अथैकोननवतितमः पटलः - वाराणसीपीठनाथान्तर्यजनम्

वाराणसीपीठनाथान्तर्यजनम्


श्रीआनन्दभैरवी उवाच
कालरुप महादेव कालकूटासवप्रिय ।
इदानीं श्रृणु देवेश वाराणस्याः प्रियं पदम् ॥१॥

शतकोटियोगिनीनां मण्डलं योगिसेवितम् ।
तं ध्यायेत् सर्वदा योगी यदि कल्याणमिच्छति ॥२॥

भ्रूमध्ये भाति सततं मण्डलाकारशोभितम् ।
मातृकायन्त्ररुपं तु सर्वसारं विचिन्तयेत् ॥३॥

कोटिस्वयम्भूलिङाढ्यं पुण्यकोटिफलोदयम् ।
अतिसिद्धिप्रदं देशं देशनाथप्रियं पदम् ॥४॥

अमलाकमलाशक्तिकोटिकोटिसमन्वितम् ।
त्रिसूलोपरि पूरं तु च्छत्राकारं फलाकरम् ॥५॥

वराभयकरं सिद्धं डमरुच्छत्रधारिणम् ।
त्रिशूलमुद्‌गरद्यस्त्रखेटकादिविभूषितम् ॥७॥

पञ्चमुखं दशभुजं शङ्खमालाकपालकम् ।
ध्यात्वा सञ्चिन्तयेच्छम्भुं दश दिक्षु क्रमेण तु ॥८॥

स्थाने स्थाने दश दश मूर्तिचिह्यं विचिन्तयेत् ।
शोणाभं विद्युताभञ्च पुरीरक्षणकारणम् ॥९॥

हेतुप्रियं गजारुढं वृषारुढं द्वयं द्वयम् ।
अन्न चिन्तनमकृत्य पीठविद्यावशं नयेत् ॥१०॥

दशकं व्याप्य तिष्ठन्ति मण्डलाकारसुक्रमात् ।
अयुतं शिवलिङुं तु दश दिक्षु दश स्थले ॥११॥

विचिन्तयेच्छुक्लवर्णं काञ्चनालङ्‌कृतोज्ज्वलम् ।
पूर्वस्या दशरुपं तु चायुतावरणं प्रभुम् ॥१२॥

दश नाम प्रवक्ष्यामि श्रृणु भैरवभूपते ।
जटिलः काल उन्मत्तः क्रोधराजः सदाशिवेः ॥१३॥

परो दधीचिनाथश्च सुवाशी प्रमथेश्वरः ।
यज्ञनाथेश्वरश्वैव चायुतेश्वरवल्लभः ॥१४॥

वह्रिकोणे सदा भान्ति मूर्तिमन्थ शिवा दश ।
वज्रधरो महाकालः कपिलेश्वर एव च ॥१५॥

पञ्चाननो योगिनाथो घर्घरेशः पिनाकधृक्‍ ।
पशुपालः क्षेमदश्च ब्रह्मनाथो दश स्मृताः ॥१६॥

एते चायुतलिङेशा मूर्तिमन्तो विभान्ति च ।
एतेषां ध्यानमाकृत्य पूजयेद्‍ घृतधारया ॥१७॥

चिन्तयेद्‍ दक्षिणे पश्चाद्दशमूर्तिं शिवस्य च ।
वीरः शूलेश्वरः सिद्धेश्वरः श्रीपार्वतीश्वरः ॥१८॥

गणनाथैश्वरः शम्भुः प्रचण्डो दक्षयज्ञहा ।
काशीपतिः पशुपतिः शिवा एते दश स्मृताः ॥१९॥

अयुतानन्दलिङेशा कपालशूलधारकाः ।
मूर्तिमन्तो विभान्त्यत्र शिवमण्डलमध्यगाः ॥२०॥

एतान् सञ्चिन्तयेद्‍ भक्त्या पीठक्षेत्रे च दक्षिणे ।
नैऋते चिन्तयेत् पश्चात् कामाख्यः शिवलिङुकः ॥२१॥

दक्षिणामूर्तिरीशानो वामनेशो मनोहरः ।
वामदेवो बाणनाथो रघुवीरेश्वरस्ततः ॥२२॥

कामराजेश्वरः कमकलेशो द्श ईश्वराः ।
मूर्तिमन्तो विभान्त्यत्रायुतलिङेश्वराह प्रभो ॥२३॥

विचिन्त्य परया भक्त्या पूजयेद्‍ बिल्वपत्रकैः ।
सर्वत्र मानसार्चा च पूर्वेक्तमूर्तिकल्पना ॥२४॥

वरुणे च ततो ध्यायेन्मण्डलस्थान दश क्रमान् ।
अरुणेश्वरो योगेन्द्रकाशीराजसुरान्तकाः ॥२५॥

त्रिशूली वरुणेशश्च कालाख्यः कामदायकः ।
कालग्निरुद्रो भद्रेशो दश रुद्राः प्रकीर्तिताः ॥२६॥

शिवलिङुयुतेशाश्च सर्वशक्तिसमन्विताः ।
वायुकोणे स्थिता एते रुद्राश्चायुतलिङुपाः ॥२७॥

