सप्तत्रिंशः पटलः - स्वाधिष्टानश्रीकृष्णराकिणीसाधनम्

स्वाधिष्टानप्रकाशनकथनम्


आनन्दभैरव उवाच
श्रुतञ्च परमं ज्ञानं धर्माधर्मविवेचनम् ।
सर्ववेदान्तसारं च सारात्सारं परात्परम् ॥१॥

कुण्डलिनीस्तवनं श्रुत्वा पूर्णोऽहं जगदीश्वरि ।
ईदानीं श्रोतुमिच्छामि स्वाधिष्ठानं प्रकाशकम् ॥२॥

यदि मे सुकृपादृष्टिरानन्दघनसञ्चये ।
वद श्रीकुण्डलीयोगं स्वाधिष्ठानविभेदनम् ॥३॥

येन क्रमेण भेदं स्यात्तत्प्रकारं विनिर्णय ।
आनन्दभैरवी उवाच
महाकाल महावीर आनन्द्सागरप्रिय ॥४॥

योग्योऽसि योगमार्गाणामत एव प्रकथ्यते ।
येन क्रमेण चक्रस्य भेदः स्यादमरो भवेत् ॥५॥

अमरो जितचित्तरिः क्रोधजित् प्रबलो बली ।
धर्माधर्मज्ञानवांश्च योगी भवति सज्जनः ॥६॥

परकालदर्शी विज्ञः स्यात् क्रतुश्रद्धापरायणः ।
अहङ्कारविहीनो यः स योगी भवेत्  ध्रुवम् ॥७॥

महावीरसुरसङिनी च सङुदोषविवर्जितः ।
महात्मापरमं ब्रह्मज्ञानी भवति योगिराट्‍ ॥८॥

विख्यातः सर्वदेशे च किन्तु स्वाश्रयवर्जितः ।
बालको विक्रमी धन्वी धनुर्बाणधरोऽव्ययः ॥९॥

स भवेत् योगमार्गेशो विवेकी पापवर्जितः ।
अविद्याग्रन्थिनिश्चेष्टो विवेकधर्मचातकः ॥१०॥

चतुरो विषमज्ञानवर्जितो यज्ञकृत शुचिः ।
स भवेद्‍ योगिनीपुत्रो योगानामधिपो भवेत् ॥११॥

यदि योगस्थितो मन्त्री वायवीशक्तिनिर्भरः ।
स एव योगी षण्मासादिति मे तन्त्रनिर्णयः ॥१२॥

यो मे तन्त्राणि जानति सदर्थज्ञानजानि च ।
स एव चतुरो योगी मम भक्तो न संशयः ॥१३॥

यदि वायुपानरतो मन्त्री भवति साधकः ॥१४॥

अथ स्वाधिष्ठानं कुलवरगतं षड्‌दलगतं
प्रभाकारं विष्णोरतिशयपदं कामनिलयम् ।
महायोगेन्द्राणा मनसि निलयं चारुकिरणं
शरच्चन्द्रज्योत्स्नायुतमतिधनं भव्यविषयम् ॥१५॥

सदाभावक्षेत्रे सकलसुधियो वेद... ...
यदामापक्षेमे सकलसुधियो वेदपथगाः
विचारं कुर्वन्ति क्षितिगतरताः श्रीप्रभृतयः ।
(प्रकाशस्यान्तःपतस्थ नटवरस्यातिनिलयम् )
विटच्छायामध्ये निवसति यथा गोकुलकुले ॥१६॥

हरिध्यानं कुर्यान्निरवधिमहानन्दरसिकः
स एवात्मा साक्षादिह नववरः षोडशयुवा ।
महासर्परिस्थं स्थितिकरणगं नागगमनं
मुखं वंशीनादध्वनिगुनधरं भावयति कः ॥१७॥

स एवात्मा नित्यो यतिरिह दले कोमलकुले
कुलागारे सारे सरसिजयुते षड्‌दलवरे ।
सुरानन्दश्रीदं दिवि दमनदर्त्तारममदं
सुधाकान्तं कृष्णं परमपुरुषं भावयति कः ॥१८॥

महाविद्यासिद्धं कुलपतिमनोमान्ययजितं
मुकुन्दं श्रीकृष्ण रसदलगतं स्वागमगतं ।
मुरारिं पापारिं नवयुवतिह्रत्पद्मसुगतं
ह्रषीकेशं विष्णुं विषयकरणं भावयति कः ॥१९॥

स योगेन्द्रो ज्ञानी जयति सृकृतौ कौतुकवतां
रमेशं श्रीकृष्णं रसविषहरं मानसचरम् ।
सरस्वत्या युक्तं कुलरसमयं मुक्तिजडितं
भजेच्चैतन्यान्तं सुरगुरुवरं मोक्षमयते ॥२०॥

यतीन्द्रः सश्रीकः प्रचयति निजं भाव्यविषयं
पुराणं योगीन्द्रं हरिमखिलपं कामनिलयम् ।
महासूक्ष्म्मं द्वारं कुलवधुरतं वामकिरणं
विशालाक्षं कृष्णं निजरसकुले कान्तममरम् ॥२१॥

कृपासाक्षीज्ञानं गुणगदितदेहं दाहरहितं
महाशौलं सत्यं कुवलयकरिं हन्ति मरणम् ।
अघावीशं श्रीशं शशिमुखिकराम्भोजयजितं
तमात्मानं कृष्णं निजकुलदले योऽपि भजति ॥२२॥

महाशब्दोत्पन्नं प्रकृतिविकृतिं कारणकृतिं
कृपासिद्धुं कृष्णं कुलवधुशतामोदमिलितम्।
जगन्नाथ स्तौति क्षितिपतिवशायोपकरणं
विराटं ब्रह्माण्डं करणगमहाविष्णुमरणम् ॥२३॥

विनोदं व्याकर्तुं त्रिभुवनपतिः श्रीपतिरहो
प्रचण्डे संसारे उदयति सदाभावसदने ।
महामेघश्यामस्त्रिफल करुणासागरकुले
अमूल्ये सञ्चारे विषयरसनासञ्चय विषम् ॥२४॥

स कृष्णः श्री विष्णुः प्रकृतिगदया हन्ति सततं
अतः कृष्णो ध्येयः सुरनरगणैः पञ्चसुमुखैः ।
कुलाम्भोजे षट्‌के मनरसदले ध्यानफलितः
किराती राकिण्या नयन कमलापानमधुरम् ॥२५॥

धराधारं पूर्णं गगननिलयं कालपुरुषं
मनोगम्यं रम्यं नव नयनलावण्यरसिकम् ।
सदा ध्यायेत् कृष्णं कुरुगणरिपुं यः कुलपतिः
निरालम्बः श्यामः प्रकृतियमुनातीरतरुगः ॥२६॥

कुलीना गोपिभिः परिमिलितपार्श्वस्थलसुखः
प्रधानः क्षेत्रज्ञः क्षितिपतिकराम्भोजयजितः ।
प्रकाशात्मा नाथः प्रचयकरुणो ध्येय इरया
मनोधर्मं च्छत्रं त्रिविधगुनगानश्रितकरम् ॥२७॥

त्रिकाण्डस्थं खण्डोद्‌भववनरंस प्राणरसिकं
यदा स्तौति प्रातः समयफले चारुवरदम् ।
महामोक्षक्षेत्रं कुलवधुयुतं कृष्णपरमं
गुणेशं राधेशं रजनिविधुनितं वेदनिलयम् ॥२८॥

क्रियादक्षं सूक्ष्मं समयगुणयो गाङ्कजडितं
त्रिकोणस्थं गङाजलगलितसारं तारकतनुम् ।
महाकालानन्दं गगनघनवर्णं सजलकं
प्रभावारं भावं तरुणववपुः श्रीधरमलम् ॥२९॥

वनोत्फुलाम्भोजा मनविरचना भालकल्या
महाशोभारुपं कुलपुरुषगं व्याश्रयति यः ।
स योगी संसारे भवति रसनायोगनिरतः
मनो यो व्याधाय प्रचुरफलदं कृष्णमखिलम् ॥३०॥

महाज्ञानोत्साहं गतिगुणवहिः प्राणनिचयं
जगत्तारं ब्रह्म निरवधिमहायोगकिरणम् ।
यदा लोकस्तौति प्रतिदिनमिहानन्दघटितं
विकार्म सर्वेषां ग्रहणनिलनं भास्करविधोः ॥३१॥

महाराहुग्रासं शतशतमहापुण्यनिकरं ।
कुलानन्दं विष्णुं शशिशतघटारामकिरणम् ।
मनोगम्यं सूक्ष्मं त्रिगुणजडितं भावयति कः ॥३२॥

कृष्णभक्तिं मुदा कृष्णं धात्वा कृत्वा यतिर्भवेत् ।
श्रीकृष्णचरणाम्भोजे तस्य भक्तिर्न संशयः ॥३३॥

कृष्णब्रह्म कृष्णब्रह्या च त्रिध्यानपरायणः ।
स कृष्णस्तं जनं नीत्वा ददाति अपि शङ्कर ॥३४॥

विना कृष्णपदाम्भोजं स्वाधिष्ठानं कुतो जयम् ।
कृष्णध्यानन्महापद्मभेदं प्राप्नोति शङ्कर ॥३५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रेद्‌दीपने षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानश्रीकृष्णराकिणीसाधनं नाम सप्तत्रिंशत्तमः पटलः ॥३७॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP