सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि ३

परनाथाअष्टोत्तरसहस्त्रनामा्नि


युक्तो योगपतिः श्रद्धापालको भूतशङ्करः ।
भूताध्यक्षो भूतनाथो भूतपालतत्परः ॥८१॥

विभूतिदाता भूतिश्च महाभूतिविवर्धनः ।
महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः ॥८२॥

कमलाकान्त ईशानो यमोऽमरो मनोजवः ।
मनयोगी मानयोगी मानभङो निरुपणः ॥८३॥

अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरुपितः ।
आत्मारामपतिः कृष्णपालको रामपालकः ॥८४॥

लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः ।
भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः ॥८५॥

कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः ।
दिशांपतिर्दिशीशश्च दिक्पालो हि दिगम्बरः ॥८६॥

अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः ।
संविदानन्दनिरतो विजयो विजयात्मजः ॥८७॥

जयाजयविचारश्च भावचूडामणीश्वरः ।
मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः ॥८८॥

संसाररक्षकः प्राणी पञ्चप्राणो महाशयः ।
गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः ॥८९॥

गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः ।
सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः ॥९०॥

नरेन्द्रश्वरभावस्थो विद्याभावप्रचारवित् ।
कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः ॥९१॥

अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः ।
सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक्‍ ॥९२॥

साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः ।
कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः ॥९३॥

अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः ।
हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः ॥९४॥

श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः ।
ब्रह्मानन्दो जयानन्दो विजयानन्द एव च ॥९५॥

सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः ।
ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः ॥९६॥

सर्वासनोग्रानश्च जगदानन्ददायकः ।
पूर्णानन्दो भवानन्दो ह्यम्रुतानन्द एव च ॥९७॥

शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः ।
शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः ॥९८॥

सुलभो मधुरानन्दो मधुरामोदमादनः ।
अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः ॥९९॥

वाशभाढ्यः परानन्दो विसमानन्द उल्बणः ।
अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः ॥१००॥

शतकोटिशरुश्रीदो वीरकोटिसमप्रभः ।
अजाविभावरीनाथो विषमापूष्णिपूजितः ॥१०१॥

विद्यापतिर्वेदपतिप्रमेयपराक्रमः ।
रक्षोपतिर्महावीरपतिः प्रेमोपकारकः ॥१०२॥

वारनाविप्रियानन्दो वारणेशो विभुस्थितः ।
रणचण्डो रशेश्च रणरामप्रियः प्रभुः ॥१०३॥

रणनाथी रणाहलादः संग्रामप्रेतविग्रहः ।
देवीभक्तो देवदेवो दिवि दारुणतत्परः ॥१०४॥

खड्‌गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक्‍ ।
धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक्‍ ॥१०५॥

अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः ।
काञ्चनाढ्यो हेममाली काञ्चनश्रृङुशासनः ॥१०६॥

कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः ।
पद्मगन्धोऽतिसद्‌गन्धश्चचन्द्रशेखरभृत् सुखी ॥१०७॥

पवित्राधारनिलयो विद्यावद्वरबीजभृत् ।
कन्दर्पसदृशाकारो मायाजिद्‍ व्याघ्रर्मधृक्‍ ॥१०८॥

अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः ।
अतिगण्डः कुभकर्णः कुरुजेता कवीश्वरः ॥१०९॥

एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः ।
आत्माश्रया गुरुमयो गुरुमन्त्रप्रदायकः ॥११०॥

शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः ।
नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः ॥१११॥

गाणपत्यवसाच्छन्नो गानपत्यवसादवः ।
गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः ॥११२॥

आहलादोद्रेककारी च सदाहलादी मनोगतिः ।
शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः ॥११३॥

अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः ।
सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः ॥११४॥

ब्रह्माण्डरुपकर्ता च ब्रह्मण्डधर्मधारकः ।
धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः ॥११५॥

अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छवाचकः ।
अन्नरुपी अन्नकस्थो मानदाता महामनाः ॥११६॥

आद्याशक्तिप्रभुर्मातृवर्नजालप्रचारकः ।
मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः ॥११७॥

मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः ।
भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः ॥११८॥

इत्येतत् कथितं नाथ सहस्त्रनाममङुलम् ।
अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् ॥११९॥

यस्य श्रवणमात्रेण नरो नारायणी भवेत् ।
अप्रकाश्यं महागुह्यं देवामप्यगोचरम् ॥१२०॥

फलं कोटिवर्षशतैर्वक्तुं न शक्त्यते बुधैः ।
यस्य स्मरणमाकृत्य योगिनीयोगपारगः ॥१२१॥

सोक्षणः सर्वसिद्धीनां त्रैलोक्ये सचराचरे ।
देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तका ॥१२२॥

पठनाद्धारणाज्ज्ञानी महापातकनाशकः ।
आयुरारोग्यसम्पत्तिबृहितो भवति ध्रुवम् ॥१२३॥

संग्रामे ग्रहभीतौ च महारण्ये जले भये ।
वारमेकं पठेद्यस्तु स भवेद्‍ देववल्लभः ॥१२४॥

सर्वेषां मानसम्भङी योगिराड्‌ भवति क्षणात् ।
पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः ॥१२५॥

स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् ।
एकपीठे जपेद्यस्तु कामरुपे विशेषतः ॥१२६॥

त्रिकालं वाथ षट्‌कालं पठित्वा योगिराड्‌ भवेत् ।
आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च ॥१२७॥

प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने ।
सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः ॥१२८॥

अवश्य योगिनां श्रेष्ठः कामजेता महीतले ।
अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् ॥१२९॥

सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि ।
गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः ॥१३०॥

अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ।
अवधूतश्वरो भूत्वा राजते नात्र संशयः ॥१३१॥

रक्तचन्दनयुक्तेन हरिद्राकुड्‌कुमेन च ।
सेफालिकापुष्पदण्डैर्दलसङ्‌कुलवर्जितैः ॥१३२॥

मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा ।
स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि ॥१३३॥

एकमासं द्विमासं वा त्रिमासं वर्षमेव च ।
जीवन्मुक्तो धारयित्वा सहस्त्रनामकीर्तनम् ॥१३४॥

पठित्वा तद्‌द्विगुणशः पुण्यं कोटिगुणं लभेत् ।
किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् ॥१३५॥

त्रिभुवनगणनाथो योगिनीशो धनाढ्यो
मतिसुविमलभावो दीर्घकालं वसेत् सः ।
इह पठति भवानीवल्लभः स्तोत्रसारं
दशशतभिधेयं ज्ञानमष्टोत्तरं च ॥१३६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌कोणप्रकाशे भ्रूपद्मभेदविन्यासे भैरवीभैरवसंवादे परशिवहाकिनीश्वराष्टोत्तर सहस्त्रनामपाठे सप्तानामपाठे सप्ताशीतितमः पटलः ॥८७॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP