पाद १ - खण्ड २४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३२ - समाहारः इति कः अयम् शब्दः ।

२ - ३२ - समाङ्पूर्वात् हरतेः सर्मसाधने घञ् ।

३ - ३२ - समाह्रियते समाहारः इति ।

४ - ३२ - यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् ।

५ - ३२ - एवम् तर्हि भावसाधनः भविष्यति ।

६ - ३२ - समाहरणम् समाहारः ।

७ - ३२ - अथ भावसाधने सति किम् अभिधीयते ।

८ - ३२ - यत् तत् औत्तराधर्यम् ।

९ - ३२ - कः पुनः गवाम् समाहारः ।

१० - ३२ - यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा ।

११ - ३२ - यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति ।

१२ - ३२ - एवम् तर्हि समभ्याशीकरणम् समाहारः ।

१३ - ३२ - एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति ।

१४ - ३२ - किम् कारणम् ।

१५ - ३२ - सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे ।

१६ - ३२ - न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते ।

१७ - ३२ - किम् तर्हि ।

१८ - ३२ - सादृश्ये अपि वर्तते ।

१९ - ३२ - तत् यथा मातुः अनुहरति पितुः अनुहरति ।

२० - ३२ - अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते ।

२१ - ३२ - अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा ।

२२ - ३२ - यत् आकाङ्क्षत तत् एकम् स च समाहारः ।

२३ - ३२ - अयम् तर्हि भावसाधने सति दोषः ।

२४ - ३२ - पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति ।

२५ - ३२ - न एषः दोषः ।

२६ - ३२ - इह तावत् अयम् प्रष्टव्यः ।

२७ - ३२ - अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते ।

२८ - ३२ - असम्भवात् ।

२९ - ३२ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

३० - ३२ - इदम् अपि एवञ्जातीयकम् एव ।

३१ - ३२ - असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।

३२ - ३२ - अथ वा अव्यतिरेकात् द्रव्याकृत्योः ।

१ - ५४ - किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति ।

२ - ५४ - एवम् भवितुम् अर्हति ।

३ - ५४ - द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

४ - ५४ - द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

५ - ५४ - का एतरेतराश्रयता ।

६ - ५४ - द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा ।

७ - ५४ - तत् एतत् इतरेतराश्रयम् ।

८ - ५४ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

९ - ५४ - एवम् तर्हि अर्थे इत् वक्ष्यामि ।

१० - ५४ - अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् ।

११ - ५४ - अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति ।

१२ - ५४ - पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः ।

१३ - ५४ - किम् कारणम् ।

१४ - ५४ - द्विगुना उक्तत्वात् बहुव्रीहिवत् ।

१५ - ५४ - तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।

१६ - ५४ - एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि ।

१७ - ५४ - समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञाभावः ।

१८ - ५४ - समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति ।

१९ - ५४ - क्व अन्यत्र ।

२० - ५४ - स्वरे ।

२१ - ५४ - पञ्चारत्निः , दशारत्निः ।

२२ - ५४ - इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

२३ - ५४ - सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।

२४ - ५४ - सिद्धम् एतत् ।

२५ - ५४ - कथम् ।

२६ - ५४ - प्रत्ययोत्तरपदयोः च इति वचनात् ।

२७ - ५४ - प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् ।

२८ - ५४ - ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति ।

२९ - ५४ - न एषः दोषः ।

३० - ५४ - इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

३१ - ५४ - न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

३२ - ५४ - न हि सञ्ज्ञा नित्या ।

३३ - ५४ - एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।

३४ - ५४ - तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

३५ - ५४ - सः पश्यति ।

३६ - ५४ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

३७ - ५४ - शाटकः वातव्यः च इति विप्रतिषिद्धम् ।

३८ - ५४ - भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

३९ - ५४ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

४० - ५४ - एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः ।

४१ - ५४ - अथ वा पुनः अस्तु अर्थे इति ।

४२ - ५४ - ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति ।

४३ - ५४ - न एषः दोषः ।

४४ - ५४ - न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते ।

४५ - ५४ - किम् तर्हि ।

४६ - ५४ - स्यादर्थे अपि वर्तते ।

४७ - ५४ - तत् यथा ।

४८ - ५४ - दारार्थम् घटामहे ।

४९ - ५४ - धनार्थम् भिक्षामहे ।

५० - ५४ - दाराः नः स्युः ।

५१ - ५४ - धनानि नः स्युः इति ।

५२ - ५४ - एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति ।

५३ - ५४ - द्विगोः वा लुग्वचनम् ज्ञापकम् तद्धितोत्पत्तेः ।

५४ - ५४ - अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति.

१ - ७१ - समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् ।

२ - ७१ - समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ ।

३ - ७१ - समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् ।

४ - ७१ - किम् कारणम् ।

५ - ७१ - तद्धितार्थे कृतत्वात् ।

६ - ७१ - तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति ।

७ - ७१ - यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति ।

८ - ७१ - उत्पद्यताम् ।

९ - ७१ - लुक् भविष्यति ।

१० - ७१ - लुक्कृतानि प्राप्नुवन्ति ।

११ - ७१ - कानि ।

१२ - ७१ - पञ्चपूली दशपूली ।

१३ - ७१ - अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति ।

१४ - ७१ - पञ्चगवम् दशगवम् ।

१५ - ७१ - गोः अतद्धितलुकि इत् टच् न प्रप्नोति ।

१६ - ७१ - न एषः दोषः ।

१७ - ७१ - अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि ।

१८ - ७१ - तत् नियमार्थम् भविष्यति ।

१९ - ७१ - समाहारे एव न अन्यत्र इति ।

२० - ७१ - गोः अकारः द्विगोः समाहारे ।

२१ - ७१ - अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि ।

२२ - ७१ - तत् नियमार्थम् भविष्यति ।

२३ - ७१ - समाहारे एव न अन्यत्र इति ।

२४ - ७१ - अभिधानार्थम् तु ।

२५ - ७१ - अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् ।

२६ - ७१ - समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति ।

२७ - ७१ - किम् च स्यात् ।

२८ - ७१ - तद्धितोत्पत्तिः प्रसज्येत ।

२९ - ७१ - उत्पद्यताम् ।

३० - ७१ - लुक् भविष्यति ।

३१ - ७१ - लुक्कृतानि प्राप्नुवन्ति ।

३२ - ७१ - सर्वाणि परिहृतानि ।

३३ - ७१ - न सर्वाणि परिहृतानि ।

३४ - ७१ - पञ्चकुमारि दशकुमारि ।

३५ - ७१ - लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत ।

३६ - ७१ - द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् ।

३७ - ७१ - द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः ।

३८ - ७१ - वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः ।

३९ - ७१ - किम् प्रयोजनम् ।

४० - ७१ - समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति ।

४१ - ७१ - तत् तर्हि वक्तव्यम् ।

४२ - ७१ - न वक्तव्यम् ।

४३ - ७१ - इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

४४ - ७१ - यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः ।

४५ - ७१ - यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः ।

४६ - ७१ - उत्तरपदेन परिमाणिन द्विगोः समासवचनम् ।

४७ - ७१ - उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः ।

४८ - ७१ - द्विमासजातः त्रिमासजातः ।

४९ - ७१ - किम् पुनः कारणम् न सिध्यति ।

५० - ७१ - सुप् सुपा इति वर्तते ।

५१ - ७१ - एवम् तर्हि इदम् स्यात् ॒ द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति ।

५२ - ७१ - न एवम् शक्यम् ।

५३ - ७१ - स्वरे हि दोषः स्यात् ।

५४ - ७१ - द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते ।

५५ - ७१ - द्व्याह्नजातः च न सिध्यति ।

५६ - ७१ - द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् ।

५७ - ७१ - भवितव्यम् च यदा समाहारे द्विगुः ।

५८ - ७१ - द्व्यह्नजातः तु न सिध्यति ।

५९ - ७१ - किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि ।

६० - ७१ - पञ्चगवप्रियः दशगवप्रियः ।

६१ - ७१ - अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः ।

६२ - ७१ - अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः ।

६३ - ७१ - अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् ।

६४ - ७१ - उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति ।

६५ - ७१ - सर्वत्र मत्वर्थे प्रतिषेधः ।

६६ - ७१ - सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः ।

६७ - ७१ - किम् प्रयोजनम् ।

६८ - ७१ - पञ्चखट्वा दशखट्वा ।

६९ - ७१ - द्विगोः इति ईकारः मा भूत् ।

७० - ७१ - पञ्चगुः दशगुः ।

७१ - ७१ - गोः अतद्धितलुकि इति टच् मा भूत् इति ।

१ - २५ - किम् अनन्तरे योगे सङ्ख्यापूर्वः सः द्विगुसञ्ज्ञः आहोस्वित् पूर्वमात्रे ।

२ - २५ - किम् च अतः ।

३ - २५ - यदि अनन्तरे योगे एकशाटी द्विगोः इति ईकारः न प्राप्नोति ।

४ - २५ - अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति ।

५ - २५ - अस्तु अनन्तरे ।

६ - २५ - कमम् एकशाटी ।

७ - २५ - ईकारान्तेन समासः भविष्यति ।

८ - २५ - एका शाटी एकशाटी ।

९ - २५ - इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति ।

१० - २५ - अस्तु तर्हि पूर्वमात्रे. कथम् एकभिक्षा ।

११ - २५ - टाबन्तेन समासः भविष्यति ।

१२ - २५ - एका भिक्षा एकभिक्षा ।

१३ - २५ - इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति ।

१४ - २५ - अस्तु तर्हि अनन्तरे ।

१५ - २५ - कथम् एकापूपी ।

१६ - २५ - समाहारे इति एव सिद्धम् ।

१७ - २५ - कः पुनः अत्र समाहारः ।

१८ - २५ - यत् तद्दानम् सम्भ्रमः वा ।

१९ - २५ - इह तर्हि पञ्चहोतारः दशहोतारः इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति ।

२० - २५ - अस्तु तर्हि पूर्वमात्रे ।

२१ - २५ - कथम् सप्तर्षयः ।

२२ - २५ - अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् ।

२३ - २५ - अथ वा पुनः अस्तु अनन्तरे ।

२४ - २५ - कथम् पञ्चहोतारः दशहोतारः ।

२५ - २५ - आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् ।

१ - ५ - किम् उदाहरण्म् ।

२ - ५ - वैयाकरणखसूचिः ।

३ - ५ - किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः ।

४ - ५ - वैयाकरणः कुत्सितः ।

५ - ५ - तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति ।

१ - ६३ - उपमानानि इति उच्यते ।

२ - ६३ - कानि पुनः उपमानानि ।

३ - ६३ - किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् ।

४ - ६३ - किम् च अतः ।

५ - ६३ - यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति ।

६ - ६३ - अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव अश्वः इति ।

७ - ६३ - एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् विशेषः तत्र उपमानोपमेये भवतः ।

८ - ६३ - किम् वक्तव्यम् एतत् ।

९ - ६३ - न हि ।

१० - ६३ - कथम् अनुच्यमानम् गंस्यते ।

११ - ६३ - मानम् हि नाम अनिर्ज्ञातज्ञानार्थम् उपादीयते अनिर्ज्ञातम् अर्थम् ज्ञास्यामि इति ।

१२ - ६३ - तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् ।

१३ - ६३ - गौः इव गवयः इति ।

१४ - ६३ - गौः निर्ज्ञातः गवयः अनिर्ज्ञातः ।

१५ - ६३ - कामम् तर्हि अनेन एव हेतुना यस्य गवयः निर्ज्ञातः स्यात् गौः अनिर्ज्ञातः तेन कर्तव्यम् स्यात् गवयः इव गौः इति. बाढम् कर्तव्यम् ।

१६ - ६३ - किम् पुनः इह उदाहरणम् ।

१७ - ६३ - शस्त्रीश्यामा ।

१८ - ६३ - क्व पुनः अयम् श्यामाशब्दः वर्तते ।

१९ - ६३ - शत्र्याम् इति आह ।

२० - ६३ - केन इदानीम् देवदत्ता अभिधीयते ।

२१ - ६३ - समासेन. यदि एवम् शस्त्रीश्यामो देवदत्तः इति न सिध्यति ।

२२ - ६३ - उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

२३ - ६३ - यदि तर्हि उपसर्जनानि अपि एवञ्जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।

२४ - ६३ - एवम् तर्हि शस्त्र्याम् एव शस्त्रीशब्दः वर्तते देवदत्तायाम् श्यामाशब्दः ।

२५ - ६३ - एवम् अपि गुणः अनिर्दिष्टः भवति ।

२६ - ६३ - बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

२७ - ६३ - अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

२८ - ६३ - तत् यथा चन्द्रमुखी देवदत्ता इति ।

२९ - ६३ - बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

३० - ६३ - एवम् अपि समानाधिकरणेन इति वर्तते ।

३१ - ६३ - व्यधिकरणत्वात् समासः न प्राप्नोति ।

३२ - ६३ - किम् हि वचनात् न भवति ।

३३ - ६३ - यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।

३४ - ६३ - एवम् तर्हि तस्याम् एव उभयम् वर्तते ।



३५ - ६३ - एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति ।

३६ - ६३)
इतरथा हि बहु अपेक्ष्यम् स्यात् ।

३७ - ६३ - यदि तावत् एवम् विग्रहः क्रियते शस्त्री इव श्यामा देवदत्ता इति शस्त्र्याम् श्यामा इति एतत् अपेक्ष्यम् ।

३८ - ६३ - अथ अपि एवम् विग्रहः क्रियते यथा सास्त्रीश्यामा तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् श्यामा इति अपेक्ष्यम् स्यात् ।

३९ - ६३ - एवम् अपि गुणः अनिर्दिष्टः भवति ।

४० - ६३ - बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

४१ - ६३ - अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

४२ - ६३ - तत् यथा चन्द्रमुखी देवदत्ता इति ।

४३ - ६३ - बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

४४ - ६३ - उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनाप्रसिद्धिः ।

४५ - ६३ - उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनस्य अप्रसिद्धिः स्यात् ।

४६ - ६३ - शस्त्रीश्यामा ।

४७ - ६३ - श्यामाशब्दः अयम् शस्त्रीशब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

४८ - ६३ - तत्र सामान्यवचनैः इति समासः न प्राप्नोति ।

४९ - ६३ - न वा श्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च शब्दस्य सामान्यवचनप्रसिद्धिः ।

५० - ६३ - न वा एषः दोषः ।

५१ - ६३ - किम् कारणम् ।

५२ - ६३ - श्यामत्वस्यो उह्हयत्र भावात् ।

५३ - ६३ - उभयत्र एव श्यामत्वम् अस्ति शस्त्र्याम् देवदत्तायाम् च ।

५४ - ६३ - तद्वाचक्त्वात् च शब्दस्य ।

५५ - ६३ - सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र श्यामाशब्दः प्रयुज्यते ।

५६ - ६३ - किम्वाचकः ।

५७ - ६३ - उभयवाचकः ।

५८ - ६३ - श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च शब्दस्य सामान्यवचनम् प्रसिद्धम् ।

५९ - ६३ - सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति ।

६० - ६३ - न च अवश्यम् सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह. द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव ।

६१ - ६३ - अथ वा सामान्यवचनैः इति उच्यते ।

६२ - ६३ - सर्वः च शब्दः अन्येन शब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

६३ - ६३ - ते एवम् विज्ञास्यामः प्राक् अभिसम्बन्धात् सामान्यवचनः इति ।

१ - १३ - सामान्याप्रयोगे इति किमर्थम् ।

२ - १३ - इह मा भूत् ।

३ - १३ - पुरुषः अयम् व्याघ्रः इव शूरः ।

४ - १३ - पुरुषः अयम् व्याघ्रः इव बलवान् ।

५ - १३ - सामान्याप्रयोगे इति शक्यम् अकर्तुम् ।

६ - १३ - कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव शूरः ।

७ - १३ - पुरुषः अयम् व्याघ्रः इव बलवान् इति ।

८ - १३ - असामर्थ्यात् ।

९ - १३ - कथम् असामर्थ्यम् ।

१० - १३ - सापेक्षम् असमर्थम् भवति इति ।

११ - १३ - एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति ।

१२ - १३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१३ - १३ - राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः सिद्धा भवति ।

१ - ३४ - विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जनाप्रसिद्धिः ।

२ - ३४ - विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

३ - ३४ - कृष्णतिलाः इति कृष्णशब्दः अयम् तिलशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

४ - ३४ - तथा तिलशब्दः कृष्णशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

५ - ३४ - तत् उभयम् विशेषणम् भवति उभयम् च विशेष्यम् ।

६ - ३४ - विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

७ - ३४ - न वा अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनप्रसिद्धिः ।

८ - ३४ - न वा एषः दोषः ।

९ - ३४ - किम् कारणम् ।

१० - ३४ - अन्यतरस्य प्रधानभावात् ।

११ - ३४ - अन्यतरत् अत्र प्रधानम् ।

१२ - ३४ - तद्विशेषकत्वात् च अपरस्य ।

१३ - ३४ - तद्विशेषकम् च अपरम् ।

१४ - ३४ - अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनसञ्ज्ञा भविष्यति ।

१५ - ३४ - यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः विशेषणत्वेन तदा तिलाः प्रधानम् कृष्णः विशेषणम् ।

१६ - ३४ - कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः विशेषणत्वेन तेन कर्तव्यम् तिलकृष्णाः इति ।

१७ - ३४ - न कर्तव्यम् ।

१८ - ३४ - न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति ।

१९ - ३४ - न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति ।

२० - ३४ - किम् तर्हि ।

२१ - ३४ - द्वौ इमौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते ।

२२ - ३४ - न च द्वयोः प्रधानशब्दयोः एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति ।

२३ - ३४ - तत्र प्रयोगात् एतत् गन्तव्यम् ।

२४ - ३४ - नूनम् अत्र अन्यतरत् प्रधानम् तद्विशेषकम् च अपरम् इति ।

२५ - ३४ - तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् विशेषणम् इति ।

२६ - ३४ - सः च अपि क्व सन्देहः ।

२७ - ३४ - यत्र उभौ गुणशब्दौ ।

२८ - ३४ - तत् यथा कुञ्जखञ्जकः खञ्जकुब्जकः इति ।

२९ - ३४ - यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् ।

३० - ३४ - तत् यथा शुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति ।

३१ - ३४ - अवश्यम् तद्गुणम् द्रव्यम् आकाङ्क्षति ।

३२ - ३४ - कथम् तर्हि इमौ द्वौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः शिंशिपा इति ।

३३ - ३४ - न एतयोः आवश्यकः समावेशः ।

३४ - ३४ - न हि अवृक्षः शिंशिपा अस्ति ।

१ - १४ - अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न विशेषणम् विशेष्येण बहुलम् इति एव सिद्धम् ।

२ - १४ - बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम् ।

३ - १४ - अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते ।

४ - १४ - यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् ।

५ - १४ - एवम् तर्हि न ब्रूमः अकृत्स्नम् इति ।

६ - १४ - कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च ।

७ - १४ - यत् च अनेन कृतम् सुक्तृतम् तत् ।

८ - १४ - किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते ।

९ - १४ - उदाहरणभूयस्त्वात् ।

१० - १४ - ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च ।

११ - १४ - केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति ।

१२ - १४ - अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

१३ - १४ - सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् ।

१४ - १४ - तत्र न एकः पन्थाः शक्यः आस्थातुम्

१ - ११ - श्रेण्यादयः पठ्यन्ते ।

२ - ११ - कृतादिः आकृतिगणः ।

३ - ११ - श्रेण्यादिषु च्व्यर्थवचनम् ।

४ - ११ - श्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् ।

५ - ११ - अश्रेणयः श्रेणयः कृताः श्रेणिकृताः ।

६ - ११ - यदा हि श्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् ।

७ - ११ - अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् शास्ति ।

८ - ११ - तत् इह न तथा ।

९ - ११ - किम् कारणम् ।

१० - ११ - अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् ।

११ - ११ - इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति ।

१ - ४९ - नञ्विशिष्टे समानप्रकृतिवचनम् ।

२ - ४९ - नञ्विशिष्टे समानप्रकृतिग्रहणम् कर्तव्यम् ।

३ - ४९ - इह मा बूत् ।

४ - ४९ - सिद्धम् च अभुक्तम् च इति ।

५ - ४९ - अनञ् इति च प्रतिषेधः कर्तव्यः ।

६ - ४९ - इह मा भूत् ।

७ - ४९ - कर्तव्यम् अकृतम् इति ।

८ - ४९ - नुडिडधिकेन च ।

९ - ४९ - नुडिडधिकेन च समासः वक्तव्यः ।

१० - ४९ - इह अपि यथा स्यात् ।

११ - ४९ - अशितानशितेन जीवति ।

१२ - ४९ - क्लिष्टाक्लिशितेन जीवति ।

१३ - ४९ - किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा नञ्विशिष्टेन इति उच्यते ।

