TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४९

श्रीनरसिंहपुराण - अध्याय ४९

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


अध्याय ४९

मार्कण्डेय उवाच

गतेऽथ भरते तस्मिन् रामः कमललोचनः ।

लक्ष्मणेन सह भ्रात्रा भार्यया सीतया सह ॥१॥

शाकमूलफलाहारो विचचार महावने ।

कदाचिल्लक्ष्मणमृते रामदेवः प्रतापवान् ॥२॥

चित्रकूटवनोद्देशे वैदेह्युत्सङ्गमाश्रितः ।

सुष्वाप स मुहूर्तं तु ततः काको दुरात्मवान् ॥३॥

सीताभिमुखमभ्येत्य विददार स्तनान्तरम् ।

विदार्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ॥४॥

ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरे ।

शोकाविष्टां तु सीतां तामुवाच कमलेक्षणः ॥५॥

वद स्तनान्तरे भद्रे तव रक्तस्य कारणम् ।

इत्युक्ता सा च तं प्राह भर्तारं विनयान्विता ॥६॥

पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् ।

अनेनैव कृतं कर्म सुप्ते त्वयि महामते ॥७॥

रामोऽपि दृष्टवान् काकं तस्मिन् क्रोधमथाकरोत् ।

इषीकास्त्रं समाधाय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥८॥

काकमुद्दिश्य चिक्षेप सोऽप्यधावद्भयान्वितः ।

स त्विन्द्रस्य सुतो राजन्निन्द्रलोकं विवेश ह ॥९॥

रामास्त्रं प्रज्वलद्दीप्तं तस्यानु प्रविवेश वै ।

विदितार्थश्च देवेन्द्रो देवैः सह समन्वितः ॥१०॥

निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम् ।

ततोऽसौ सर्वदेवैस्तु देवलोकाद्वहिः कृतः ॥११॥

पुनः सोऽप्यपतद्रामं राजानं शरणं गतः ।

पाहि राम महाबाहो अज्ञानादपकारिणम् ॥१२॥

इति ब्रुवन्तं तं प्राह रामः कमललोचनः ।

अमोघं च ममैवास्त्रमङ्गमेकं प्रयच्छ वै ॥१३॥

ततो जीवसि दुष्ट त्वमपकारो महान् कृतः ।

इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् ॥१४॥

अस्त्रं तन्नेत्रमेकं तु भस्मीकृत्य समाययौ ।

ततः प्रभृति काकानां सर्वेषामेकनेत्रता ॥१५॥

चक्षुषैकेन पश्यन्ति हेतुना तेन पार्थिव ।

उषित्वा तत्र सुचिरं चित्रकूटे स राघवः ॥१६॥

जगाम दण्डकारण्यं नानामुनिनिषेवितम् ।

सभ्रातृकः सभार्यश्च तापसं वेषमास्थितः ॥१७॥

धनुः पर्वसुपाणिश्च सेषुधिश्च महाबलः ।

ततो ददर्श तत्रस्थानम्बुभक्षान्महामुनीन् ॥१८॥

अश्मकुट्टाननेकांश्च दन्तोलूखलिनस्तथा ।

पञ्चाग्निमध्यगानन्यानन्यानुग्रतपश्चरान् ॥१९॥

तान् दृष्ट्वा प्रणिपत्योच्चै रामस्तैश्चाभिनन्दितः ।

ततोऽखिलं वनं दृष्ट्वा रामः साक्षाज्जनार्दनः ॥२०॥

भ्रातृभार्यासहायश्च सम्प्रतस्थे महामतिः ।

दर्शयित्वा तु सीतायै वनं कुसुमितं शुभम् ॥२१॥

नानाश्चर्यसमायुक्तं शनैर्गच्छन् स दृष्टवान् ।

कृष्णाङ्गं रक्तनेत्रं तु स्थूलशैलसमानकम् ॥२२॥

शुभ्रदंष्ट्रं महाबाहुं संध्याघनशिरोरुहम् ।

मेघस्वनं सापराधं शरं संधाय राघवः ॥२३॥

विव्याध राक्षसं क्रोधाल्लक्ष्मणेन सह प्रभुः ।

अन्यैरवध्यं हत्वा तं गिरिगर्ते महातनुम् ॥२४॥

शिलाभिश्छाद्य गतवाज्शरभङ्गाश्रमं ततः ।

तं नत्वा तत्र विश्रम्य तत्कथातुष्टमानसः ॥२५॥

तीक्ष्णाश्रममुपागम्य दुष्टवांस्तं महामुनिम् ।

तेनादिष्टेन मार्गेण गत्वागस्त्यं ददर्श ह ॥२६॥

खङ्गं तु विमलं तस्मादवाप रघुनन्दनः ।

इषुधिं चाक्षयशरं चापं चैव तु वैष्णवम् ॥२७॥

ततोऽगस्त्याश्रमाद्रामो भ्रातृभार्यासमन्वितः ।

गोदावर्याः समीपे तु पञ्चवट्यामुवास सः ॥२८॥

ततो जटायुरभ्येत्य रामं कमललोचनम् ।

नत्वा स्वकुलमाख्याय स्थितवान् गृध्रनायकः ॥२९॥

रामोऽपि तत्र तं दृष्ट्वा आत्मवृत्तं विशेषतः ।

कथयित्वा तु तं प्राह सीतां रक्ष महामते ॥३०॥

इत्युक्तोऽसौ जतायुस्तु राममालिङग्य सादरम् ।

कार्यार्थं तु गते रामे भ्रात्रा सह वनान्तरम् ॥३१॥

अहं रक्ष्यामि ते भार्यां स्थीयतामत्र शोभन ।

इत्युक्त्वा गतवान्रामं गृध्रराजः स्वमाश्रमम् ॥३२॥

समीपे दक्षिणे भागे नानापक्षिनिषेविते ।

वसन्तं राघवं तत्र सीतया सह सुन्दरम् ॥३३॥

मन्मथाकारसदृशं कथयन्तं महाकथाः ।

कृत्वा मायामयं रुपं लावण्यगुणसंयुतम् ॥३४॥

मदनाक्रान्तहदया कदाचिद्रावणानुजा ।

गायन्ती सुस्वरं गीतं शनैरागत्य राक्षसी ॥३५॥

ददर्श राममासीनं कानने सीतया सह ।

अथ शूर्पणखा घोरा मायारुपधरा शुभा ॥३६॥

निश्शङ्का दुष्टचित्ता सा राघवं प्रत्यभाषत ।

भज मां कान्त कल्याणीं भजन्तीं कामिनीमिह ॥३७॥

भजमानां त्यजेद्यस्तु तस्य दोषो महान् भवेत् ।

इत्युक्तः शूर्पणखया रामस्तामाह पार्थिवः ॥३८॥

कलत्रवानहं बाले कनीयांसं भजस्व मे ।

इति श्रुत्वा ततः प्राह राक्षसी कामरुपिणी ॥३९॥

अतीव निपुणा चाहं रतिकर्मणि राघव ।

त्यक्त्वैनामनभिज्ञां त्वं सीतां मां भज शोभनाम् ॥४०॥

इत्याकर्ण्य वचः प्राह रामस्तां धर्मतत्परः ।

परस्त्रियं न गच्छेऽहं त्वमितो गच्छ लक्ष्मणम् ॥४१॥

तस्य नात्र वने भार्या त्वामसौ संग्रहीष्यति ।

इत्युक्ता सा पुनः प्राह रामं राजीवलोचनम् ॥४२॥

यथा स्याल्लक्ष्मणो भर्ता तथा त्वं देहि पत्रकम् ।

तथैवमुक्त्वा मतिमान् रामः कमललोचनः ॥४३॥

छिन्ध्यस्या नासिकामिति मोक्तव्या नात्र संशयः ।

इति रामो महाराजो लिख्य पत्रं प्रदत्तवान् ॥४४॥

सा गृहीत्वा तु तत्पत्रं गत्वा तस्मान्मुदान्विता ।

गत्वा दत्तवती तद्वल्लक्ष्मणाय महात्मने ॥४५॥

तां दृष्ट्वा लक्ष्मणः प्राह राक्षसीं कामरुपिणीम् ।

न लङ्घ्यं राघववचो मया तिष्ठात्मकश्मले ॥४६॥

तां प्रगृह्य ततः खङ्गमुद्यम्य विमलं सुधीः ।

तेन तत्कर्णनासां तु चिच्छेद तिलकाण्डवत् ॥४७॥

छिन्ननासा ततः सा तु रुरोद भृशदुः खिता ।

हा दशास्य मम भ्रातः सर्वदेवविमर्दक ॥४८॥

हा कष्टं कुम्भकर्णाद्यायाता मे चापदा परा ।

हा हा कष्टं गुणनिधे विभीषण महामते ॥४९॥

इत्येवमार्ता रुदती सा गत्वा खरदूषणौ ।

त्रिशिरसं च सा दृष्ट्वा निवेद्यात्मपराभवम् ॥५०॥

राममाह जनस्थाने भ्रात्रा सह महाबलम् ।

ज्ञात्वा ते राघवं क्रुद्धाः प्रेषयामासुरुर्जितान् ॥५१॥

चतुर्दशसहस्त्राणि राक्षसानां बलीयसाम् ।

अग्रे निजग्मुस्तेनैव रक्षसां नायकास्त्रयः ॥५२॥

रावणेन नियुक्तास्ते पुरैव तु महाबलाः ।

महाबलपरीवारा जनस्थानमुपागताः ॥५३॥

क्रोधेन महताऽऽविष्टा दृष्ट्वा तां छिन्ननासिकाम् ।

रुदतीमश्रुदिग्धाङ्गीं भगिनीं रावणस्य तु ॥५४॥

रामोऽपि तद्वलं दृष्ट्वा राक्षसानां बलीयसाम् ।

संस्थाप्य लक्ष्मणं तत्र सीताया रक्षणं प्रति ॥५५॥

गत्वा तु प्रहितैस्तत्र राक्षसैर्बलदर्पितैः ।

चतुर्दशसहस्त्रं तु राक्षसानां महाबलम् ॥५६॥

क्षणेन निहतं तेन शरैरग्निशिखोपमैः ।

खरश्च निहतस्तेन दूषणश्च महाबलः ॥५७॥

त्रिशिराश्च महारोषाद रणे रामेण पातितः ।

हत्वा तान् राक्षसान् दुष्टान् रामश्चाश्रममाविशत् ॥५८॥

शूर्पणखा च रुदती रावणान्तिकमागता ।

छिन्ननासां च तां दृष्ट्वा रावणो भगिनीं तदा ॥५९॥

मारीचं प्राह दुर्बुद्धिः सीताहरणकर्मणि ।

पुष्पकेण विमानेन गत्वाहं त्वं च मातुल ॥६०॥

जनस्थानसमीपे तु स्थित्वा तत्र ममाज्ञया ।

सौवर्णमृगरुपं त्वमास्थाय तु शनैः शनैः ॥६१॥

गच्छ त्वं तत्र कार्यार्थं यत्र सीता व्यवस्थिता ।

दृष्ट्वा सा मृगपोतं त्वां सौवर्णं त्वयि मातुल ॥६२॥

स्पृहां करिष्यते रामं प्रेषयिष्यति बन्धने ।

तद्वाक्यात्तत्र गच्छन्तं धावस्व गहने वने ॥६३॥

लक्ष्मणस्यापकर्षार्थं वक्तव्यं वागुदीरणम् ।

ततः पुष्पकमारुह्य मायारुपेण चाप्यहम् ॥६४॥

तां सीतामहमानेष्ये तस्यामासक्तमानसः ।

त्वमपि स्वेच्छया पश्चादागमिष्यसि शोभन ॥६५॥

इत्युक्ते रावणेनाथ मारीचो वाक्यमब्रवीत् ।

त्वमेव गच्छ पापिष्ठ नाहं गच्छामि तत्र वै ॥६६॥

पुरैवानेन रामेण व्यथितोऽहं मुनेर्मखे ।

इत्युक्तवति मारीचे रावणः क्रोधमूर्च्छितः ॥६७॥

मारीचं हन्तुमारेभे मारीचोऽप्याह रावणम् ।

तव हस्तवधाद्वीर रामेण मरणं वरम् ॥६८॥

अहं गमिष्यामि तत्र यत्र त्वं नेतुमिच्छसि ।

अथ पुष्पकमारुह्य जनस्थानमुपागतः ॥६९॥

मारीचस्तत्र सौवर्णं मृगमास्थाय चाग्रतः ।

जगाम यत्र सा सीता वर्तते जनकात्मजा ॥७०॥

सौवर्णं मृगपोतं तु दृष्ट्वा सीता यशस्विनी ।

भाविकर्मवशाद्रामुवाच पतिमात्मनः ॥७१॥

गृहीत्वा देहि सौवर्णं मृगपोतं नृपात्मज ।

अयोध्यायां तु मद्रेहे क्रीडनार्थमिदं मम ॥७२॥

तयैवमुक्तो रामस्तु लक्ष्मणं स्थाप्य तत्र वै ।

रक्षणार्थ तु सीताया गतोऽसौ मृगपृष्ठतः ॥७३॥

रामेण चानुयातोऽसौ अभ्यधावद्वने मृगः ।

ततः शरेण विव्याध रामस्तं मृगपोतकम् ॥७४॥

हा लक्ष्मणेति चोक्त्वासौ निपपात महीतले ।

मारीचः पर्वताकारस्तेन नष्टो बभूव सः ॥७५॥

आकर्ण्य रुदतः शब्दं सीता लक्ष्मणमब्रवीत् ।

गच्छ लक्ष्मण पुत्र त्वं यत्रायं शब्द उत्थितः ॥७६॥

भ्रातुर्ज्येष्ठस्य तत्त्वं वै रुदतः श्रूयते ध्वनिः ।

प्रायो रामस्य संदेहं लक्षयेऽहं महात्मनः ॥७७॥

इत्युक्तः स तथा प्राह लक्ष्मणस्तामनिन्दिताम् ।

न हि रामस्य संदेहो न भयं विद्यते क्वचित् ॥७८॥

इति ब्रुवाणं तं सीता भाविकर्मबलाद्भृतम् ।

लक्ष्मणं प्राह वैदेही विरुद्धवचनं तदा ॥७९॥

मृते रामे तु मामिच्छन्नतस्त्वं न गामिष्यसि ।

इत्युक्तः स विनीतात्म असहन्नप्रियं वचः ॥८०॥

जगाम राममन्वेष्टुं तदा पार्थिवनन्दनः ।

संन्यासवेषमास्थाय रावणोऽपि दुरात्मवान् ॥८१॥

स सीतापार्श्वमासाद्य वचनं चेदमुक्तवान् ।

आगतो भरतः श्रीमानयोध्याया महामतिः ॥८२॥

रामेण सह सम्भाष्य स्थितवांस्तत्र कानने ।

मां च प्रेषितवान् रामो विमानमिदमारुह ॥८३॥

अयोध्यां याति रामस्तु भरतेन प्रसादितः ।

मृगबालं तु वैदेहि क्रीडार्थं ते गृहीतवान् ॥८४॥

क्लेशितासि महारण्ये बहुकालं त्वमीदृशम् ।

सम्प्राप्तराज्यस्ते भर्ता रामः स रुचिराननः ॥८५॥

लक्ष्मणश्च विनीतात्मा विमानमिदमारुह ।

इत्युक्ता सा तथा गत्वा नीता तेन महात्मना ॥८६॥

आरुरोह विमानं तु छद्मना प्रेरिता सती ।

तज्जगाम ततः शीघ्रं विमानं दक्षिणां दिशम् ॥८७॥

ततः सीता सुदुःखार्ता विललाप सुदुःखिता ।

विमाने खेऽपि रोदन्त्याश्चक्रे स्पर्शं न राक्षसः ॥८८॥

रावणः स्वेन रुपेण बभूवाथ महातनुः ।

दशग्रीवं महाकायं दृष्ट्वा सीता सुदुःखिता ॥८९॥

हा राम वञ्चिताद्याहं केनापिच्छद्मरुपिणा ।

रक्षसा घोररुपेण त्रायस्वेति भयार्दिता ॥९०॥

हे लक्ष्मण महाबाहो मां हि दुष्टेन रक्षसा ।

द्रुतमागत्य रक्षस्व नीयमानामथाकुलाम् ॥९१॥

एवं प्रलपमानायाः सीतायास्तन्महस्त्स्वनम् ।

आकर्ण्य गृध्रराजस्तु जटायुस्तत्र चागतः ॥९२॥

तिष्ठ रावण दुष्टात्मन मुञ्च मुञ्चात्र मैथिलीम् ।

इत्युक्त्वा युयुधे तेन जटायुस्तत्र वीर्यवान् ॥९३॥

पक्षाभ्यां ताडयामास जटायुस्तस्य वक्षसि ।

ताडयन्तं तु तं मत्वा बलवानिति रावणः ॥९४॥

तुण्डचञ्जुप्रहारैस्तु भृशं तेन प्रपीडितः ।

तत उत्थाप्य वेगेन चन्द्रहासमसिं महत् ॥९५॥

जघान तेन दुष्टात्मा जटायुं धर्मचारिणम् ।

निपपात महीपृष्ठे जटायुः क्षीणचेतनः ॥९६॥

उवाच च दशग्रीवं दुष्टात्मन् न त्वया हतः ।

चन्द्रहासस्य वीर्येण हतोऽहं राक्षसाधम ॥९७॥

निरायुधं को हनेन्मूढ सायुधस्त्वामृते जनः ।

सीतापहरणं विद्धि मृत्युस्ते दुष्ट राक्षस ॥९८॥

दुष्ट रावण रामस्त्वां वधिष्यति न संशयः ।

रुदती दुःखशोकार्ता जटायुं प्राह मैथिली ॥९९॥

मत्कृते मरणं यस्मात्त्वया प्राप्तं द्विजोत्तम ।

तस्माद्रामप्रसादेन विष्णुलोकमवाप्स्यसि ॥१००॥

यावद्रामेण सङ्गस्ते भविष्यति महाद्विज ।

तावत्तिष्ठन्तु ते प्राणा इत्युक्त्वा तु खगोत्तमम् ॥१०१॥

ततस्तान्यर्पितान्यङ्गाद्भूषणानि विमुच्य सा ।

शीघ्रं निबध्य वस्त्रेण रामहस्तं गमिष्यथ ॥१०२॥

इत्युक्त्वा पातयामास भूमौ सीता सुदुःखिता ।

एवं हत्वा स सीतां तु जटायुं पात्य भूतले ॥१०३॥

पुष्पकेण गतः शीघ्रं लङ्कां दुष्टनिशाचरः ।

अशोकवनिकामध्ये स्थापयित्वा स मैथिलीम् ॥१०४॥

इमामत्रैव रक्षध्वं राक्षस्यो विकृताननाः ।

इत्यादिश्य गृहं यातो रावणो राक्षसेश्वरः ॥१०५॥

लङ्कानिवासिनश्चोचुरेकान्तं च परस्परम् ।

अस्याः पुर्या विनाशार्थं स्थापितेयं दुरात्मना ॥१०६॥

राक्षसीभिर्विरुपाभी रक्ष्यमाणा समन्ततः ।

सीता च दुःखिता तत्र स्मरन्ती राममेव सा ॥१०७॥

उवास सा सुदुःखार्ता दुःखिता रुदती भृशम् ।

यथा ज्ञानखले देवी हंसयाना सरस्वती ॥१०८॥

सुग्रीवभृत्या हरयश्चतुरश्च यदृच्छया ।

वस्त्रबद्धं तयोत्सृष्टं गृहीत्वा भूषणं द्रुतम् ॥१०९॥

स्वभर्त्रे विनिवेद्योचुः सुग्रीवाय महात्मने ।

अरण्येऽभून्महायुद्धं जटायो रावणस्य च ॥११०॥

अथ रामश्च तं हत्वा मारीचं माययाऽऽगतम् ।

निवृत्तो लक्ष्मणं दृष्ट्वा तेन गत्वा स्वमाश्रमम् ॥१११॥

सीतामपश्यन्दुः खार्तः प्ररुरोद स राघवः ।

लक्ष्मणश्च महातेजा रुरोद भृशदुःखितः ॥११२॥

बहुप्रकारमस्वस्थं रुदन्तं राघवं तदा ।

भूतले पतितं धीमानुत्थाप्याश्वास्य लक्ष्मणः ॥११३॥

उवाच वचनं प्राप्तं तदा यत्तच्छृणुष्व मे ।

अतिवेलं महाराज न शोकं कर्तुमर्हसि ॥११४॥

उत्तिष्ठोत्तिष्ठ शीघ्रं त्वं सीतां मृगयितुं प्रभो ।

इत्येवं वदता तेन लक्ष्मणेन महात्मना ॥११५॥

उत्थापितो नरपतिर्दुःखितो दुःखितेन तु ।

भ्रात्रा सह जगामाथ सीतां मृगयितुं वनम् ॥११६॥

वनानि सर्वाणि विशोध्य राघवो गिरीन् समस्तान् गिरिसानुगोचरान् ।

तथा मुनीनामपि चाश्रमान् बहूंस्तृणादिवल्लीगहनेषु भूमिषु ॥११७॥

नदीतटे भूविवरे गुहायां निरीक्षमाणोऽपि महानुभावः ।

प्रियामपश्यन् भृशदुः खितस्तदा जटायुषं वीक्ष्य च घातितं नृपः ॥११८॥

अहो भवान् केन हतस्त्वमीदृशीं दशामवाप्तोऽसि मृतोऽसि जीवसि ।

ममाद्य सर्वं समदुःखितस्य भोः पत्नीवियोगादिह चागतस्य वै ॥११९॥

इत्युक्तमात्रे विहगोऽथ कृच्छ्रादुवाच वाचं मधुरां तदानीम् ।

श्रृणुष्व राजन् मम वृत्तमत्र वदामि दृष्टं च कृतं च सद्यः ॥१२०॥

दशाननस्तामपनीय मायया सीतां समारोप्य विमानमुत्तमम् ।

जगाम खे दक्षिणदिङ्मुखोऽसौ सीता च माता विललाप दुःखिता ॥१२१॥

आकर्ण्य सीतास्वनमागतोऽहं सीतां विमोक्तुं स्वबलेन राघव ।

युद्धं च तेनाहमतीव कृत्वा हतः पुनः खङ्गबलेन रक्षसा ॥१२२॥

वैदेहिवाक्यादिह जीवता मया दृष्टो भवान् स्वर्गमितो गमिष्ये ।

मा राम शोकं कुरु भूमिपाल जह्यद्य दुष्टं सगणं तु नैऋतम् ॥१२३॥

रामो जटायुषेत्युक्तः पुनस्तं चाह शोकतः ।

स्वस्त्यस्तु ते द्विजवर गतिस्तु परमास्तु ते ॥१२४॥

ततो जटायुः स्वं देहं विहाय गतवान्दिवन् ।

विमानेन तु रम्येण सेव्यमानोऽप्सरोगणैः ॥१२५॥

रामोऽपि दग्ध्वा तद्देहं स्नातो दत्त्वा जलाञ्जलिम् ।

भ्रात्रा सगच्छन् दुःखार्तो राक्षसी पथि दृष्टवान् ॥१२६॥

उद्वमन्तीं महोल्काभां विवृतास्यां भयंकरीम् ।

क्षयं नयन्तीं जन्तून् वै पातयित्वा गतो रुषा ॥१२७॥

गच्छन् वनान्तरं रामः स कबन्धं ददर्श ह ।

विरुपं जठरमुखं दीर्घबाहुं घनस्तनम् ॥१२८॥

रुन्धानं राममार्गं तु दृष्ट्वा तं दग्धवाज्शनैः ।

दग्धोऽसौ दिव्यरुपी तु खस्थो राममभाषत ॥१२९॥

राम राम महाबाहो त्वया मम महामते ।

विरुपं नाशितं वीर मुनिशापाच्चिरागतम् ॥१३०॥

त्रिदिवं यामि धन्योऽस्मि त्वत्प्रसादान्न संशयः ।

त्वं सीताप्राप्तये सख्यं कुरु सूर्यसुतेन भोः ॥१३१॥

वानरेन्द्रेण गत्वा तु सुग्रीवे स्वं निवेद्य वै ।

भविष्यति नृपश्रेष्ठ ऋष्यमूकगिरि व्रज ॥१३२॥

इत्युक्त्वा तु गते तस्मिन् रामो लक्ष्मणसंयुतः ।

सिद्धैस्तु मुनिभिः शून्यमाश्रमं प्रविवेश ह ॥१३३॥

तत्रस्थां तापसीं दृष्ट्वा तया संलाप्य संस्थितः ।

शबरीं मुनिमुख्यानां सपर्याहतकल्मषाम् ॥१३४॥

तया सम्पूजितो रामो बदरादिभिरीश्वरः ।

साप्येनं पूजयित्वा तु स्वामवस्थां निवेद्य वै ॥१३५॥

सीतां त्वं प्राप्स्यसीत्युक्त्वा प्रविश्याग्निं दिवंगता ।

दिवं प्रस्थाप्य तां चापि जगामान्यत्र राघवः ॥१३६॥

ततो विनीतेन गुणान्वितेन भ्रात्रा समेतो जगदेकनाथः ।

प्रियावियोगेन सुदुःखितात्मा जगाम याम्यां स तु रामदेवः ॥१३७॥

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे एकोनपञ्चाशोऽध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2009-10-02T23:12:19.0400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

will to power

  • स्वामित्व संकल्प 
  • सत्तेची प्रबल इच्छा 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.