TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पञ्चामराविधानम्
आनन्दभैरवी उवाच
अथ भेदान् प्रवक्ष्यामि हिताय जगतां प्रभो ।
निर्मलत्मा शुचिः श्रीमान् ध्यानात्मा च सदाशिवः ॥१॥

स मोक्षगो ज्ञानरुपो स षट्‌चक्रार्थभेदकः ।
त्रिगुणज्ञानविकलो न पश्यति दिवानिशम् ॥२॥

दिवारात्र्यज्ञानहेतोर्न पश्यति कलेवरम् ।
इति कृत्वा हि मरणं जन्मनि जन्मनि ॥३॥

तज्जन्मक्षयतेतोश्च मम योगं समभ्यसेत् ।
पञ्चस्वरं महायोगं कृत्वा स्यादमरो नरः ॥४॥

तत्प्रकारं श्रृणुष्वाथं वल्लभ प्रियदर्शन ।
तव भावेन कथये न कुत्र वद शङ्कर ॥५॥

यदि लोकस्य निकटे कथ्यते योगशानम् ।
विघ्ना घोरा वसन्त्येव गात्रे योगादिकं कथम् ॥६॥

योगयोगाद्‌ भवेन्मोक्षः तत्प्रकाशाद्विनाशनम् ।
अतो न दर्शयेद्‍ योगं यदीच्छेदात्मनः शुभम् ॥७॥

कृत्वा पञ्चामरा योगं प्रत्यहं भक्तिसंयुतः ।
पठेत् श्रीकुण्डलीदेवीसहस्त्रनाम चाष्टकम् ॥८॥

महायोगी भवेन्नाथ षण्मासे नात्र संशयः ।
पञ्चमे वा योगविद्या सर्वविद्याप्रकासिनी ॥९॥

कृत्वा पञ्चस्वरा सिद्धिं ततोऽष्टाङादिधारणा ।
आदौ पञ्चस्वरा सिद्धिस्ततोऽन्या योगधारणा ॥१०॥

तत्प्रकारं प्रवक्ष्यामि सावधानवधारय ।
अहं जानामि संसारे केवलं योगपण्डितान् ॥११॥

तत् साक्षिणीं ह्याहं नाथ भक्तानामुदयाय च ।
इदानीं कथये तेऽहं मम वा योगसाधनम् ॥१२॥

एवं कृत्वा नित्यरुपी योगानामष्टधा यतः ।
ततः कालेन पुरुषः सिद्धिमाप्नोति निश्चितम् ॥१३॥

पञ्चामरो विधानानि क्रमेण श्रृणु शङ्कर ।
नेतीयोगं हि सिद्धानां महाकफविनाशनम् ॥१४॥

दन्तियोगं प्रवक्ष्यामि पश्चाद्‍ ह्रदयभेदनात् ।
धौतीयोगं ततः पश्चात् सर्वमलविनाशनात् ॥१५॥

नेउलीयोगमपरं सर्वाङोदरचालनात् ।
क्षालनं परमं योगं नाडीनां क्षालनात् स्मृतम् ॥१६॥

एतत् पञ्चामरायोगं यमिनामतिगोचरम् ।
यमनियमकाले तु पञ्चामराक्रियां यजेत् ॥१७॥

अमरा साधनादेव अमरत्वं लभेद्‍ ध्रुवम् ।
एतत्करणकाले च तथा पञ्चामरासनम् ॥१८॥

पञ्चामराभक्षणेन अमरो योगसिद्धिभाक् ।
तानि द्रव्याणि वक्ष्यामि तवाग्रे परमेश्वर ॥१९॥

येन हीना न सिद्‌ध्यन्ति कल्पकोतिशतेन च ।
एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् ॥२०॥

अन्या तु विजया देवी सिद्धिरुपा सरस्वती ।
अन्या तु बिल्वपत्रस्था शिवसन्तोषकारिणी ॥२१॥

अन्या तु योगसिद्‌ध्यर्थे निर्गुण्डी चामरा मता ।
अन्या तु कालितुलसी श्रीविष्णोः परितोषिणी ॥२२॥

एताः पञ्चस्वराः ज्ञेया योगसाधनकर्मणि ।
एतासां द्विगुणं ग्राह्यं विजयापत्रमुत्तमम् ॥२३॥

ब्राह्मणी क्षत्रिया वैश्या शूद्राः सर्वत्र पूजिताः ।
एतद्‌द्रव्याणि सङ्‌ग्राह्य भक्षयेच्चूर्णमुत्तमम् ॥२४॥

तच्चूर्णभक्षसमये एतमन्त्रादिपञ्चमम् ।
पठित्वा भक्षणं कृत्वा नरो मुच्येत सङ्काटात् ॥२५॥

ॐ त्वं दूर्वेऽमरपूज्ये त्वं अमृतोद्‌भवसम्भवे ।
अमरं मां सदा भद्रे कुरुष्वे नृहरिप्रिये ॥२६॥

ॐ दूर्वायै नमः स्वाहा इति दूर्वायाः ।
पुनर्विजयामन्त्रेण शोधयेत् सर्वकन्यकाः ।

ॐ संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदाऽनघे ।
भैरवाणां च तृप्त्यर्थे पवित्रा भव सर्वदा ॥२७॥

ॐ ब्राह्मण्यै नमः स्वाहा ।
ॐ सिद्धिमूलकरे देवि हीनबोधप्रबोधिनि ।
राजपुत्रीवशङ्करि शूलकण्ठत्रिशूलिनि ॥२८॥

ॐ क्षत्रियायै नमः स्वाहा ।
ॐ अज्ञानेन्धर्नदीप्ताग्नि ज्ञानाग्निज्ज्वालरुपिणि ।
आनन्दाध्याहुतिं कृत्वा सम्यक्ज्ञानं प्रयच्छ मे ॥२९॥

ह्रीं ह्रीं वैश्यायै नमः स्वाहा
ॐ नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।
त्रैलोक्यविजये मातः समाधिफलदा भव ॥३०॥

श्री शूद्रायैः स्वाहा ।
ॐ काव्यसिद्धिकरी देवी बिल्वपत्रनिवासिनि ।
अमरत्वं सदा देहि शिवतुल्यं कुरुष्व माम् ॥३१॥

ॐ शिवदायै नमः स्वाहा ।
निर्गुण्डि परमानन्दे योगानामधिदेवते ।
सा मां रक्षतु अमरे भावसिद्धिप्रदे नमः ॥३२॥

ॐ शोकापहायै नमः स्वाहा ।
ॐ विष्णोः प्रिये महामाये महाकालनिवारिणी ।
तुलसी मां सदा रक्ष मामेकममरं कुरु ॥३३॥

ॐ ह्रीं श्रीं ऐं क्लीं अमरायै नमः स्वाहा ।
पुनरेव समाकृत्य सर्वासां शोधनञ्चरेत् ॥३४॥

ॐ अमृते अमृतोद्‌भवेऽमृतवर्षिणि अमृतमाकर्षय ।
आकर्षय सिद्धिं देहि स्वाहा ।
धेनुमुद्रां योनिमुद्रां मत्स्यमुद्रां प्रदर्शयेत् ।
तत्त्वमुद्राक्रमेणैव तर्पणं कारयेद्‍ बुधः ॥३५॥

अमन्त्रकं सप्तवार गुरोर्नाम्ना शिवेऽर्पयेत् ।
सप्तकञ्च स्वेष्टदेव्या नाम्ना शुद्धिं प्रदापयेत् ॥३६॥

ततस्तर्पणमाकुर्यात्तर्पयामि नमो नमः ।
एतद्वाक्यस्य पूर्वे च इष्टमन्त्रं समुच्चरेत् ॥३७॥

परदेवतां समुद्धत्य सर्वाद्यप्रणवं स्मृतम् ।
ततो मुखे प्रजुहुयात् कुण्डलीनामपूर्वकम् ॥३८॥

ॐ ऐं वद वद वाग्वादिनि मम जिहवाग्रे स्थिरीभव ।
सर्वसत्त्ववशङ्करि शत्रुकण्ठत्रिशूलिनि स्वाहा ।
एतज्जप्त्वा साश्रमी च वशी साधकासत्तमः ।
पञ्चामरा शासनज्ञः कुलाचारविधिप्रियः ॥३९॥

स्थिरचेता भवेद्योगी यदि पञ्चामरागथ ।
नेतीयोगविधानानि श्रुणु कैलासपूजिते ॥४०॥

येन सर्वमस्तकस्थकफानां दहनं भवेत् ।
सूक्ष्मसूत्रं दृढतरं प्रदद्यात् नासिकाबिले ॥४१॥

मुखरन्ध्रे समानीय सन्धानेन समानयेत् ।
पुनः पुनः सदा योगी यातायातेन घर्षयेत् ॥४२॥

क्रमेण वर्द्धनं कुर्यात् सूत्रस्य परमेश्वर ।
नेतीयोगेन नासाया रन्ध्रं निर्मलकम भवेत् ॥४३॥

वायोर्गमनकाले तु महासुखमिति प्रभो ।
दन्तीयोगं ततः पश्चात्कुर्यात् साधकसत्तमः ॥४४॥

दन्तधावनकाले तु योगमेतत् प्रकाशयेत् ।
दन्तधावनकाष्ठञ्च सार्धहस्तैकसम्भवम् ॥४५॥

नातिस्थूलं नातिसूक्ष्मं नवीनं नम्रमुत्तमम् ।
अपक्वं यत्नतों ग्राह्यं मृणालसदृशं तरुम् ॥४६॥

गृहीत्वा दन्तकाष्ठं वै योगी नित्यं प्रभक्षयेत् ।
दन्तकाष्ठाग्रभागञ्च कनिष्ठाङ्‌गुलिपर्वतः ॥४७॥

एवं दन्तावलिभ्याञ्च चर्वण सुन्दरं चरेत् ।
ततः प्रक्षाल्य तोयेन शनिर्गिलनमाचरेत् ॥४८॥

शनैः शनैः प्रकर्त्तव्यं कायावाकचित्तशोधनम् ।
यावदभिन्नकाष्ठाग्रं नाभिमूले त्वनाक्षतम् ॥४९॥

तावत् सूक्ष्मतरं ग्राह्यवश्यं प्रत्यहञ्चरेत् ।
ह्रदये जलचक्रञ्च यावत् खण्डं न जायते ॥५०॥

तावत्कालं सर्वदिने प्रभाते दन्तधावनम् ।
ह्रदये कफभाण्डस्य खण्डनं जायते ध्रुवम् ॥५१॥

पवनागमने सौख्यं प्रयति योगनिर्भरम् ।
खेचरत्वं स लभताम् अम्लानञ्च कटूद्‌भवम् ॥५२॥

मिष्टान्नं शाकदध्यन्नं द्विवारं रात्रिभोजनम् ।
अवश्यं सन्त्यजेद्योगी यदि योगमिहेच्छति ॥५३॥

एकभागं मुद्‌गबीजं द्विभागं तण्डुलं मतम् ।
उत्तमं पाकमाकृत्य घृतदुग्धेन भक्षयेत् ॥५४॥

अथवा केवलं दुग्धं तर्पणं कारयेद्‍ बुधः ।
कुण्ड्लीं कुलरुपाञ्च दुग्धेन परितर्पयेत् ॥५५॥

कुण्डलीतर्पणं योगी यदि जानति शङ्कर ।
अनायासेन योगी स्यात् स ज्ञानीन्द्रो भवेद्‌ध्रुवम् ॥५६॥

यमनियमपरो यः कुण्डलीसेवनस्थो
विभवविरहितो वा भूरिभाराश्रितो वा ।
स भवति परयोगी सर्वविद्यार्थवेद्यो
गुणगणगगनस्थो मुक्तरुपी गणेशः ॥५७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने षट्‌चक्रप्रकाशे भैरवभैरवीसंवादे पञ्चामरासाधनं नाम चतुस्त्रिंशः पटलः ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-26T03:06:31.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

TṚṆAKA(तृणक)

RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site