TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः ४
श्रीहंस उवाच
सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना । प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ॥१॥
महामायेत्यविद्येति प्रकृतिर्मोहिनीति च । त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमथ् ॥२॥
अविद्याकामकर्मादि बीजमित्यपि तां विदुः । रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ॥३॥
अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि । अजामनन्यवशगां कलाषोडशसंयुतां ॥४॥
तीव्रदुःखात्मकां नानायोनिप्रापकमीरितं । नारिकेलसमाकारं परिच्छेदत्रयात्मकं ॥५॥
मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा । विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवथ् ॥५॥
सृष्टौ लये रमा तस्य मानिनी च निरन्तरं । सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ॥७॥
रजःसत्त्वतमःसंज्ञभागत्रयसमन्वितं । सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ॥८॥
नीलवर्णस्तमोभाग इति भागत्रयात्मकः । ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ॥९॥
तमोभागगताः पञ्चतन्मात्रासंज्ञिताः कलाः । मनः कला सत्वभागगता सर्वप्रधानिका ॥१०॥
मनोबुद्धिरहङ्कारश्चित्तं चेति चतुर्विधं । कामक्रोधमहालोभमदमात्सर्यमोहकाः ॥११॥
द्वेषाहङ्कारममकारेर्ष्यसूयाभयादयः । मनोदोषास्तद्विहीनं मनोज्ञानाय साधनं ॥१२॥
मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतं । तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ॥१३॥
मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति । बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ॥१४॥
अहङ्कारः पुमर्थानां घातकःः सोत्तमैः सह । स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ॥१५॥
चित्तं सत्साधनगतं करोति पुरुषं सदा । सत्साधनमहङ्कारकलितं पापमेवहि ॥१६॥
अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनं । रचिते भारते वर्षे यथा मानुषसत्तनुं ॥१७॥
लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः । कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ॥१८॥
प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः । वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकं ॥१९॥
ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति । स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ॥२०॥
व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा । सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥२१॥
इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः । अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ॥२२॥
श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः । वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ॥२३॥
श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः । शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ॥२४॥
अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः । ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ॥२५॥
ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः । नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ॥२६॥
वर्णात्मकस्तु यःशब्दो नित्यः सर्वगतो विभुः । द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ॥२७॥
वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा । अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ॥२८॥
विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः । शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ॥२९॥
यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः । नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ॥३०॥
सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा । यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ॥३१॥
वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडं । श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ॥३२॥
ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनं । भविष्यं नारसिंहं च राजसानि षडैव हि ॥३३॥
मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च । पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ॥३४॥
ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा । वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ॥३५॥
इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि । व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ॥३६॥
क्वचित्क्वचित्पुराणानि प्रायोज्ञानकराण्यपि । आसुरावेशवशतः तदन्योक्तान्यनन्तशः ॥३७॥
श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलं । परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ॥३८॥
अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् । बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ॥३९॥
एतानि वषयाण्याहुः श्रोतव्यानि सहस्रशः । शब्ददोषविहीनानि ग्राह्याणि मनसा सह ॥४०॥
तत्रोक्तानन्तसुगुणं निर्देषं ज्ञेयमीश्वरं । गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनं ॥४१॥
आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि । कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतं ॥४२॥
इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-02-27T04:58:18.7370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जंजार

  • पु. १ ओझें . २ त्रास ; प्रयत्नाची पराकाष्ठा . ( क्रि० तोडणें ). [ जंजाल - सं . जंज = युध्द करणें ] 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site