TransLiteral Foundation

ऊनविंशः पटलः - प्रश्नादिकथने सिद्धिविधानम्

प्रश्नचक्रस्वरूपकथनम्


प्रश्नादिकथने सिद्धिविधानम्
आनन्दभैरवी उवाच
इदं तु श्रुणु वक्ष्यामि सर्वतन्त्रागोपनम् ।
तत्सर्वं प्रश्नचक्रे च षडाधारस्य भेदनंम् ॥१॥

कालचक्रफलं तत्र निर्विकल्पादिसाधनम् ।
प्रश्नचक्रं कामरुपं चैतन्यं सर्वदात्मनोः ॥२॥

षड्‌मन्दिरे षट्‌कलापं कैवल्यसाधनादिकम् ।
नानाभोगं योगसिद्धिं हित्वा यो मन्त्रमाजपेत् ॥३॥

स भवेद्‍ देवताद्रोही कोटिकल्पेन सिध्यति ।
ह्रदि यस्य महाभक्तिः प्रतिभाति महोदया ॥४॥

क्षणादेव हि सिद्धिः स्यात् किं जपैर्मन्त्रसाधनैः ।
अतो भक्ति सदा कुर्याद्‌ देवताभावसिद्धयै ॥५॥

भैरव उवाच
एतच्चक्रप्रसादेन को वा किं सिद्धिमाप्नुयात् ।
एतस्य भावनादिवे किं फलं भावनं शुभम् ॥६॥

को वा प्रश्नादिकथने क्षमो भवति सुन्दरि ।
तत्प्रकारं विधानेन वद मे फलसिद्धये ॥७॥

आनन्दभैरवी उवाच
यः करोति पूर्णहोमं पुत्रार्थं योगसिद्धये ।
कुण्डलीक्रमयोगेन पुनः पुनः क्रमेण च ॥८॥

एतच्चक्रार्थभावज्ञः स एव नात्र संशयः ।
यः करोति सदा नाथ वायुनिर्गमलक्षणम् ॥९॥

ऊर्ध्व संस्थाप्य विधिवद्‍ भावनां कुरुते नरः ।
स एव सिद्धिमाप्नोति सिद्धमार्गे(र्गे) न संशयः ॥१०॥

फलमेतद्‌भावनार्थं कामक्रोधादिवर्जितः ।
भावनाफलसिद्धयर्थं वायुसंयोगसंक्रमात् ॥११॥

लेपयित्वा शोधयित्वा मन्त्रयित्वा पुनः पुनः ।
धर्मधर्मविरोधेन सूक्ष्मवायुक्रमेण च ॥१२॥

प्राप्नोति महतीं सिद्धिमेतच्चक्रस्य तत्फलम् ।
फलञ्च द्विविधं प्रोक्तं स्थूलसूक्ष्मपरस्थितम् ॥१३॥

स्थूलं त्यक्त्वा महासूक्ष्मे मनो याति यदा यदा ।
तदा हि महती सिद्धिरमरस्तत्क्षणाद्‍ भवेत् ॥१४॥

एकबारं भावयेद्यः सिद्धचक्रस्य वर्णकान् ।
तस्यैव भावसिद्धिः स्याद्‍ भावेन किं न सिद्धयति ॥१५॥

महद्‌भावं विना नाथ कः सिद्धिफलकग्रही ।
योगभ्रष्टः स्थूलफले परजन्मनि सिद्धिभाक्‍ ॥१६॥

ऐहिके सिद्धिमाप्नोति सूक्ष्मफलक्रमेण च ।
यो जानाति सूक्ष्मफलं स योगी भवति ध्रुवम ॥१७॥

स एव प्रश्नकथने योग्यो साधकः ।
यः सूक्ष्मफलभोक्ता स्यात् क्रियागोपनतत्परः ॥१८॥

निरन्तरं प्रश्नचक्रं आज्ञाचक्रोपरि स्थितम् ।
विभाव्य कालसिद्धिः स्यात् सर्वज्ञो वेदपारगः ॥१९॥

कालज्ञानी च सर्वज्ञ इति तत्त्वार्थ निर्णयः ।
प्रश्नचक्रस्थितं वर्णं सूक्ष्मकालफलावहम् ॥२०॥

मनोरुपं दण्डभेदं मासभेदं सवर्गकम् ।
मनसो भ्रम एवं  हि काल एको न संशयः ॥२१॥

मृत्यु(त्युं)वशं करोत्येव कालज्ञानी स योगिराट्‌ ।
कालेन लीयते सर्वं त्रैलोक्यं सचराचरम् ॥२२॥

कालधीनमिंद विश्वं तस्मात् काल (लं) वशं नयेत् ।
तत्कालं सूक्ष्मनिलयं दुर्वाच्य प्रश्नकं श्रृणु ॥२३॥

मेषं तुलाराशिमनुत्तमं सदा
वैशाखमासे फलसिद्धिकारणम् ।
कवर्गमावाप्य स्वरान् स एव
विभावयेत् स क्षितिनाथ आभवेत् ॥२४॥

आज्ञाचक्रोपरि ध्यात्वा सर्वचक्रं महाप्रभो ।
एकक्षणेन सिद्धिः स्यात् परभावेन हेतुना ॥२५॥

सिद्धेशचक्रचैतन्यं यो जानति महीतले ।
वाक्‌सिद्धिर्जायते मासाद्‌दिवारात्रिक्रमेण च ॥२६॥

वर्णमालासमाक्रान्तं राशिनक्षत्रसंयुतम् ।
ग्रहचक्रं भावयित्वा सर्वं जानाति साधकः ॥२७॥

च वर्गं वृषमीनस्थं कैशोरसिद्धिकारणम् ।
द्विमाससाधनादेव सर्वज्ञो भवति ध्रुवम् ॥२८॥

योगिनी खेचरी भूत्वा प्रयाति निकटे सताम् ।
ग्रहचक्रप्रसादेन जीवन्मुक्तस्तु साधकः ॥२९॥

यदि कर्म करोत्येव एकान्तचित्तनिर्मलः ।
तस्याऽसाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥३०॥

प्रश्नचक्र प्रसादेन सर्वे वै योगिनो भुवि ।
यदि योगी भवेद्‍ भूमौ तदा मोक्षवाप्नुयात् ॥३१॥

विना योगसाधनेन कः सिद्धो भूमिमण्डले ।
साधनेन विना सिद्धिः कस्य भक्तस्य जायते ॥३२॥

भक्तानां निकटे सर्वे प्रतिष्ठन्ति महर्षयः ।
अतो भक्ति सदा कुर्यात् सर्वधर्मान् विहाय च ॥३३॥

तत्कालं भक्तिमाप्नोति प्रश्नचक्रप्रसादतः ।
तत्प्रकारं महाधर्मं को वक्तुं क्षम एव हि ॥३४॥

कञ्चित्तद्‌भावसारञ्च प्रश्नचक्रे वदाम्यहम् ।
चवर्गभावनादेव भक्तिं प्राप्नोति साधकः ॥३५॥

समाधाय परं देवमाज्ञाचक्रोपरि प्रभो ।
विभाव्य नित्यभावं हि प्राप्नोति तत्कुलाद(कलाम)पि ॥३६॥

आनन्दाश्रूणि पुलको देहावेशमनोलयम् ।
सर्वकर्म स्वयं-त्यागी यः करोति स योगिराट्‌ ॥३७॥

टवर्गे वासनासिद्धिः संसारहितो भवेत् ।
बलवान् सर्वविज्ञानी त्रिमासे खेचरो भवेत् ॥३८॥

खेचरीमेलनं तस्य परं प्राप्नोति चक्रतः ।
टवर्गं व्याप्य तिष्ठन्ति मिथुनं कुम्भयोनयः ॥३९॥

स्वनक्षत्रस्वयोगञ्च विभाव्य योगिराड्‍ भवेत् ।
चतुर्मासे पूर्णयोगी तवर्गसाधनादपि ॥४०॥

वेतालादिमहासिद्धिमिन्द्र सिद्धिं समाप्नुयात् ।
तवर्गं व्याप्य तिष्ठन्ति मकरवृश्चिककर्कटाः ॥४१॥

चिरजीवी भवेदीश इन्द्रतुल्यप्रियो भवेत् ।
तिष्ठेत् प्रलयपर्यन्तं महाप्रलयरुपवान् ॥४२॥

कृत्वा काल(लं)वशं महावायौ महालयम् ।
महाचक्रे सूर्यमध्ये वहिनमण्डलमध्यगे ॥४३॥

वाग्देवता तस्य साक्षादभवतीति न संशयः ।
पवर्गं व्याप्य तिष्ठन्ति धनुः सिंहास्तु चित्कलाः ॥४४॥

विभाव्य परमस्थानं स (न) नश्यति महानिलम् ।
त्रैलोक्यमष्टवर्गं च षट्‌चक्रं चक्षुषा क्षणात् ॥४५॥

यदि वान्तं ब्रह्मरुपं सर्वतीर्थपदाश्रयम् ।
महासत्त्वगुणाक्रान्तं मत्वा निर्मलचक्षुषा ॥४६॥

कन्यावृश्चिकराशिभ्यां ब्रह्ममार्ग विलोकयेत् ।
षण्मासेन सिद्धिः स्याद्‍ महाकौलो भवेद्‌ ध्रुवम् ॥४७॥  

मौनी एकान्तभक्तः स्यात् श्रीपादाम्भोजदर्शनम् ।
प्राप्नोति साधकश्रेष्ठः सायुज्यपदवीं लभेत् ॥४८॥  

ततो मध्ये प्रगच्छन्ति योगिनस्तत्त्वचिन्तकाः ।
शादिक्षान्ते चतुष्कोणे सर्वयोगाश्रये पदे ॥४९॥

विभाव्य याति शीघ्र सः श्री देवीलोकमण्डले ।
महाकालो भवेद्‍ धीमान् प्रश्नचक्रस्य भावकः ॥५०॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावप्रश्नार्थनिर्णये पाशवकल्पेप्रश्नचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेद्ल्लासे भैरवभैरवीसंवादे ऊनविंशः पटलः ॥१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-10T03:14:10.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कमरबंद

  • m  A sash. 
  • a  Of girded loins, ready. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.