TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः ३
श्रीहंस उवाच
जालरन्ध्रात्ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि । यदा भवन्ति तस्याः समीपे तिर्गास्थितः ॥१॥
केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः । मर्त्योत्तमो भक्तिपाकात्महरादिषु संस्थितः ॥२॥
यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः । तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ॥३॥
भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः । तच्छतांशो देवलोके स्थितस्य परमाणुकः ॥४॥
तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः । परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ॥५॥
परमाणुद्वयात्मातु कालो द्व्यणुकरिरितः । परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ॥६॥
त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु । लवोवेधत्रयात्मास्यात्निमेषस्तु त्रिभिर्लवैः ॥७॥
क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् । काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ॥८॥
लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता । विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ॥९॥
ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितं । अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ॥१०॥
सपादसप्तभिर्वापि सार्धसप्तभिरेव वा । यामः कालोष्टभिर्वापि कालभेदेन चोदितः ॥११॥
यामैश्चतुर्भिः अहः स्यात्तावद्भिर्यामिनीमता । अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः ॥१२॥
ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितं । कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ॥१३॥
दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकं । यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ॥१४॥
उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः । अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ॥१५॥
षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः । अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ॥१६॥
क्ळ्प्तः कृतयुगस्तस्मात्त्रेतापादोनमुच्यते । सहस्रषण्णवत्येतलक्षद्वादश संमितः ॥१७॥
त्रेतायुगस्ततः पादन्यूनो द्वापररिरितः । चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ॥१८॥
द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः । द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ॥१९॥
कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः । चतुर्युगात्मकः कालो महायुग इतीर्यते ॥२०॥
विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः । क्ळ्प्तः कालः कालदृग्भिः महायुग इतीर्यते ॥२१॥
षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दरिरितः । तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ॥२२॥
त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः । द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ॥२३॥
कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतं । सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयं ॥२४॥
सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयं । शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः ॥२५॥
एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः । क्ळ्प्तः कालः कालविद्भिः महायुग इतीर्यते ॥२६॥
सार्धाष्टादशलक्षाब्दे युगानां एकसप्तति । मिलितो मनुसन्धातभोगकाल उदीरितः ॥२७॥
द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः । स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ॥२८॥
पञ्चादशशताब्दात्मा लयः काल उदीरितः । चतुर्दशशताब्दात्मा लयः काल उदाहृतः ॥२९॥
तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु । चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ॥३०॥
रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा । षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ॥३१॥
एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः । वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ॥३२॥
यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु । मासत्रयाधिकादब्दषट्कात्पूर्वतनादभूथ् ॥३३॥
सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः । सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवथ् ॥३४॥
नारायणादजाद्रुद्रात्क्रमात्कालानुसारतः । यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ॥३५॥
अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः । आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ॥३६॥
दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् । तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ॥३७॥
नाभ्युत्थिताल्लोकमयात्प्राकृतात्पद्मकोशतः । पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये ॥३८॥
दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः । व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनं ॥३९॥
एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी । स्वयं चात्मस्वरूपाणां एकीभावं करोत्यजः ॥४०॥
यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता । एकीभूतेपि रमति तथैकीभूतमायया ॥४१॥
तावत्कालं ततः पश्चात्सुप्तवत्स्वापयत्यजः । सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ॥४२॥
भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः । करोति पुरुषस्तस्य नायुर्मानं विधीयते ॥४३॥
एवं विधापरिमितानन्तानन्तपरात्मके । काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ॥४४॥
स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते । लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरं ॥४५॥
येऽनन्तकालतस्तस्य मृतिजन्मजरादयः । आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ॥४६॥
अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः । कृशतारोगदुरितपुण्यलेपादयस्तथा ॥४७॥
आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा । नासन्दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ॥४८॥
तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः । तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ॥४९॥
तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः । यः कालः परमाण्वादि द्विपरार्धावसानकः ॥५०॥
तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः । तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ॥५१॥
नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः । नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमाथ् ॥५२॥
अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः । शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः ॥५३॥
सकालस्तु निमेषाख्यः अहश्च परमेशितुः । इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ॥५४॥
अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरं । अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ॥५५॥
अङ्गीकरोति तं कालमहोयदखिलेश्वरः । रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ॥५६॥
रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः । निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ॥५७॥
करोति पुरुषस्तस्य आयुर्मानं विधीयते । एवं विधापरिमितानन्तानन्तपरात्मकः ॥५८॥
कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः । स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ॥५९॥
पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि । उत्तरत्रायास्यमानपरमाणुप्रवाहतः ॥६०॥
संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः । घटिकायाममासाद्या नैकदा सम्भवन्ति हि ॥६१॥
आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः । विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकं ॥६२॥
वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च । रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजां ॥६३॥
समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा । एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनां ॥६४॥
कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकं । अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणां ॥६५॥
आयुर्माने शरीराणां कालज्ञनं प्रयोजकं । एवं कालगतिं जानन्कालभीतिं तरिष्यति ॥६६॥
एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः । दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ॥६७॥
नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः । ब्रह्माणं गरुडं शेषं इद्रं प्राणं रविं सुरान् ॥६८॥
एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः । तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान् ॥६९॥
हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः । रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ॥७०॥
तादृशानन्तरूपाणां अनन्त्यानन्त्ययोगतः । अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ॥७१॥
रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः । अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ॥७२॥
निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः । समशक्तिः समज्ञानबलादिशुभसद्गुणः ॥७३॥
समाधिकविहीनश्च रमयानन्तरुपया । सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः ॥७४॥
स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः । भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा ॥७५॥
विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः । अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ॥७६॥
पूर्णपि जडचिद्रूपं सृजत्यवति हन्त्यजः ॥७७॥

इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-02-27T04:57:21.6900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ठाऊ

  • पु. ( काव्य . ) ठिकाण ; जागा . बहिर्भूमी जावयासी । ठाऊ कैसा परियेसी । - गुच ३६ . १३५ . [ सं . स्था ] 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.