TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हितोपदेशम् - कथा-मुखम्

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा-मुखम्
अथ कथा-मुखम्
अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत् । स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव-
अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अंध एव सः ॥१०॥
यौवनं धन-संपत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम् ॥११॥
इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिंतयामास ।
को र्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥१२॥
अजात-मृत-मूर्खाणां वरम् आद्यौ न चांतिमः । सकृद् दुःख-कराव् आद्याव् अंतिमस् तु पदे पदे ॥१३॥
किं च- वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं वरं जातः प्रेतो वरम् अपि च कंयावजनिता । वरं बंध्या भार्या वरम् अपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तो पि तनयः ॥१४॥
स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥१५॥
अंयच् च- गुणि-गण-गणनारंभे न पतति कठिनी स-संभ्रमाद् यस्य । तेनांबा यदि सुतिनी वद बंध्या कीदृशी भवति ? ॥१६॥
अपि च- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः ॥१७॥
अपरं च- वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि । एकश् चंद्रमस् तमो हंति न च तारा-गणैर् अपि ॥१८॥
पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृढो धार्मिकः सुधीः ॥१९॥
तथा चोक्तं- अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यश् च पुत्रो र्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥२०॥
को धंयो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरम् एकः कुलालंबी यत्र विश्रूयते पिता ॥२१॥
ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपंडितः ॥२२॥
यस्य कस्य प्रसूतो पि गुणवान् पूज्यते नरः । धनुर् वंश-विशुढो पि निर्गुणः किं करिष्यति ॥२३॥
हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पंके गौर् इव सीदसि ॥२४॥
तत् कथम् इदानीम् एते मम पुत्रा गुणवंतः क्रियंताम् ? यतः-
आहार-निद्रा-भय-मैथुनानि सामांयम् एतत् पशुभिर् नराणाम् । ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥२५॥
यतः- धर्मार्थ-काम-मोक्षाणां यस्यैको पि न विद्यते । अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥२६॥
यच् चोच्यते- आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः ॥२७॥
किं च- अवश्यं भाविनो भावा भवंति महताम् अपि । नग्नत्वं नीलकंठस्य महाहि-शयनं हरेः ॥२८॥
अंयच् च- यद् अभावि न तद् भावि भावि चेन् न तद् अंयथा । इति चिंता-विष-घ्नो यम् अगदः किं न पीयते ॥२९॥
एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कार्ष्यम् आह- यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत् । तथा पुरुषकारेण विना दैवं न सिढ्यति ॥३०॥
तथा च- पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतंद्रितः ॥३१॥
न दैवम् अपि संचिंत्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ॥३२॥
अंयच् च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदंति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को त्र दोषः ॥३३॥
यथा मृत्-पिंडतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ॥३४॥
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥
उद्यमेन हि सिध्यंति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगाः ॥३६॥
तथा चोक्तं- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥३७॥
रूप-यौवन-संपन्ना विशाल-कुल-संभवाः । विद्या-हीना न शोभंते निर्गंधा इव किंशुकाः ॥३८॥
अपरच् च- पुस्तकेषु च नाधीतं नाधीतं गुरु-संनिधौ । न शोभते संभा-मध्ये जार-गर्भ इव स्त्रियाः ॥३९॥
एतच् चिंतयित्वा राजा पंडित-सभां कारितवान् । राजोवाच-भो भोः पंडिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवंभूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीर् द्युतीः । तथा सत्-संनिधानेन मूर्खो याति प्रवीणताम् ॥४०॥
उक्तं च- हीयते हि मतिस् तात हीनैः सह समागमात् । समैश् च समताम् एति विशिष्टैश् च विशिष्टताम् ॥४१॥
अत्रांतरे विष्णु-शर्म-नामा महा-पंडितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-संभूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यंते । यतः-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥४२॥
अंयच् च- अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते । आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥४३॥
अतो हं षण्-मासाभ्यंतरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनर् उवाच ।
कीटो पि सुमनः-संगाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥४४॥
अंयच् च- यथोदय-गिरेर् द्रव्यं संनिकर्षेण दीप्यते । तथा सत्-संनिधानेन हीन-वर्णो पि दीप्यते ॥४५॥
गुणा गुणज्ञेषु गुणा भवंति ते निर्गुणं प्राप्य भवंति दोषाः । आस्वाद्य-तोयाः प्रवहंति नद्यः समुद्रम् आसाद्य भवंत्य् उपेयाः ॥४६॥
तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवंतः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:42.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कारवई

  • स्त्री. चातुर्याची व्यवस्था ; हुषारीची कारभार ; काटकसर ; खोल कारस्थान ; गुप्त मसलत ; कारस्थान पहा . ( सं . काय ) 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.