महारुद्रो वातनाथो रुद्रात्मा रौद्ररुपकः ।
रुपनाथो हि हनुमान् सूर्येशो वसुधेश्वरः ॥२८॥

वासुकीवल्लभः सत्यतिरेते महेश्वराः ।
परिवारयुताः श्रेष्ठा महारुद्रादिवल्लभाः ॥२९॥

एते पूज्याश्चिन्तनीयाः कामनाफलसिद्धये ।
उत्तरे चोत्तरास्यश्च कुबेरेश्वर ईश्वरः ॥३०॥

पञ्चाधारः पारमेशः परहंसप्रभाकरः ।
अनन्तेशः कायरक्षो रत्नेस्वर उमापतिः ॥३१॥

एकादशैते रुद्राश्च नित्यायुतगणेश्वराः ।
एते पूज्या ध्यायितव्याः पूर्वोक्तमूर्तिकल्पनाः ॥३२॥

ईशाने च ततो ध्यायेदीश्वरान् परमेश्वर ।
ईशो वैश्वानरेशश्च विश्वमित्रेश्वरस्तथा ॥३३॥

ईशानोऽपि च मायेशो बटुकेशो रमेश्वरः ।
कालान्तकेशः कामाख्यो महाकामपुरीश्वरः ॥३४॥

श्मशानवासिदेवेशः सर्वरुपप्रकाशकः ।
एकादशैते रुद्राश्च कामपीठनिवासिनः ॥३५॥

अयुतानन्दलिङेशाश्चिन्तनीयाः प्रपूजिताः ।
वारानसीमध्यपीठे त्रयोदश शिवेश्वराः ॥३६॥

अधोमण्डलमध्ये तु चिन्तयित्वा प्रपूजयेत् ।
मृत्युञ्जयो मोक्षदश्च शिवेशो भैरवेश्वरः ॥३७॥

भूतनाथो भूतकर्ता क्षेत्रपालः परापरः ।
मञ्जुघोषेश्वरः कालदमनः कौशलेश्वरः ॥३८॥

मुनिनाथो वर्णमाली रुद्रा भैरवरुपिणः ।
एते त्रयोदशानन्दशिवरुपाः सुरेश्वराः ॥३९॥

अयुतानन्दलिङेशा पूज्यमानाः सुरासुरैः ।
वराभयप्रदाः पञ्चतत्त्वप्रकाशकारिणः ॥४०॥

वारानस्यूर्ध्वपीठे त्रयोदश शिवान् यजेत् ।
विचिन्त्य परमान्दसाधकः स्थिरचेतसा ॥४१॥

ब्रह्मेशो ब्रह्मकुलेशो ब्रह्मलिङो विधीश्वरः ।
ब्रह्माण्डभेदकश्चात्मारामो वक्रेश्वरस्तथा ॥४२॥

बलीशो भार्गवेशश्च सदानन्देश्वरो हरः ।
कृष्णेश्वरो रामनाथो रुद्रास्त्रयोदश स्मृताः ॥४३॥

अयुतानन्दलिङेशा भैरवेन्द्राः प्रकीर्तिताः ।
एते पूज्या महाकाल रुद्रास्त्रिभुवनेश्वराः ॥४४॥

कपालीशादयो ज्ञानाज्ञेया निर्मलचेतसा ।
सर्वाऽलङ्कारशोभाढ्या रत्नकुण्डलमण्डिताः ॥४५॥

सृष्टिसंहारकर्तारो देवकार्ये नियोजिताः ।
एतेषां ध्यानमाकृत्य पूजयेच्चित्तपुष्पकैः ॥४६॥

तदा सिद्धिमवाप्नोति सत्यं सत्यं महेश्वर ।
अकालतारका एते सर्वसिद्धिसमृद्धिदाः ॥४७॥

आनन्दभैरवाहलाकारिणः कुलपण्डिताः ।
एते रुद्राः पूजयन्ति महाविद्याः सुलक्षणाः ॥४८॥

तासाम नाम प्रवक्ष्यामि क्रमशः श्रृणु भैरव ।
द्रां द्रीं दश महाविद्याः पञ्चतत्त्वप्रकाशिकाः ॥४९॥

सर्वसिद्धिप्रदा नाथ पूजयन्ति महीतले ।
सत्यत्रेताद्वापरे च कलौ पूर्णफलप्रदाः ॥५०॥

तासां नामानि वक्ष्यामि या या हि रुद्रपूजिताः ।
त्रिपुरासुन्दरी देवी तथा त्रिपुरभैरवी ॥५१॥

भुवनेशी चान्नपूर्णा मातङी विन्ध्यवसिनी ।
छिन्नमस्ता च बगला त्रिकूटा पञ्चमी तथा ॥५२॥

कालिका तारिणी देवी काशीनाथप्रपूजिताः ।
तन्त्रोक्तबाह्यपूजादिरवश्यं पूजयेत् सुधीः ॥५३॥

साधकः सिद्धिमाप्नोति कुलपूजाक्रमेण तु ।
योगसिद्धिमवाप्नोति मासादेव न संशयः ॥५४॥

भ्रूपद्मभेदने काले त्ववश्यं परिपूजयेत् ॥५५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे वाराणसीपीठनाथान्तर्यजनं नाम एकोननवतितमः पटलः ॥८९॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP