TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः १
सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः । यथा ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ॥१॥
श्रीहंस उवाच
नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् । ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ॥२॥
तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः । स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ॥३॥
तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः । पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनं ॥४॥
स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः । स एव भगवानात्मा चराचरनियामकः ॥५॥
अण्डमावरणान्सर्वान्प्राकृतान्पुरुषोत्तमः । सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ॥६॥
ततः सर्वान्पूर्वकल्पमुक्तान्बद्धांश्च चेतनान् । स्वोदरे स्थाप्य भगवान्स्वप्रकाशोऽस्वपत्सुखी ॥७॥
दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः । यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ॥८॥
तावद्रूपवती भूमिः वटपत्राभवत्पुरा । दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ॥९॥
तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थले । शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ॥१०॥
तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये । मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ॥११॥
अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः । वसन्ति क्ळ्प्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ॥१२॥
प्राप्तव्यान्प्रलयेनैव तेषां दास्यति माधवः । हित्वा प्राप्तव्यमानन्दं क्ळ्प्तानन्दैकभोजिनां ॥१३॥
वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः । प्रलये सर्वमुक्तानां नाश इत्युच्यतेब्जज ॥१४॥
सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः । द्वेषधर्माधर्मयत्ननिरता जीवराशयः ॥१५॥
लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि । साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ॥१६॥
लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि । तदासर्वे गाढनिद्रामुपगच्छन्ति तादृशाः ॥१७॥
लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः । सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ॥१८॥
मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता । लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेथ् ॥१९॥
व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः । अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकं ॥२०॥
आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् । देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ॥२१॥
समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः । नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ॥२२॥
सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणां । सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेथ् ॥२३॥
तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः । वर्णेषु सर्वभाषाभिव्यञ्जका शक्तिरिष्यते ॥२४॥
सृष्टौ न सास्ति प्रलये तेषां नाशो हि तादृशः । तमः स्थानां पूर्वक्ळ्प्तदुःखभोगो लयः स्मृतः ॥२५॥
प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा । सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ॥२६॥
स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः । हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः ॥२७॥
अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः । अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ॥२८॥
क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः । देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ॥२९॥
जडा च प्रकृतिर्नित्या जडरूपाणुरेव च । देशतः कालतो व्याप्ताचिद्रूपाः श्रीहरेःसदा ॥३०॥
अनन्तगुणतो नीचा गुणतोऽनन्तरिश्वरे । लये समाश्रिताःसर्वे वसन्ति क्षीणशक्तयः ॥३१॥
सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः । परमाणुमितानन्तानन्तरूपः सदा हरिः ॥३२॥
तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः । समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ॥३३॥
समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः । अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ॥३४॥
सर्वतः पाणिपादात्मा सर्वतोऽक्षिशिरोमुखः । सर्वत्र सर्वेन्द्रियावान्सर्वमावृत्य तिष्ठति ॥३५॥
अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः । असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ॥३६॥
बहिरन्तश्च भूतानां अचरश्चर एव च । अव्यक्तोव्यक्तरूपश्च साधुःसत्साक्षिगोचरः ॥३७॥
एकोप्यनेकवद्भाति नित्यसत्यो महासुखः । अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ॥३८॥
स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः । स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ॥३९॥
योगनिद्रामुपगतो विनिद्रोऽस्वपदीश्वरः । अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ॥४०॥
उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी । अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ॥४१॥
सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः । तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ॥४२॥
तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा । दुर्गा प्रावरणाकारा हरेरमिततेजसः ॥४३॥
स्वानेव सुगुणान्भुञ्जनसुप्ताभूत्सुसुप्तवत् । मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ॥४४॥
स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः । सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ॥४५॥
भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये । लये स्वापं प्रापयति लिङ्गबद्धान्स्वदेहगान् ॥४६॥
अनादियोग्ताकर्मभावाज्ञानाकुलान्बहून् । सृज्यान्विलक्षणान्तारतम्यस्थान्त्रिविधात्मकान् ॥४७॥
स्वल्पनिद्रान्महानिद्रान्गढनिद्रासमन्वितान् । चिन्मात्रानन्दभुङ्मुक्तान्सदा दुःखभुजोऽसुरान् ॥४८॥
तमःसंस्थान्सदा बद्धान्जठरे स्थाप्य केशवः । वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ॥४९॥
तेषु सृज्यान्स्वयं सृष्ट्वा यथायोग्यफलं विभुः । सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ॥५०॥
लयास्यष्टमो भागो लयान्तिम उदाहृतः । लये समालिङ्य हरिं विनिद्रा परमेश्वरी ॥५१॥
निद्रिते वा सदानन्दवारिधिं समुपाश्रिता । लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ॥५२॥
प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे । देशतः कालतोऽनन्ता गुणानन्त्यविवर्जिता ॥५३॥
ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा । लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ॥५४॥
सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी । छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ॥५५॥
विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि । गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ॥५६॥
अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी । शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ॥५७॥
रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी । नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ॥५८॥
प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका । अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ॥५९॥
चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका । पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ॥६०॥
अव्यक्ततत्कार्यमय देहशून्या तथाविधा । स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदविथ् ॥६१॥
ते वेदाः ऋग्यजुःसामाथर्वणाः श्रीहरेर्वशाः । चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ॥६२॥
उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः । विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ॥६३॥
अनन्तकालमरभ्यरिषद्वेत्यासवर्जिताः । सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ॥६४॥
गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः । ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ॥६५॥
अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलं । ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ॥६६॥
लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः । रक्षिताः प्रलये सृष्टावेकरूपा भवन्ति हि ॥६७॥
अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः । सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ॥६८॥
कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् । तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ॥६९॥
वृत्तिज्ञानोत्पादशौण्डाः अ(योग्या)थाज्ञानाममबोधकाः । शब्दरूपाःसाक्षियुक्तमनः श्रोत्रैकगोचराः ॥७०॥
सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः । शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ॥७१॥
पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परं । अनन्तात्मानन्तशक्तिः ओं(आ)कारादि श्रुतिव्रजान् ॥७२॥
नित्यान्सव्यञ्जयन्तेषां सृष्टौ दुर्गामुपादिशत् । प्रलयस्याष्टमे भागे वेदस्रष्टुर्जगत्पतेः ॥७३॥
ओं(अ)कारः प्रथमो व्यक्तो बभूव भगवन्मयः । ॐआनादबिन्दू च घोषशान्तातिशान्तकाः ॥७४॥
यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः । ओङ्कारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ॥७५॥
ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनां । परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ॥७६॥
तारप्रणवशब्दाभ्यां वाच्य ओङ्काररिरितः । नारायणाष्टाक्षराख्यः तरगर्भाक्षरैरभूथ् ॥७७॥
अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः । नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ॥७८॥
तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः । व्याहृत्याख्योऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ॥७९॥
तारगर्भाक्षरैर्व्यक्ताः वर्णाः पञ्चाशदीरिताः । अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ॥८०॥
अष्टवर्णाः अकारोत्थाः अचः षोडशसंमताः । पञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ॥८१॥
मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः । टवर्गपञ्चवर्णास्तु नादोत्था इति संमताः ॥८२॥
पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः । पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ॥८३॥
यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः । अतिशान्ताच्छवर्गस्य पञ्चवर्णाःसमुत्थिताः ॥८४॥
कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते । पञ्चाशतान्तुवर्णानां तारवर्णाष्ट दैवतैः ॥८५॥
विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः । अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ॥८६॥
ॠघःळ्शौ लॄजिरेकात्मैर ओजोभृदौरसः । अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ॥८७॥
घर्मोङ्गसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः । झडितारिञमष्टङ्की ठलको डरको ढरी ॥८८॥
णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली । बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ॥८९॥
शान्तसंवित्षड्गुणश्च सारात्मा हंसलालुकौ । अकाराद्यैःसर्ववर्णैर्वाच्या एते प्रकीर्तिताः ॥९०॥
क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः । एकपञ्चाशद्वर्णात्मा मतृकामन्त्ररिरितः ॥९१॥
नारायणाष्टवर्णाश्च चतुर्व्याहृतिभिः क्रमात् । वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ॥९२॥
केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः । त्रिवारं विष्णुनैवोक्तान्मन्त्रान्नारायणादभूथ् ॥९३॥
गयत्री ब्रह्मःऋषिका द्विगुणाद्वादशाक्षरात् । केशवाद्याश्चतुर्विंशत्गायत्रीवर्णदेवताः ॥९४॥
गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः । पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ॥९५॥
विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः । प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ॥९६॥
गायत्री ब्रह्मःऋषिका पुंसूक्तं वैष्णवं तथा । अष्टावेते महामन्त्राः वैदिकाःसर्वसिद्धिदाः ॥९७॥
पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः । दुर्गयानन्तरूपिण्यानन्त वेदोदितो हरिः ॥९८॥
तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीक्ळ्पथ् ॥९९॥

इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-02-27T23:49:09.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

निर्पुट

  • वि. ( व . घाटी ) अगदी स्वच्छ . तो महार असून निर्पुटवाणा राहतो . [ निर + पुट + वाणा प्रत्यय ] 
RANDOM WORD

Did you know?

सुतकातील नियमांबद्दल मार्गदर्शन करावे.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.