१४ - ४९ - न च अत्र नञ्कृतः एव विशेषः ।

१५ - ४९ - किम् तर्हि ।

१६ - ४९ - प्रकृतिकृतः अपि ।

१७ - ४९ - अयम् विशिष्टशब्दः अस्ति एव अवधारणे वर्तते ।

१८ - ४९ - तत् यथा ।

१९ - ४९ - देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

२० - ४९ - स्वाध्यायेन एव इति गम्यते ।

२१ - ४९ - अन्ये गुणाः समाः भवन्ति ।

२२ - ४९ - अस्ति आधिक्ये वर्तते ।

२३ - ४९ - तत् यथा ।

२४ - ४९ - देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

२५ - ४९ - स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति ।

२६ - ४९ - तत् यदा तावत् अवधारणे विशिष्टशब्दः तदा न एव अर्थः समानप्रकृतिग्रहणेन ।

२७ - ४९ - न इह भविष्यति ।

२८ - ४९ - सिद्धम् च अभुक्तम् च इति ।

२९ - ४९ - न अपि अनञ् इति प्रतिषेधेन ।

३० - ४९ - न इह भविष्यति कर्तव्यम् अकृतम् इति ।

३१ - ४९ - नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति ।

३२ - ४९ - यदा आधिक्ये विशिष्टशब्दः तदा समानप्रकृतिग्रहणम् कर्तव्यम् ।

३३ - ४९ - इह मा भूत् षिद्धम् च अभुक्तम् च इति ।

३४ - ४९ - अनञ् इति च प्रतिषेधः कर्तव्यः ।

३५ - ४९ - इह मा भूत् ।

३६ - ४९ - कर्तव्यम् अकृतम् इति ।

३७ - ४९ - नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति ।

३८ - ४९ - तत्र आधिक्ये विशिष्टग्रहणम् मत्वा समानप्रकृतिग्रहणम् चोद्यते ।

३९ - ४९ - अवधारणम् नञा चेत् नुडिड्विशिष्टेन न प्रकल्पेत ।

४० - ४९ - अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति ।

४१ - ४९ - कृतापकृतादीनाम् च उपसङ्ख्यानम् ।

४२ - ४९ - कृतापकृतादीनाम् च उपसङ्ख्यानम् ।

४३ - ४९ - कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् ।

४४ - ४९ - सिद्धम् तु क्तेन विसमाप्तौ अनञ् ।

४५ - ४९ - सिद्धम् एतत् ।

४६ - ४९ - कथम्. क्तान्तेन क्रियाविसमाप्तौ अनञ् क्तान्तम् समस्यते इति वक्तव्यम् ।

४७ - ४९ - गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् ।

४८ - ४९ - गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

४९ - ४९ - गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका ।

१ - ६ - अयुक्तः अयम् निर्देशः ।

२ - ६ - समानाधिकरणेन इति वर्तते ।

३ - ६ - कः प्रसङ्गः यद् व्यधिकरणानाम् समासः स्यात् ।

४ - ६ - एवम् तर्हि ज्ञापयति आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति ।

५ - ६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - ६ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति ।

१ - ३७ - इदम् विचार्यते ॒ वर्णेन तृतीयासमासः वा स्यात् ॒ कृष्णेन सारङ्गः कृष्णसारङ्गः समानाधिकरणेन वा ॒ कृष्णः सारङ्गः कृष्णसारङ्गः इति ।

२ - ३७ - कः च अत्र विशेषः ।

३ - ३७ - वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् ।

४ - ३७ - वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् ।

५ - ३७ - तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति ।

६ - ३७ - अनेते वर्णः इति वक्तव्यम् ।

७ - ३७ - अथ द्वितीयेन वर्णग्रहणेन एतविशेषणेन अर्थः ।

८ - ३७ - बाढम् अर्थः यदि अवर्ण एतशब्दः अस्ति ।

९ - ३७ - ननु च अयम् अस्ति ॒ आ* इतः एतः , कृष्णेतः , लोहितेतः इति ।

१० - ३७ - न अर्थः एवमर्थेन वर्णग्रहणेन ।

११ - ३७ - यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् ।

१२ - ३७ - अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् ।

१३ - ३७ - अथ समानाधिकरणः ।

१४ - ३७ - समानाधिकरणे द्विः वर्णग्रहणम् ।

१५ - ३७ - समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् ।

१६ - ३७ - वर्णः वर्णेषु अनेते इति वक्तव्यम् ।

१७ - ३७ - एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

१८ - ३७ - परमशुक्लः परमकृष्णः इति ।

१९ - ३७ - द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

२० - ३७ - कृष्णतिलाः इति ।

२१ - ३७ - एकम् वर्णग्रहणम् अनक्र्थकम् ।

२२ - ३७ - अन्यतरत्र कस्मात् न भवति ।

२३ - ३७ - लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति ।

२४ - ३७ - एवम् सति ।

२५ - ३७ - तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

२६ - ३७ - यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

२७ - ३७ - सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति ।

२८ - ३७ - अवश्यम् वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् ।

२९ - ३७ - क्व च तेन न सिध्यति ।

३० - ३७ - शुकबभ्रुः हरितबभ्रुः इति ।

३१ - ३७ - तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

३२ - ३७ - अथ समानाधिकरणः सामान्येन सिद्धः स्यात् ।

३३ - ३७ - बाढम् सिद्धः ।

३४ - ३७ - कथम् ।

३५ - ३७ - विशेषणम् विशेष्येण बहुलम् इति ।

३६ - ३७ - एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् ।

३७ - ३७ - तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् ।

१ - १५१ - समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन ।

२ - १५१ - समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन ।

३ - १५१ - प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् ।

४ - १५१ - प्रधानानाम् तावत् प्रधानम् ।

५ - १५१ - वृदारकनागकुञ्जरैः पूज्यमानम् इति अस्य अवकाशः गोवृन्दारकः अश्ववृन्दारकः ।

६ - १५१ - पोटायुवतीनाम् अवकाशः इभ्ययुवतिः आढ्ययुवतिः ।

७ - १५१ - इह उभयम् प्राप्नोति ।

८ - १५१ - नागयुवतिः वृन्दारकयुवतिः ।

९ - १५१ - प्रधानानाम् परम् भवति विप्रतिषेधेन ।

१० - १५१ - उपसर्जनानाम् परम् उपसर्जनम् ।

११ - १५१ - सन्महत्परमोत्कृष्टाः इति अस्य अवकाशः सद्गवः सदश्वः ।

१२ - १५१ - कृत्यतुल्याख्या अजात्या इति अस्य अवकाशः तुल्यश्वेतः तुल्यकृष्णः ।

१३ - १५१ - इह उभयम् प्राप्नोति ॒ तुल्यसत् तुल्यमहान् ।

१४ - १५१ - उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन ।

१५ - १५१ - समानाधिकरणसमासात् बहुव्रीहिः । समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन ।

१६ - १५१ - समानाधिकरणसमासस्य अवकाशः वीरः पुरुषः वीरपुरुषः ।

१७ - १५१ - बहुव्रीहेः अवकाशः कण्ठेकालः ।

१८ - १५१ - इह उभयम् प्राप्नोति ॒ वीरपुरुषकः ग्रामः ।

१९ - १५१ - बहुव्रीहिः भवति विप्रतिषेधेन ।

२० - १५१ - कदा चित् कर्मधारयः सर्वधनाद्यर्थः ।

२१ - १५१ - कदा चित् कर्मधारयः भवति बहुव्रीहेः ।

२२ - १५१ - किम् प्रयोजनम् ।

२३ - १५१ - सर्वधनाद्यर्थः ।

२४ - १५१ - सर्वधनी सर्वबीजी सर्वकेशी नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

२५ - १५१ - किम् प्रयोजनम् ।

२६ - १५१ - कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् ।

२७ - १५१ - किम् च कारणम् न स्यात् ।

२८ - १५१ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।

२९ - १५१ - यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति ।

३० - १५१ - न खलु अपि सञ्ज्ञाश्रयः मत्वर्थीयः ।

३१ - १५१ - किम् तर्हि ।

३२ - १५१ - अर्थाश्रयः ।

३३ - १५१ - सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति ।

३४ - १५१ - एवम् तर्हि इदम् स्यात् ॒ सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी ।

३५ - १५१ - न एवम् शक्यम् ।

३६ - १५१ - नित्यम् एवम् सति कर्मधारयः स्यात् ।

३७ - १५१ - तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् ।

३८ - १५१ - एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः शब्दाः इति ।

३९ - १५१ - तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

४० - १५१ - यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः ।

४१ - १५१ - अन्तरङ्गः कर्मधारयः ।

४२ - १५१ - का अन्तरङ्गता ।

४३ - १५१ - स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः ।

४४ - १५१ - अस्तु ।

४५ - १५१ - विभाषा कर्मधारयः ।

४६ - १५१ - यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति ।

४७ - १५१ - एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति ।

४८ - १५१ - सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति ।

४९ - १५१ - एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

५० - १५१ - किम् तर्हि ।

५१ - १५१ - इष्टिः इयम् पठिता ।

५२ - १५१ - समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

५३ - १५१ - यदि इष्टिः पठिता न अर्थः अनेन ।

५४ - १५१ - इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आकाङ्क्षन्ति ।

५५ - १५१ - एकेन माषेण शतसहस्रम् ।

५६ - १५१ - एकेन कुद्दालकेन खारीसहस्रम् ।

५७ - १५१ - तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् ।

५८ - १५१ - कथम् सर्वधनी सर्वबीजी सर्वकेशी नटः इति ।

५९ - १५१ - इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि ।

६० - १५१ - तत् च अवश्यम् वक्तव्यम् ठनः बाधनार्थम् ।

६१ - १५१ - कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

६२ - १५१ - अस्ति अत्र विशेषः ।

६३ - १५१ - जात्या अत्र अभिसम्बन्धः क्रियते ।

६४ - १५१ - कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति ।

६५ - १५१ - यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति ।

६६ - १५१ - पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।

६७ - १५१ - पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः भवति विप्रतिषेधेन ।

६८ - १५१ - किम् प्रयोजनम् ।

६९ - १५१ - सूक्ष्मवस्त्रतराद्यर्थः ।

७० - १५१ - आतिशायिकस्य अवकाशः पटुतरः पटुतमः ।

७१ - १५१ - बहुव्रीहेः अवकाशः चित्रगुः शबलगुः ।

७२ - १५१ - इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः तीक्ष्ण्शृङ्गतरः ।

७३ - १५१ - बहुव्रीहिः भवति विप्रतिषेधेन ।

७४ - १५१ - न एषः युक्तः विप्रतिषेधः ।

७५ - १५१ - विर्पतिषेधे परम् इति उच्यते ।

७६ - १५१ - पूर्वः च बहुव्रीहिः परः आतिशायिकः ।

७७ - १५१ - इष्टवाची परशब्दः ।

७८ - १५१ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

७९ - १५१ - एवम् अपि अयुक्तः ।

८० - १५१ - अन्तरङ्गः आतिशाइयिकः ।

८१ - १५१ - का अन्तरङ्गता ।

८२ - १५१ - ङ्याप्प्रातिपदिकात् आतिशायिकः सुबन्तानाम् बहुव्रीहिः ।

८३ - १५१ - आतिशायिकः अपि न अन्तरङ्गः ।

८४ - १५१ - कथम् ।

८५ - १५१ - समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त ।

८६ - १५१ - एवम् अपि अन्तरङ्गः ।

८७ - १५१ - कथम् ।

८८ - १५१ - स्वपदार्थे आतिशायिकः अन्यपदार्थे बहुव्रीहिः ।

८९ - १५१ - एवम् अपि न अन्तरङ्गः ।

९० - १५१ - कथम् ।

९१ - १५१ - स्पर्धायाम् आतिशायिकः भवति ।

९२ - १५१ - न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति ।

९३ - १५१ - न एव वा अत्र आतिशायिकः प्राप्नोति ।

९४ - १५१ - किम् कारणम् ।

९५ - १५१ - असामर्थ्यात् ।

९६ - १५१ - कथम् असामर्थ्यम्. सापेक्षम् असमर्थम् भवति इति ।

९७ - १५१ - यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति ।

९८ - १५१ - ननु च अयम् आतिशायिकः एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते ।

९९ - १५१ - सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् ।

१०० - १५१ - काम् च न अन्तरेण व्यपेक्षाम् आतिशायिकस्य प्रवृत्तिः ।

१०१ - १५१ - या हि प्रतियोगिनम् प्रति व्यपेक्षा ।

१०२ - १५१ - या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् ।

१०३ - १५१ - बहुव्रीहिः अपि तर्हि न प्राप्नोति ।

१०४ - १५१ - किम् कारणम् ।

१०५ - १५१ - असामर्थ्यात् एव ।

१०६ - १५१ - कथम् असामर्थ्यम् ।

१०७ - १५१ - सापेक्षम् असमर्थम् भवति इति ।

१०८ - १५१ - यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः ।

१०९ - १५१ - एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

११० - १५१ - किम् तर्हि ।

१११ - १५१ - इष्टिः इयम् पठिता ।

११२ - १५१ - पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः इष्टः ॒ सूक्ष्मवस्त्रतराद्यर्थः इति ।

११३ - १५१ - यदि इष्टिः इयम् पठिता न अर्थः अनेन ।

११४ - १५१ - कथम् या एषा युक्तिः उक्ता ॒ यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति ।

११५ - १५१ - यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः ।

११६ - १५१ - बहुव्रीहेः आतिशायिकः ।

११७ - १५१ - न तर्हि इदानीम् इदम् भवति ॒ सूक्ष्मतरवस्त्रः इति ।

११८ - १५१ - भवति ।

११९ - १५१ - यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा आतिशायिकः ।

१२० - १५१ - कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् ।

१२१ - १५१ - न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् ।

१२२ - १५१ - यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति ।

१२३ - १५१ - न अत्र आतिशायिकः प्राप्नोति ।

१२४ - १५१ - किम् कारणम् ।

१२५ - १५१ - गुणवचनात् इति उच्यते ।

१२६ - १५१ - न च समासः गुणवचनः ।

१२७ - १५१ - समासः अपि गुणवचनः ।

१२८ - १५१ - कथम् ।

१२९ - १५१ - अजहत्स्वार्था वृत्तिः ।

१३० - १५१ - अथ जहत्स्वार्थायाम् तु दोषः एव ।

१३१ - १५१ - जहत्स्वाऋथायाम् अपि न दोषः ।

१३२ - १५१ - भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

१३३ - १५१ - तत् यथा ।

१३४ - १५१ - शुक्लवाससम् आनय ।

१३५ - १५१ - लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

१३६ - १५१ - तत्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

१३७ - १५१ - उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः ।

१३८ - १५१ - उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः भवति विप्रतिषेधेन ।

१३९ - १५१ - किम् प्रयोजनम् ।

१४० - १५१ - बह्वाढ्यतराद्यर्थः ।

१४१ - १५१ - बह्वाढ्यतरः बहुसुकुमारतरः ।

१४२ - १५१ - कः पुनः अत्र विशेषः बहुव्रीहेः वा आतिशायिकः स्यात् आतिशायिकान्तेन वा बहुव्रीहिः ।

१४३ - १५१ - स्वरकपोः विशेषः ।

१४४ - १५१ - यदि अत्र आतिशायिकात् बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते ।

१४५ - १५१ - बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते ।

१४६ - १५१ - समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् उत्तरपदलोपः च ।

१४७ - १५१ - समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः ।

१४८ - १५१ - शाकभोजी पार्थिवः शाकपार्थिवः ।

१४९ - १५१ - कुतपवासः सौश्रुतः कुतपसौश्रुत्रः ।

१५० - १५१ - अजापण्यः तौल्वलिः अजातौल्वलिः ।

१५१ - १५१ - यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः ।

१ - ३ - चतुष्पात् जातिः इति वक्तव्यम् ।

२ - ३ - इह मा भूत् ।

३ - ३ - कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी ।

१ - ५ - किमर्थः चकारः ।

२ - ५ - एवकारार्थः ।

३ - ५ - मयूरव्यंसकादयः एव ।

४ - ५ - क्व मा भूत् ।

५ - ५ - परमः मयूरव्यंसकः इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP