संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४८

श्रीनरसिंहपुराण - अध्याय ४८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

कृतदरो महातेजा रामः कमललोचनः ।

पित्रे सुमहतीं प्रीतिं जनानामुपपादयन् ॥१॥

अयोध्यायां स्थितो रामः सर्वभोगसमन्वितः ।

प्रीत्या नन्दत्ययोध्यायां रामे रघुपतौ नृप ॥२॥

भ्राता शत्रुघ्नसहितो भरतो मातुलं ययौ ।

ततो दशरथो राजा प्रसमीक्ष्य सुशोभनम् ॥३॥

युवानं बलिनं योग्यं भूपसिद्ध्यै सुतं कविम् ।

अभिषिच्य राज्यभारं रामे संस्थाप्य वैष्णवम् ॥४॥

पदं प्राप्तुं महद्यत्नं करिष्यामीत्यचिन्तयत् ।

संचिन्त्य तत्परो राजा सर्वदिक्षु समादिशत् ॥५॥

प्राज्ञान् भृत्यान महीपालान्मन्त्रिणश्च त्वरान्वितः ।

रामाभिषेकद्रव्याणि ऋषिप्रोक्तानि यानि वै ॥६॥

तानि भृत्याः समाहत्य शीघ्रमागन्तुमर्हथ ।

दूतामात्याः समादेशात्सर्वदिक्षु नराधिपान् ॥७॥

आहूय तान् समाहत्य शीघ्रमागन्तुमर्हथ ।

अयोध्यापुरमत्यर्थं सर्वशोभासमन्वितम् ॥८॥

जनाः कुरुत सर्वत्र नृत्यगीतादिनन्दितम् ।

पुरवासिजनानन्दं देशवासिमनः प्रियम् ॥९॥

रामाभिषेकं विपुलं श्वो भविष्यति जानथ ।

श्रुत्वेत्थं मन्त्रिणः प्राहुस्तं नृपं प्रणिपत्य च ॥१०॥

शोभनं ते मतं राजन् यदिदं परिभाषितम् ।

रामाभिषेकमस्माकं सर्वेषां च प्रियंकरम् ॥११॥

इत्युक्तो दशरथस्तैस्तान् सर्वान् पुनरब्रवीत् ।

आनीयन्तां द्रुतं सर्वे सम्भारा मम शासनात् ॥१२॥

सर्वतः सारभूता च पुरी चेयं समन्ततः ।

अद्य शोभान्विता कार्या कर्तव्यं यागमण्डलम् ॥१३॥

इत्येवमुक्ता राज्ञा ते मन्त्रिणः शीघ्रकारिणः ।

तथैव चक्रुस्ते सर्वे पुनः पुनरुदीरिताः ॥१४॥

प्राप्तहर्षः स राजा च शुभं दिनमुदीक्षयन् ।

कौशल्या लक्ष्मणश्चैव सुमित्रा नागरो जनः ॥१५॥

रामाभिषेकमाकर्ण्य मुदं प्राप्यातिहर्षितः ।

श्वश्रूश्वशुरयोः सम्यक् शुश्रूषपणपरा तु सा ॥१६॥

मुदान्विता सिता सीता भर्तुराकर्ण्य शोभनम् ।

श्वोभाविन्यभिषेके तु रामस्य विदितात्मनः ॥१७॥

दासी तु मन्थरानाम्नी कैकेय्याः कुब्जरुपिणी ।

स्वां स्वामिनीं तु कैकेयीमिदं वचनमब्रवीत् ॥१८॥

श्रृणु राज्ञि महाभागे वचनं मम शोभनम् ।

त्वत्पतिस्तु महाराजस्तव नाशाय चोद्यतः ॥१९॥

रामोऽसौ कौसलीपुत्रः श्वो भविष्यति भूपतिः ।

वसुवाहनकोशादि राज्यं च सकलं शुभे ॥२०॥

भविष्यत्यद्य रामस्य भरतस्य न किंचन ।

भरतोऽपि गतो दूरं मातुलस्य गृहं प्रति ॥२१॥

हा कष्टं मन्दभाग्यासि सापल्याद्दुःखिता भृशम् ।

सैवमाकर्ण्य कैकेयी कुब्जामिदमथाब्रवीत् ॥२२॥

पश्य मे दक्षतां कुब्जे अद्यैव त्वं विचक्षणे ।

यथा तु सकलं राज्यं भरतस्य भविष्यति ॥२३॥

रामस्य वनवासश्च तथा यत्नं करोम्यहम् ।

इत्युक्त्वा मन्थरां सा तु उन्मुच्य स्वाङ्गभूषणम् ॥२४॥

वस्त्रं पुष्पाणि चोन्मुच्य स्थूलवासोधराभवत् ।

निर्माल्यपुष्पधृक्कष्टा कश्मलाङ्गी विरुपिणी ॥२५॥

भस्मधूल्यादिनिर्दिग्धा भस्मधूल्या तथा श्रिते ।

भूभागे शान्तदीपे सा संध्याकाले सुदुःखिता ॥२६॥

ललाटे श्वेतचैलं तु बद्ध्वा सुष्वाप भामिनी ।

मन्त्रिभिः सह कार्याणि सम्मन्त्र्य सकलानि तु ॥२७॥

पुण्याहः स्वस्तिमाङ्गल्यैः स्थाप्य रामं तु मण्डले ।

ऋषिभस्तु वसिष्ठाद्यैः सार्धं सम्भारमण्डपे ॥२८॥

वृद्धिजागरणीयैश्च सर्वतस्तूर्यनादिते ।

गीतनृत्यसमाकीर्णे शङ्खकाहलनिः स्वनैः ॥२९॥

स्वयं दशरथस्तत्र स्थित्वा प्रत्यागतः पुनः ।

कैकेया वेश्मनो द्वारं जरद्भिः परिरक्षितम् ॥३०॥

रामाभिषेकं कैकेयीं वक्तुकामः स पार्थिवः ।

कैकेयीभवनं वीक्ष्य सान्धकारमथाब्रवीत् ॥३१॥

अन्धकारमिदं कस्मादद्य ते मन्दिरे प्रिये ।

रामाभिषेकं हर्षाय अन्त्यजा अपि मेनिरे ॥३२॥

गृहालंकरणं कुर्वन्त्यद्य लोका मनोहरम् ।

त्वयाद्य न कृतं कस्मादित्युक्त्वा च महीपतिः ॥३३॥

ज्वालायित्वा गृहे दीपान् प्रविवेश गृहं नृपः ।

अशोभनाङ्गीं कैकेयीं स्वपन्तीं पतितां भुवि ॥३४॥

दृष्ट्वा दशरथः प्राह तस्याः प्रियमिदं त्विति ।

आश्लिष्योत्थाय तां राजा श्रृणु मे परमं वचः ॥३५॥

स्वमातुरधिकां नित्यं यस्ते भक्तिं करोति वै ।

तस्याभिषेकं रामस्य श्वो भविष्यति शोभने ॥३६॥

इत्युक्ता पार्थिवेनापि किंचिन्नोवाच सा शुभा ।

मुञ्चन्ती दीर्घमुष्णं च रोषोस्च्छ्वासं मुहुर्मुहुः ॥३७॥

तस्थावाश्लिष्य हस्ताभ्यां पार्थिवः प्राह रोषिताम् ।

किं ते कैकेयि दुःखस्य कारणं वद शोभने ॥३८॥

वस्त्राभरणरत्नादि यद्यदिच्छसि शोभने ।

तत्त्वं गृह्णीष्व निश्शङ्कं भाण्डारात् सुखिनी भव ॥३९॥

भाण्डारेण मम शुभे श्वोऽर्थसिद्धिर्भविष्यति ।

यदाभिषेकं सम्प्राप्ते रामे राजीवलोचने ॥४०॥

भाण्डागारस्य मे द्वारं मया मुक्तं निरर्गलम् ।

भविष्यति पुनः पूर्णं रामे राज्यं प्रशासति ॥४१॥

बहु मानय रामस्य अभिषेकं महात्मनः ।

इत्युक्ता राजवर्य्येण कैकेयी पापलक्षणा ॥४२॥

कुमतिर्नर्घुणा दुष्टा कुब्जया शिक्षिताब्रवीत् ।

राजानं स्वपतिं वाक्यं क्रूरमत्यन्तनिष्ठुरम् ॥४३॥

रत्नादि सकलं यत्ते तन्ममैव न संशयः ।

देवासुरमहायुद्धे प्रीत्या यन्मे वरद्वयम् ॥४४॥

पुरा दत्तं त्वया राजंस्तदिदानीं प्रयच्छ मे ।

इत्युक्तः पार्थिवः प्राह कैकेयीमशुभां तदा ॥४५॥

अदत्तमप्यहं दास्ये तव नान्यस्य वा शुभे ।

किं मे प्रतिश्रुतं पूर्वं दत्तमेव मया तव ॥४६॥

शुभाङ्गी भव कल्याणि त्यज कोपमनर्थकम् ।

रामाभिषेकजं हर्षं भजोत्तिष्ठ सुखी भव ॥४७॥

इत्युक्ता राजवर्येण कैकेयी कलहप्रिया ।

उवाच परुषं वाक्यं राज्ञो मरणकारणम् ॥४८॥

वरद्वयं पूर्वदत्तं यदि दास्यसि मे विभो ।

श्वोभूते गच्छतु वनं रामोऽयं कोशलात्मजः ॥४९॥

द्वादशाब्दं निवसतु त्वद्वाक्याद्दण्डके वने ।

अभिषेकं च राज्यं च भरतस्य भविष्यति ॥५०॥

इत्याकर्ण्य स कैकेया वचनं घोरमप्रियम् ।

पपात भुवि निस्संज्ञो राजा सापि विभूषिता ॥५१॥

रात्रिशेषं नयित्वा तु प्रभाते सा मुदावती ।

दूतं सुमन्त्रमाहैवं राम आनीयतामिति ॥५२॥

रामस्तु कृतपुण्याहः कृतस्वस्त्ययनो द्विजैः ।

यागमण्डपमध्यस्थः शङ्खतूर्यरवान्वितः ॥५३॥

तमासाद्य ततो दूतः प्रणिपत्य पुरः स्थितः ।

राम राम महाबाहो आज्ञापयति ते पिता ॥५४॥

द्रुतमुत्तिष्ठ गच्छ त्वं यत्र तिष्ठति ते पिता ।

इत्युक्तस्तेन दूतेन शीघ्रमुत्थाय राघवः ॥५५॥

अनुज्ञाप्य द्विजान् प्राप्तः कैकेय्या भवनं प्रति ।

प्रविशन्तं गृहं रामं कैकेयी प्राह निर्घृणा ॥५६॥

पितुस्तव मतं वत्स इदं ते प्रब्रवीम्यहम् ।

वने वस महाबाहो गत्वा त्वं द्वादशाब्दकम् ॥५७॥

अद्यैव गम्यतां वीर तपसे धृतमानसः ।

न चिन्त्यमन्यथा वत्स आदरात् कुरु मे वचः ॥५८॥

एतच्छुत्वा पितुर्वाक्यं रामः कमललोचनः ।

तथेत्याज्ञां गृहीत्वासौ नमस्कृत्य च तावुभौ ॥५९॥

निष्क्रम्य तदगृहाद्रामो धनुरादाय वेश्मतः ।

कौशल्यां च नमस्कृत्य सुमित्रां गन्तुमुद्यतः ॥६०॥

तच्छुत्वा तु ततः पौरा दुःखशोकपरिप्लुताः ।

विव्यथुश्चाथ सौमित्रिः कैकेयीं प्रति रोषितः ॥६१॥

ततस्तं राघवो दृष्ट्वा लक्ष्मणं रक्तलोचनम् ।

बारयामास धर्मज्ञो धर्मवाग्भिर्महामतिः ॥६२॥

ततस्तु तत्र ये वृद्धास्तान प्रणम्य मुनींश्च सः ।

रामो रथं खिन्नसूतं प्रस्थानायारुरोह वै ॥६३॥

आत्मीयं सकलं द्रव्यं ब्राह्मणेभ्यो नृपात्मजः ।

श्रद्धया परया दत्त्वा वस्त्राणि विविधानि च ॥६४॥

तिस्त्रः श्वश्रूः समामन्त्र्य श्वशुरं च विसंज्ञितम् ।

मुञ्चन्तमश्रुधाराणि नेत्रयोः शोकजानि च ॥६५॥

पश्यती सर्वतः सीता चारुरोह तथा रथम् ।

रथमारुह्य गच्छन्तं सीतया सह राघवम् ॥६६॥

दृष्ट्वा सुमित्रा वचनं लक्ष्मणं चाह दुःखिता ।

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ॥६७॥

अयोध्यामटर्वी विद्धि व्रज ताभ्यां गुणाकर ।

मात्रैवमुक्तो धर्मात्मा स्तनक्षीरार्द्रदेहया ॥६८॥

तां नत्वा चारुयानं तमारुरोह स लक्ष्मनः ।

गच्छतो लक्ष्मणो भ्राता सीता चैव पतिव्रताः ॥६९॥

रामस्य पृष्ठतो यातौ पुराद्धीरौ महामते ।

विधिच्छिन्नाभिषेकं तं रामं राजीवलोचनम् ॥७०॥

अयोध्याया विनिष्क्रान्तमनुयाताः पुरोहिताः ।

मन्त्रिणः पौरमुख्याश्च दुःखेन महतान्विताः ॥७१॥

तं च प्राप्य हि गच्छन्तं राममूचुरिदं वचः ।

राम राम महाबाहो गन्तुं नार्हसि शोभन ॥७२॥

राजन्नत्र निवर्तस्व विहायास्मान् क्व गच्छसि ।

इत्युक्तो राघवस्तैस्तु तानुवाच दृढव्रतः ॥७३॥

गच्छध्वं मन्त्रिणः पौरा गच्छध्वं च पुरोधसः ।

पित्रादेशं मया कार्यमभियास्यामि वै वनम् ॥७४॥

द्वादशाब्दं व्रतं चैतन्नीत्वाहं दण्डके वने ।

आगच्छामि पितुः पादं मातृणां द्रष्टुमञ्जसा ॥७५॥

इत्युक्त्वा ताञ्जगामाथ रामः सत्यपरायणः ।

तं गच्छन्तं पुनर्याताः पृष्ठतो दुःखिता जनाः ॥७६॥

पुनः प्राह स काकुत्स्थो गच्छध्वं नगरीमिमाम् ।

मातृश्च पितरं चैव शत्रुघ्नं नगरीमिमाम् ॥७७॥

प्रजाः समस्तास्त्रत्रस्था राज्यं भरतमेव च ।

पालयध्वं महाभागास्तपसे याम्यहं वनम् ॥७८॥

अथ लक्ष्मणमाहेदं वचनं राघवस्तदा ।

सीतामर्पय राजानं जनकं मिथिलेश्वरम् ॥७९॥

पितृमातृवशे तिष्ठ गच्छ लक्ष्मण याम्यहम् ।

इत्युक्तः प्राह धर्मात्मा लक्ष्मणो भ्रातृवत्सलः ॥८०॥

मैवामाज्ञापाय विभो मामद्य करुणाकर ।

गन्तुमिच्छसि यत्र त्वमवश्यं तत्र याम्यहम् ॥८१॥

इत्युक्तो लक्ष्मणेनासौ सीतां तामाह राघवः ।

सीते गच्छ ममादेशात् पितरं प्रति शोभने ॥८२॥

सुमित्राया गृहे चापि कौशल्यायाः सुमध्यमे ।

निवर्तस्व हि तावत्त्वं यावदागमनं मम ॥८३॥

इत्युक्ता राघवेनापि सीता प्राह कृताञ्जलिः ।

यत्र गत्वा वने वासं त्वं करोषि महाभुज ॥८४॥

तत्र गत्वा त्वया सार्धं वसाम्यहमरिंदम ।

वियोगं नो सहे राजंस्त्वया सत्यवता क्वचित् ॥८५॥

अतस्त्वां प्रार्थयिष्यामि दयां कुरु मम प्रभो ।

गन्तुमिच्छसि यत्र त्वमवश्यं तत्र याम्यहम् ॥८६॥

नानायानैरुपगताञ्जनान् वीक्ष्य स पृष्ठतः ।

योषितां च गणान् रामो वारयामास धर्मवित् ॥८७॥

निवृत्त्य स्थीयतां स्वैरमयोध्यायां जनाः स्त्रियः ।

गत्वाहं दण्डकारण्यं तपसे धृतमानसः ॥८८॥

कतिपयाब्दादायास्ये नान्यथा सत्यमीरितम् ।

लक्ष्मणेन सह भ्रात्रा वैदेह्या च स्वभार्यया ॥८९॥

जनान्निवर्त्य रामोऽसौ जगाम च गुहाश्रमम् ।

गुहस्तु रामभक्तोऽसौ स्वभावादेव वैष्णवः ॥९०॥

कृताञ्जलिपुटो भूत्वा किं कर्तव्यमिति स्थितः ।

महता तपसाऽऽनीता गुरुणा या हि वः पुरा ॥९१॥

भगीरथेन या भूमिं सर्वपापहरा शुभा ।

नानामुनिजनैर्जुष्टा कूर्ममत्स्यसमाकुला ॥९२॥

गङ्गा तुङ्गोर्मिमालाढ्या स्फटिकाभजलावहा ।

गुहोपनीतनावा तु तां गङ्गां स महाद्युतिः ॥९३॥

उत्तीर्य भगवान् रामो भरद्वाजाश्रमं शुभम् ।

प्रयागे तु ततस्तस्मिन् स्त्रात्वा तीर्थे यथाविधि ॥९४॥

लक्ष्मणेन सह भ्रात्रा राघवः सीतया सह ।

भरद्वाजाश्रमे तत्र विश्रान्तस्तेन पूजितः ॥९५॥

ततः प्रभाते विमले तमनुज्ञाप्य राघवः ।

भरद्वाजोक्तमार्गेण चित्रकूटं शनैर्ययौ ॥९६॥

नानाद्रुमलताकीर्णं पुण्यतीर्थमनुत्तमम् ।

तापसं वेषमास्थाय जह्नुकन्यामतीत्य वै ॥९७॥

गते रामे सभार्ये तु सह भ्रात्रा ससारथौ ।

अयोध्यामवसन् भूप नष्टशोभां सुदुःखिताः ॥९८॥

नष्टसंज्ञो दशरथः श्रुत्वा वचनमप्रियम् ।

रामप्रवासजननं कैकेय्या मुखनिस्सृतम् ॥९९॥

लब्धसंज्ञः क्षणाद्राजा रामरामेति चुक्रुशे ।

कैकेय्युवाच भूपालं भरतं चाभिषेचय ॥१००॥

सीतालक्ष्मणसंयुक्तो रामचन्द्रो वनं गतः ।

पुत्रशोकाभिसंतप्तो राजा दशरथस्तदा ॥१०१॥

विहाय देहं दुःखेन देवलोकं गतस्तदा ।

ततस्तस्य महापुर्य्यामयोध्यायामरिंदम ॥१०२॥

रुरुदुर्दुःखशोकार्त्ता जनाः सर्वे च योषितः ।

कौशल्या च सुमित्रा च कैकेयी कष्टकारिणी ॥१०३॥

परिवार्य मृतं तत्र रुरुदुस्ताः पतिं ततः ।

ततः पुरोहितस्तत्र वसिष्ठः सर्वधर्मवित् ॥१०४॥

तैलद्रोण्यां विनिक्षिप्य मृतं राजकलेवरम् ।

दूत वैं प्रेषयामास सहमन्त्रिगणैः स्थितः ॥१०५॥

स गत्वा यत्र भरतः शत्रुघ्नेन सह स्थितः ।

तत्र प्राप्य तथा वार्तां संनिवर्त्य नृपात्मजौ ॥१०६॥

तावानीय ततः शीघ्रमयोध्यां पुनरागतः ।

क्रूराणि दृष्ट्वा भरतो निमित्तानि च वै पथि ॥१०७॥

विपरीतं त्वयोध्यामिति मेने स पार्थिवः ।

निश्शोभां निर्गतश्रीकां दुःखशोकान्वितां पुरीम् ॥१०८॥

कैकेय्याग्निविनिर्दग्धामयोध्यां प्रविवेश सः ।

दुःखान्विता जनाः सर्वे तौ दृष्ट्वा रुरुदुर्भृशम् ॥१०९॥

हा तात राम हा सीते लक्ष्मणेति पुनः पुनः ।

रुरोद भरतस्तत्र शत्रुघ्नश्च सुदुःखितः ॥११०॥

कैकेय्यास्तत्क्षणाच्छुत्वा चुक्रोध भरतस्तदा ।

दुष्टा त्वं दुष्टचित्ता च यया रामः प्रवासितः ॥१११॥

लक्ष्मणेन सह भ्रात्रा राघवः सीतया वनम् ।

साहसं किं कृतं दुष्टे त्वया सद्यो‍ऽल्पभाग्यया ॥११२॥

उद्वास्य सीतया रामं लक्ष्मणेन महात्मना ।

ममैव पुत्रं राजानं करोत्विति मतिस्तव ॥११३॥

दुष्टाया नष्टभाग्यायाः पुत्रोऽहं भाग्यवर्जितः ।

भ्रात्रा रामेण रहितो नाहं राज्यं करोमि वै ॥११४॥

यत्र रामो नरव्याध्रः पद्यपत्रायतेक्षणः ।

धर्मज्ञः सर्वशास्त्राज्ञो मतिमान् बन्धुवत्सलः ॥११५॥

सीता च यत्र वैदेही नियमव्रतचारिणी ।

पतिव्रता महाभागा सर्वलक्षणसंयुता ॥११६॥

लक्ष्मणश्च महावीर्यो गुणवान् भ्रातृवत्सलः ।

तत्र यास्यामि कैकेयि महत्पापं त्वया कृतम् ॥११७॥

राम एव मम भ्राता ज्येष्ठो मतिमतां वरः ।

स एव राजा दुष्टात्मे भृत्यो‍ऽहं तस्य वै सदा ॥११८॥

इत्युक्त्वा मातरं तत्र रुरोद भृशदुःखितः ।

हा राजन् पृथिवीपाल मां विहाय सुदुःखितम् ॥११९॥

क्व गतोऽस्यद्य वै तात किं करोमीह तद्वद ।

भ्राता पित्रा समः क्वास्ते ज्येष्ठो मे करुणाकरः ॥१२०॥

सीता च मातृतुल्या मे क्व गतो लक्ष्मणश्चह ।

इत्येवं विलपन्तं तं भरतं मन्त्रिभिः सह ॥१२१॥

वसिष्ठो भगवानाह कालकर्मविभागवित् ।

उत्तिष्ठोत्तिष्ठ वत्स त्वं न शोकं कर्तुमर्हसि ॥१२२॥

कर्मकालवशादेव पिता ते स्वर्गमास्थितः ।

तस्य संस्कारकार्याणि कर्माणि कुरु शोभन ॥१२३॥

रामोऽपि दुष्टनाशाय शिष्टानां पालनाय च ।

अवतीर्णो जगत्स्वामी स्वांशेन भुवि माधवः ॥१२४॥

प्रायस्तत्रास्ति रामेण कर्तव्यं लक्ष्मणेन च ।

यत्रासौ भगवान् वीरः कर्मणा तेन चोदितः ॥१२५॥

तत्कृत्वा पुनरायाति रामः कमललोचनः ।

इत्युक्तो भरतस्तेन वसिष्ठेन महात्मना ॥१२६॥

संस्कारं लम्भयामास विधिदृष्टेन कर्मणा ।

अग्निहोत्राग्निना दग्ध्वा पितुर्देहं विधानतः ॥१२७॥

स्नात्वा सरय्वाः सलिले कृत्वा तस्योदकक्रियाम् ।

शत्रुघ्नेन सह श्रीमान्तातृभिर्बान्धवैः सह ॥१२८॥

तस्यौर्ध्वदेहिकं कृत्वा मन्त्रिणा मन्त्रिनायकः ।

हस्त्यश्वरथपत्तीभिः सह प्रायान्महामतिः ॥१२९॥

भरतो राममन्वेष्टुं राममार्गेण सत्तमः ।

तमायान्तं महासेनं रामस्यानुविरोधिनम् ॥१३०॥

मत्वा तं भरतं शत्रुं रामभक्तो गुहस्तदा ।

स्वं सैन्यं वर्तुलं कृत्वा संनद्धः कवची रथी ॥१३१॥

महाबलपरीवारो रुरोध भरतं पथि ॥१३२॥

सभ्रातृकं सभा र्यं मे राम स्वामिनमुत्तमम् ।

प्रापयस्त्वं वनं दुष्टं साम्प्रतं हन्तुमिच्छसि ॥१३३॥

गमिष्यसि दुरात्मंस्त्वं सेनया सह दुर्मते ।

इत्युक्तो भरतस्तत्र गुहेन नृपनन्दनः ॥१३४॥

गमिष्यसि दुरात्मंस्त्वं सेनया सह दुर्मते ।

इत्युक्तो भरतस्तत्र गुहेन नृपनन्दनः ॥१३४॥

तमुवाच विनीतात्मा रामायाथ कृताञ्जलिः ।

यथा त्वं रामभक्तोऽमि तथाहमपि भक्तिमान् ॥१३५॥

प्रोषिते मयि कैकेय्या कृतमेतन्महामते ।

रामस्यानयनार्थाय व्रजाम्यद्य महामते ॥१३६॥

सत्यपूर्वं गमिष्यामि पन्थानं देहि मे गुह ।

इति विश्वासमानीय जाह्नवीं तेन तारितः ॥१३७॥

नौकावृन्दैरनेकैस्तु स्त्रात्वासौ जाह्नवीजले ।

भरद्वाजाश्रमं प्राप्तो भरतस्तं महामुनिम् ॥१३८॥

प्रणम्य शिरसा तस्मै यथावृत्तमुवाच ह ।

भरद्वाजोऽपि तं प्राह कालेन कृतमीदृशम् ॥१३९॥

दुःखं न तावत् कर्तव्यं रामार्थेऽपि त्वयाधुना ।

वर्तते चित्रकूटेऽसौ रामः सत्यपराक्रमः ॥१४०॥

त्वयि तत्र गते वापि प्रायोऽसौ नागमिष्यति ।

तथापि तत्र गच्छ त्वं यदसौ वक्ति तत्कुरु ॥१४१॥

रामस्तु सीतया सार्धं वनखण्डे स्थितः शुभे ।

लक्ष्मणस्तु महावीर्यो दुष्टालोकनतत्परः ॥१४२॥

इत्युक्तो भरतस्तत्र भरद्वाजेन धीमता ।

उत्तीर्य यमुनां यातश्चित्रकूटं महानगम् ॥१४३॥

स्थितोऽसौ दृष्टवान्दूरात्सधूलीं चोत्तरां दिशम् ।

रामाय कथियित्वाऽऽस तदादेशात्तु लक्ष्मणः ॥१४४॥

वृक्षमारुह्य मेधावी वीक्षमाणः प्रयत्नतः ।

स ततो दृष्टवान् हष्टामायान्तीं महतीं चमूम् ॥१४५॥

हस्त्यश्वरथसंयुक्तां दृष्ट्वा राममथाब्रवीत् ।

हे भ्रातस्त्वं महाबाहो सीतापार्श्वे स्थिरो भव ॥१४६॥

भूपोऽस्ति बलवान् कश्चिद्धस्त्यश्वरथपत्तिभिः ।

इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः ॥१४७॥

रामस्तब्रवीद्वीरो वीरं सत्यपराक्रमः ।

प्रायेण भरतोऽस्माकं द्रष्टुमायाति लक्ष्मण ॥१४८॥

इत्येवं वदतस्तस्य रामस्य विदितात्मनः ।

आरात्संस्थाप्य सेनां तां भरतो विनयान्वितः ॥१४९॥

ब्राह्मणैर्मन्त्रिभिः सार्धं रुदन्नागत्य पादयोः ।

रामस्य निपपाताथ वैदेह्या लक्ष्मणस्य च ॥१५०॥

मन्त्रिणो मातृवर्गश्च स्निग्धबन्धुसुहज्जनाः ।

परिवार्य ततो रामं रुरुदुः शोककातराः ॥१५१॥

स्वर्यातं पितरं ज्ञात्वा ततो रामो महामतिः ।

लक्ष्मणेन सह भ्रात्रा वैदोह्याथ समन्वितः ॥१५२॥

स्त्रात्वा मलापहे तीर्थे दत्त्वा च सलिलाञ्जलिम् ।

मात्रादीनभिवाद्याथ रामो दुःखसमन्वितः ॥१५३॥

उवाच भरतं राजन् दुःखेन महतान्वितम् ।

अयोध्यां गच्छ भरत इतः शीघ्रं महामते ॥१५४॥

राज्ञा विहीनां नगरीं अनाथां परिपालय ।

इत्युक्तो भरतः प्राह रामं राजीवलोलचनम् ॥१५५॥

त्वामृते पुरुषव्याघ्र न यास्येऽहमितो ध्रुवम् ।

यत्र त्वं तत्र यास्यामि वैदेही लक्ष्मणो यथा ॥१५६॥

इत्याकर्ण्य पुनः प्राह भरतं पुरतः स्थितम् ।

नृणां पितृसमो ज्येष्ठः स्वधर्ममनुवर्तिनाम् ॥१५७॥

यथा न लङ्ह्यं वचनं मया पितृमुखेरितम् ।

तथा त्वया न लङ्ह्यं स्याद्वचनं मम सत्तम ॥१५८॥

मत्समीपादितो गत्वा प्रजास्त्वं परिपालय ।

द्वादशाब्दिकमेतन्मे व्रतं पितृमुखेरितम् ॥१५९॥

तदरण्ये चरित्वा तु आगामिष्यामि तेऽन्तिकम् ।

गच्छ तिष्ठ ममादेशे न दुःखं कर्तुमर्हसि ॥१६०॥

इत्युक्तो भरतः प्राह बाष्पपर्याकुलेक्षणः ।

यथा पिता तथा त्वं मे नात्र कार्या विचारणा ॥१६१॥

तवादेशान्मया कार्यं देहि त्वं पादुके मम ।

नन्दिग्रामे वसिष्येऽहं पादुके द्वादशाब्दिकम् ॥१६२॥

त्वद्वेषमेव मद्वेषं त्वदव्रतं मे महाव्रतम् ।

त्वं द्वादशाब्दिकादूर्ध्वं यदि नायासि सत्तम ॥१६३॥

ततो हविर्यथा चाग्नौ प्रधक्ष्यामि कलेवरम् ।

इत्येवं शपथं कृत्वा भरतो हि सुदुःखितः ॥१६४॥

बहु प्रदक्षिणं कृत्वा नमस्कृत्य च राघवम् ।

पादुके शिरसा स्थाप्य भरतः प्रस्थितः शनैः ॥१६५॥

जटाकलापं शिरसा च बिभ्रत् त्वचश्च वाक्षीः किल वन्यभोजी ।

रामस्य वाक्यादरतो हदि स्थितं बभार भूभारमनिन्दितात्मा ॥१६७॥

इति श्रीनरसिंहपुराणे श्रीरामप्रादुर्भावे अष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP