - ३५ - सस्रिः ।

२४ - ३५ - सृ ।

२५ - ३५ - जनि ।

२६ - ३५ - जज्ञिः ।

२७ - ३५ - जनि ।

२८ - ३५ - नमि ।

२९ - ३५ - नेमिः ।

३० - ३५ - सासहिवावहिचाचलिपापतीनाम् निपातनम् ।

३१ - ३५ - सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् ।

३२ - ३५ - वृषा सहमानम् सासहिः ।

३३ - ३५ - वावहिः चाचलिः पापतिः ।

३४ - ३५ - अपरः आह सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ ।

३५ - ३५ - एतानि एव उदाहरणानि ।

१ - २ - भियः क्रुकन् अपि वक्तव्यः ।

२ - २ - भीरुकः ।

१ - २० - किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।

२ - २० - क्विब्विधिः अनुपपदार्थः ।

३ - २० - अनुपपदार्थः अयम् आरम्भः ।

४ - २० - पचेः पक् ।

५ - २० - भिदेः भित् ।

६ - २० - छिदेः छित् ।

७ - २० - अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् ।

८ - २० - न सिध्यति ।

९ - २० - इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति ।

१० - २० - तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति ।

११ - २० - तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् ।

१२ - २० - न एतत् अस्ति प्रयोजनम् ।

१३ - २० - यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च ।

१४ - २० - न सिध्यति ।

१५ - २० - अयम् तच्छीलादिषु तृन् विधीयते ।

१६ - २० - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

१७ - २० - वासरूपन्यायेन ण्वुल् अपि भविष्यति ।

१८ - २० - न सिध्यति ।

१९ - २० - इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति ।

२० - २० - क्विप् च अपि तृजादिः ।

१ - ४९ - वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च ।

२ - ४९ - वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च ।

३ - ४९ - वचि ।

४ - ४९ - वाक् ।

५ - ४९ - वचि ।

६ - ४९ - प्रच्छि ।

७ - ४९ - शब्दप्राट् प्रच्छि ।

८ - ४९ - आयतस्तु ।

९ - ४९ - आयतस्तूः ।

१० - ४९ - आयतस्तु ।

११ - ४९ - कटप्रु ।

१२ - ४९ - कटप्रूः ।

१३ - ४९ - कटप्रु ।

१४ - ४९ - जु ।

१५ - ४९ - जूः ।

१६ - ४९ - जु ।

१७ - ४९ - श्रि ।

१८ - ४९ - श्रीः ।

१९ - ४९ - अपरः आह वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् ।

२० - ४९ - तत् तर्हि वक्तव्यम् ।

२१ - ४९ - न वक्तव्यम् ।

२२ - ४९ - दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति ।

२३ - ४९ - इदम् इह सम्प्रधार्यम् ।

२४ - ४९ - दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति ।

२५ - ४९ - किम् अत्र कर्तव्यम् ।

२६ - ४९ - परत्वात् सम्प्रसारणम् ।

२७ - ४९ - अन्तरङ्गम् दीर्घत्वम् ।

२८ - ४९ - का अन्तरङ्गता ।

२९ - ४९ - प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् ।

३० - ४९ - तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् ।

३१ - ४९ - प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् ।

३२ - ४९ - तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति ।

३३ - ४९ - द्युतिगमिजुहोतीनाम् द्वे च ।

३४ - ४९ - द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् ।

३५ - ४९ - दिद्युत्. द्युति ।

३६ - ४९ - गमि ।

३७ - ४९ - जगत् ।

३८ - ४९ - गमि ।

३९ - ४९ - जुहोति ।

४० - ४९ - जुहोतेः दीर्घः च ।

४१ - ४९ - जुहूः ।

४२ - ४९ - दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् ।

४३ - ४९ - ददृत् ।

४४ - ४९ - जुहूः जुहोतेः ह्वयतेः वा ।

४५ - ४९ - ददृत् दृणातेः दीर्यतेः वा ।

४६ - ४९ - जूः ज्वरतेः जीर्यतेः वा ।

४७ - ४९ - धायतेः सम्प्रसारणम् च ।

४८ - ४९ - धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः ।

४९ - ४९ - धीः ध्यायतेः वा दधातेः वा ।

१ - ११ - डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम् ।

२ - ११ - डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - किम् प्रयोजनम् ।

४ - ११ - धातुविधितुक्प्रतिषेधार्थम् ।

५ - ११ - धातुविधेः तुकः च प्रतिषेधः यथा स्यात् ।

६ - ११ - मित्रद्रुः मितद्रू मितद्रवः ।

७ - ११ - अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् ।

८ - ११ - इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् ।

९ - ११ - तुग्विधिः ।

१० - ११ - मितद्रुः ।

११ - ११ - ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् ।

१ - ३ - शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ ।

२ - ३ - कष्टम् भविष्यति इति आहुः ।

३ - ३ - अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP