TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पितामहसभावर्णनम्
महापातककोटिघ्नी वर्णना नास्ति ब्रह्मणः ।
सभाया वर्णने शक्तो नाहं वर्षशतैरपि ॥५३॥

तथापि तव सिद्धयर्थे संक्षेपाद् वर्ण्यते प्रभो ।
पितामहसभां नाथ कथ्यमानां विशुद्धये ॥५४॥

शक्त्यते सा न निर्देष्टुमेवं रुपेति सोज्ज्वला ।
सर्वदा संस्थिरा तत्र यथा नारायणे स्थिरा ॥५५॥

समरुपं संविभाव्य सभया श्रीपितामहः ।
उपासते महात्मानं शाकिनी परमेश्वरम् ॥५६॥

अप्रमेयां सभां दिव्यां मानुषीं नित्यरुपिणीम् ।
अनिर्दिश्यां प्रभावेण सर्वबूतमनोरमाम् ॥५७॥

औषधैर्वा तथा युक्तैरुत्तमा या अनाशिनी ।
मन्मथा सा सभा देवी न शीता न च घर्मदा ॥५८॥

न क्षुत्पिपाशे न ग्लानिं न भूतां नापि भाविताम् ।
नानारुपैरिव कृता मणिभिः सहितायुधैः ॥५९॥

स्तम्भैर्न च धृता तु शाश्वती न च साक्षरा ।
दिव्यैर्नानाविधैर्भावैर्भास्वदि‌भरमितप्रभैः ॥६०॥

प्रदीप्ता नाकपृष्ठस्था भासयन्तीव भास्करम् ॥६१॥

तस्यां स भगवानास्ते विदधद् देवमानुषान् ।
स्वयमेकोऽनिशं नाथ सर्वलोकपितामहः ॥६२॥

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेता पुलहो मरिचिः कश्यपो यतिः ॥६३॥

भृगुरत्रिर्वशिष्ठश्चं गौतमोऽथाङिरास्तथा ।
पुलस्त्यश्च क्रतुश्चैव प्रहलादः कर्दमस्तथा ॥६४॥

अथर्वाङिरसश्चैव बालखिल्या मरीचिपाः ।
मनोऽन्तरीक्षं विद्याश्च वायुस्तेजो जलं मही ॥६५॥

शब्दस्पर्थौ तथा रुपं रसो गन्धश्च धार्मिकः ।
प्रकृतिश्चाहङ्कारश्च यच्चान्यत्कारणं भुवः ॥६६॥

अगस्त्यश्च महातेजा मार्कण्डेयो मुनीश्वरः ।
जमदगिन्र्भरद्वाजः संवर्तश्च्य्वनस्तथाः ॥६७॥

दुर्वासाश्चामरिर्जेता ऋष्यश्रृस्तपोधनः ।
सनत्कुमारो भगवान् योगाचार्यो महातपाः ॥६८॥

असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।
ऋषभो जितशक्रश्च महावीर्यस्तपोमुनिः ॥६९॥

आयुर्वेदस्तथाष्टाङो देहवान् वीर्यधारकः ।
ऊर्ध्वरेता महायोगी देवदत्तो भगीरथः ॥७०॥

कपिलाचार्य ईशाप्तो धनदः सारसङतः ।
महावाग्मीश्वरः कालः प्रियकर्मा च सुव्रतः ॥७१॥

वरुणः सार्वभौमश्च देवाचार्यो धनञ्जयः ।
कामपुत्रो वशिष्ठस्च मन्दारोऽश्वत्थ एव च ॥७२॥

रविमुख्यो विधाता च नैऋतो यम एव च ।
अग्निः शक्तो विभाण्डाश्च महावीरो गणेश्वरः ॥७३॥

कार्तिकेयो जीवनाथो ग्रहचक्रः शुभङ्करः ।
वेदज्ञाता धर्मवेत्ता वारेन्द्रो नन्दनः प्रभुः ॥७४॥

बृहस्पातिः शुक्रदेवो विज्ञानी भास्वरस्त्रधृक् ।
अन्ये च बहवः सन्ति ऊर्ध्वरेतार ईशगाः ॥७५॥

तस्यां भान्ति महाकाल ! केवलानन्दविग्रहाः ।
चन्द्रमा सह नक्षत्रैरादित्यैश्च गभस्तिभिः ॥७६॥

वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥७७॥

एते चान्ये च बहवः सदाशिवमुपासते ।
अर्थो धर्मश्च कामश्च हर्षोऽद्वेषस्तपो दमः ॥७८॥

आयान्ति तस्यां गन्धर्वाः सहिताप्सरसस्तथा ।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥७९॥

नवग्रहास्तत्र सन्ति नानोपचारपण्डिताः ।
मन्त्रो रथन्तरश्चैव हरिमान् वसुमानपि ॥८०॥  

आदित्याः साधिराजानो नानावृन्दैरुपागताः ।
मरुतो विश्वकर्मा च वसवश्च दिगीश्वराः ॥८१॥

तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ।
ऋग्वेदश्च सामवेदो यजुर्वेदः सदाशिवः ॥८२॥

अथर्ववेदस्तस्यान्तः सर्वशास्त्राणि चैव ह ।
इतिहासोपदेशाश्च वेदाङानि च सर्वशः ॥८३॥

ग्रहा यक्षाश्च सोमाश्च दैवतानि च सर्वशः ।
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ॥८४॥

स्मृतिर्मेधा धृतिश्चैव बुद्धिः प्रज्ञा क्षमा यशः ।
स्तुतिशास्त्राणि सामानि गाथास्तु विविधास्तथा ॥८५॥

भाष्याणि तर्कवक्त्राणि देहवन्ति विभान्ति च ।
नाटका विविधाः काव्याः कथाख्याधिककारिकाः ॥८६॥

तत्र तिष्ठन्ति ये पुण्या ये चान्ये गुरुपूजकाः ।
क्षणा लवा मुहूर्ताश्च दिवारात्रिः प्रभातगा ॥८७॥

अर्धमासास्तथा मासा ऋतवः षट्‌ च भैरव ।
संवत्सराः पञ्च युगं मासा रात्रिश्चतुर्विधाः ॥८८॥

कालचक्रञ्च यदि‌दव्यं नित्यमक्षयव्ययम् ।
धर्मचक्रं तथा चापि नित्यमन्तेषु विग्रहाः ॥८९॥

अदितिर्दक्षकश्चैव सुरसा विनता इरा ।
कालका सुरभी देवी सरमा चाथ गौतमी ॥९०॥

प्रधा कद्रूश्च वै देव्यो देवतानाञ्च मातरः ।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथापरा ॥९१॥

पृथिवी गाङुता देवी ह्रीः स्वाहा कीर्तिरेव च ।
सुरा देवी शची चैव तथा पुष्टिरुन्धती ॥९२॥

संवृद्धिराशा नियतिरिडा देवी रतिस्तथा ।
कामिनी परमानन्दा देवी श्रीत्रिपुरेश्वरी ॥९३॥

काममाता महाबाला वरदाद्या सरस्वती ।
मन्दाकिनी वियद्गङा स्वर्गगङा मनोजवा ॥९४॥

त्रिस्त्रोता चन्द्रभागा च महावेगवती नदी ।
पञ्चतीर्थकलापद्माः सागराः सागरोदयाः ॥९५॥

कालिन्दी वैष्णवी सिद्धा तरला पुष्करोदयाः ।
भानुमती महावेगा चण्डशुक्रा महानदी ॥९६॥

वेत्रवती च कावेरी महाभर्गा वसुन्धरा ।
विभावती पद्मलक्ष्मीः प्रभा भद्रा किरातिनी ॥९७॥

अम्बालिका त्वहल्या च त्रितुण्डा मण्डलेश्वरी ।
मन्दोदरी मन्दवेगा मदिरा शारदा नदी ॥९८॥

निर्मला मन्दरग्रन्थिः प्रज्ञा ज्वालावती रतिः ।
अवन्ती च रटन्ती च युगाद्या माघसप्तमी ॥९९॥

पञ्चतुण्डा घोरनादा सन्तोषी तुष्टवंशिनी ।
भरद्वाजेश्वरी धर्मा शतधारा धरावती ॥१००॥

मल्लिका मालिनी मन्दा हिन्दोला लिङुवाहिनी ।
वर्तुला सिद्धलङ्का च कुरुक्षेत्रस्थिता नदी ॥१०१॥

नाडिका सार्धवहिनस्था प्रत्येकस्थान संस्थिताः ।
मूर्तिमत्यो विभान्त्यास्यां सिन्धुदेव्यस्तथा पराः ॥१०३॥

सभायां कृष्णनाम्नी च नदी कुलवती बला ।
तस्यां प्रधाना त्रिनदी वामदक्षिणमध्यतः ॥१०४॥

इडावती पिङालाख्या सुषुम्नाद्या सरस्वती ।
त्रिमध्ये पूजिता देवी सुषुम्ना बहुरुपिणी ॥१०५॥

नदाश्चापि च तत्सङ्खयाः सार्धत्रिकोट्यः स्मृताः ।
नदः शोणे महाशोणो वटुको बलवान् हरः ॥१०६॥

तरुणस्तारको भद्रो विभद्रो नर्मदापतिः ।
प्रभानाथो वीरमुख्यो विशालो बलदेवकः ॥१०७॥

पद्मरागो मारकेतस्त्रिवृत्तो नन्दनो घनः ।
अकालजिह्यो हिंसाढ्यो विधृतो ह्यवधूतकः ॥१०८॥

ब्रह्मपुत्रो विभाकारः कपिलोऽञ्जन एव च ।
साम्ब एको महासंख्यो मण्डलाख्यो बृहन्नलः ॥१०९॥

शतनालाधरो रुद्रो विश्वगामी धनञ्जयः ।
सहस्त्रवदनो वाक्यो घर्घरो दमनस्तथा ॥११०॥

सिताख्यो मानवो गर्तः कुलाख्यो विसमापतिः ।
भवकुण्डो विसर्गाख्यो ज्योतिष्टोमः फलाकरः ॥१११॥

धवलो बदराख्यश्च वीरभद्रो मखस्तथा ।
मर्महन्ता शूलगर्तो मानभङो दिवागमः ॥११२॥

शूरश्चैव कालकूटो मधुगामी जलान्तकः ।
दधिधारो घृताख्यश्च सुधाधारो महानदः ॥११३॥

हिङ्‌गुलाख्यो मालकेतुः पयस्वान् पयसः पतिः ।
लवणाख्यो धर्मपुत्रो जीवपुत्रो धनाकरः ॥११४॥

मायापतिः कलानाथो विन्ध्यलो लवणाश्रयः ।
इक्षुधाराधरो मानो विधुवर्णो धराजलः ॥११५॥

पुष्करो दुष्कराख्यश्च शङ्करश्च सदाशिव ।
एते चान्ये च बहवः पुष्करं समुपासते ॥११६॥

त्रयाणां पुष्करः श्रेष्ठः सुषुम्नानाडिकाश्रयः ।
इडायां पुष्कराख्यश्च पिङुलायाञ्च शङ्करः ॥११७॥

नदाश्चापि बहुतरा मूर्तिमन्तो विभान्ति च ।
नद्यश्च मूर्तिमत्यश्च सदाशिवमुपाश्रिताः ॥११८॥

पूजयन्ति कर्णिकायां सभायां ब्रह्मणः प्रभो ।
सदाशिवसभामध्ये ब्रह्मणः सभयोज्ज्वला ॥११९॥

तस्यां देवसभा भाति शक्रस्यापि मनोहरा ।
पूर्वादिक्रमयोगेन ध्येया च खेचरीव वा ॥१२०॥

वहिनकोणेऽनलसभा महतेजोमयी परा ।
कर्णिकाया दक्षिणे च धर्मराजमहासभा ॥१२१॥

नैऋते राक्षसेन्द्रस्य सभा सकलमोहिनी ।
वरुणे भाति दीप्ताख्या वारुणीया सभाऽपरा ॥१२२॥

वायुकोणे वायुसभा कौबेरी चोत्तरे सभा ।
अधो नन्दसभा भाति चोर्ध्वं ब्रह्मसभा प्रभो ॥१२३॥

मध्ये च भाति सूर्याभां शतायुतसमोदयाम् ।
सदाशिवसभां नाथ ब्रह्माण्डे मण्डलोद्भवाम् ॥१२४॥

सूक्ष्ममार्गे सदा भान्तीमीश्वरस्यापि रुपिणीम् ।
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ॥१२५॥

विश्वेदेवाश्च साध्याश्च पितरश्च महर्षयः ।
एक एव तु राजर्षिः प्रधानस्तत्र भाति हि ॥१२६॥

त्रयोदशगुणोपेता भान्ति राजर्षस्तथा ।
पृथुश्चैव धर्मराजो हरिश्चन्द्रो युधिष्ठिरः ॥१२७॥

रामचन्द्रो रमानाथो भगीरथ इलापतिः ।
प्रहलादः कर्दमश्चैव विभीषणश्च धार्मिकः ॥१२८॥

नलश्चैव रुक्ममाली विक्रमोद्धततापसाः ।
वामपार्श्वे अधोभागे प्रदीप्ता ह्यासनावनौ ॥१२९॥

अन्ये च मुनयः सन्ति समावेष्टय सदाशिवम् ।
महाभक्ताः प्रपश्यन्ति सदाशिवपरं पदम् ॥१३०॥

अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
स्मरणात् पठनाद्ध्यानात् सदाशिवपतेः प्रभोः ॥१३१॥

अनायासेन सिद्धयन्ति ये ये भक्ता महीतले ।
वृद्धा वा बालका वापि यौवनस्था नरा अपि ॥१३२॥

अनायासं फलं लब्ध्वा प्रपश्यन्ति सदाशिवम् ।
एतेषां ध्यानमाकृत्य चार्चयन्ति सदाशिवम् ॥१३३॥

स याति सहसा नाथ सदाशिवपरं पदम् ।
देवीनां यजनं कृत्वा ध्यायन्ति सदाशिवम् ॥१३४॥

त्रैलोक्यं सहसा दृष्ट‌वा प्रपश्यन्ति सदाशिवम् ।
यथाकाले निर्जने च गवीनां कुहरेऽपि वा ॥१३५॥

स्थित्वा चैकमना ध्यायेत् सदाशिवपरं पदम् ।
शिवत्वं याति सहसा ध्यानाद् ब्रह्मागतस्य च ॥१३६॥

ब्राह्यणः सहसा याति सदाशिवपरं पदम् ।
एवंभूतं ध्यायतीह सदाशिवपदाम्बुजम् ॥१३७॥

रत्ननूपुरनादाढ्यं चलद्भूषणमण्डितम् ।
पद्मरागस्याङ्‌गुलीभिर्मण्डितं रक्तपङ्कजम् ॥१३८॥

सिद्धसभासेवित    ञ्च सिद्धानामाश्रयकरम् ।
देवदानव गन्धर्वसिद्धचारणसेवितम‍ ॥१३९॥

मुनीन्द्रगणपूज्यञ्च धर्मसिन्धुमयं ध्रुवम् ।
वाञ्छादिफलदं कान्तं शतारुणसमप्रभम् ॥१४०॥

सर्वविद्यामयं ध्यायेद् हंसमार्गे निरञ्जने ॥१४१॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरने षट्‌चक्रप्रकाशे भैरवभैरवी संवादेऽकालमृत्युअहरणसभावर्णनं नाम पञ्चसप्ततितमः पटलः ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-30T22:28:07.6370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

truning point

  • कलाटणी बिंदु 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site