श्रीआनन्दभैरवी उवाच
वरानने वरारोहे सर्वज्ञाननिदानदे ।
आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥१॥

कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम्‍ ।
न चोक्तं ज्ञानगम्यं तु महाजाल्निसेवितम्‍ ॥२॥

परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम्‍ ।
इदानीं वद मे यत्नादानन्दकुलभैरवी ॥३॥

श्रीआनन्दभैरवी उवाच
श्रूयताम योगिनीनाथ योगविद्यापते प्रभो ।
परनाथस्य कवचं ज्ञानगम्यं पुरातनम्‍ ॥४॥

अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम्‍ ।
इदानीं नाथ यत्नेन कथयामि परं पदम्‍ ॥५॥

अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता हसौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।
ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम्‍ ।
हसौः महाप्रेतराजः कपालं पातु सर्वदा ॥६॥

हाकिनीशः सहायाख्यः कामकेशगुणानि मे ।
वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥७॥

षं रं शं वं सदा पातु हं क्षं पातु भ्रौवोर्दलम्‍ ।
बाणलिङुं सदा पातु भ्रूपद्मयुवती मम ॥८॥

कालानलः सदा पातु द्विदलस्थ्म परात्परम्‍ ।
भ्रूगहवरं सदानन्दं पातु त्रिपुरभैरवः ॥९॥

अनाथलिङुः सर्वेशः पातु मे लोचनत्रयम्‍ ।
अभयो मडुलः पातु ध्रुवाख्ये लोलजिहिवकाम्‍ ॥१०॥

पञ्चाननः सदा पातु वदन्म कामसुन्दरः ।
उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥११॥

हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः ।
महादेव्ह सदा पातु महाकाशः श्रुति मम ॥१२॥

विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम्‍ ।
प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत्‍ ॥१३॥

अपराजितः शुक्लवर्णः सदा पातु महामला ।
गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥१४॥

मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु।
स्वरनीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥१५॥

वामदेवः सदा पातु ह्रदयं परमेश्वरः ।
ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥१६॥

अट्टहासः सदा पातु योगिनीकोटिभिः सह ।
अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥१७॥

महाकालः सदा पातु भेरुण्डापतिरीश्वरः ।
पार्श्वेदेशं सदा पातु काकिनीपरवल्लभः ॥१८॥

अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम ।
अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥१९॥

तपिनीपतिरीशानो वीरभद्रो यतीश्वरः ।
नाभिमण्डलमापातु ममोदरमुमापतिः ॥२०॥

घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् ।
जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥२१॥

नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् ।
स्वाधिष्ठानं सदा पातु षड्‌दलान्तः प्रकाशकः ॥२२॥

अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् ।
तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम‍ ॥२३॥

गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः ।
यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥२४॥

जङ्वायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः ।
महाकालः पातु पादतलयुग्मं महीश्वरः ॥२५॥

सर्वाङु वरदः पातु वटुकः श्रीसदाशिवः ।
महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥२६॥

रणे द्यूते विवादे च शून्यागारे महाभये ।
पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥२७॥

घण्टेश्वरः शङ्कनादो मुरारीशः प्रपातु माम् ।
परमानन्ददः पातु हितार्थी पथि पातु माम् ॥२८॥

महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् ।
पुत्रं मित्रं कलंत्र बन्धुं स्वजनमेव च ॥२९॥

सर्वाघारः सदा पातु लिङुरुपी महेश्वरः ।
परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥३०॥

परिवारान्वितः पातु महाचन्द्रः सदाऽवतु ।
मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥३१॥

मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः ।
परनाथो गुरुः पातु पारिजातवनाश्रयः ॥३२॥

सर्वभुक्‍ कालरुद्रो मे सर्वत्र परिपातु माम् ।
इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥३३॥

परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् ।
कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥३४॥

यामले देवदेवेश प्रकाशितमहर्निशम् ।
यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥३५॥

कीर्तिश्रीकान्तिमेधायुर्बृहितो भवति ध्रुवम् ।
अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥३६॥

भवेत् कामक्रोधजेता मृत्युजेता महाकविः ।
तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥३७॥

यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् ।
रक्तेन चन्दनेनापि कुङ्कमेनापि वा लिखेत् ॥३८॥

स भवेद्‍ वीरपुत्रश्च महापातकोटिहा ।
अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥३९॥

शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥४०॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चशीतितमः पटलः ॥८५॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP