TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४३

श्रीनरसिंहपुराण - अध्याय ४३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


अध्याय ४३

मार्कण्डेय उवाच

अथ स गुरुगृहेऽपि वर्तमानः सकलविदच्युतसक्तपुण्यचेताः ।

जड इव विचचार बाह्यकृत्ये सततमनन्तमयं जगत्प्रपश्यन् ॥१॥

सहगुरुकुलवासिनः कदाचिच्छुतिविरता ह्यवदन् समेत्य बालाः ।

तव चरितमहो विचित्रमेतत् क्षितिपतिपुत्र यतोऽस्य भोगलुब्धः ।

ह्यदि किमपि विचिन्त्य हष्टरोमा भवसि सदा च वदाङ्ग यद्यगुह्यम् ॥२॥

इति गदितवतः स मन्त्रिपुत्रानवददिदं नृप सर्ववत्सलत्वात् ।

श्रृणुत सुमनसः सुरारिपुत्रा यदहमन्यरतिर्वदामि पृष्टः ॥३॥

धनजनतरुणीविलासरम्यो भवविभवः किल भाति यस्तमेनम् ।

विमृशत सुबुधैरुतैष सेव्यो द्रुतमथ वा परिवर्ज्य एव दूरात् ॥४॥

प्रथममिह विचार्यतां यदम्बाजठरगतैरनुभूयते सुदुःखम् ।

सुकुटिलतनुभिस्तदग्नितप्तैर्विविधपुराजननानि संस्मरद्भिः ॥५॥

कारागृहे दस्युरिवास्मि बद्धो जरायुणा विटकृमिमूत्रगेहे ।

पश्यामि गर्भेऽपि सकृन्मुकुन्दपादाब्जयोरस्मरणेन कष्टम् ॥६॥

तस्मात्सुखं गर्भशयस्य नास्ति बाल्ये तथा यौवनवार्द्धके वा ।

एवं बवो दुःखमयः सदैव सेव्यः कथं दैत्यसुताः प्रबुद्धैः ।

एवं भवेऽस्मिन् परिमृग्यमाणा वीक्षामहे नैव सुखांशलेशम् ॥७॥

यथा यथा साधु विचारयामस्तथा तथा दुःखतरं च विद्मः ।

तस्माद्भवेऽस्मिन् किल चारुरुपे दुःखाकरे नैव पतन्ति सन्तः ॥८॥

पतन्त्यथोऽतत्त्वविदः सुमूढा वह्नौ पतंगा इव दर्शनीये ।

यद्यस्ति नान्यच्छरणं सुखाय युक्तं तदैतत्पतनं सुखाभे ॥९॥

अविन्दतामन्नमहो कृशानां युक्तं हि पिण्याकतुषादिभक्षणम् ।

अस्ति त्वजं श्रीपतिपादपद्मद्वन्द्वार्चनप्राप्यमनन्तमाद्यम् ॥१०॥

अक्लेशतः प्राप्यमिदं विसृज्य महासुखं योऽन्यसुखानि वाञ्छेत् ।

राज्यं करस्थं स्वमसौ विसृज्य भिक्षामटेद्दीनमनाः सुमूढः ॥११॥

तच्चार्च्यते श्रीपतिपादपद्मद्वन्द्वं न वस्त्रैर्न धनैः श्रमैर्न ।

अनन्यचित्तेन नरेण किंतु उच्चार्यते केशव माधवेति ॥१२॥

एवं भवं दुःखमयं विदित्वा दैत्यात्मजाः साधु हरिं भजध्वम् ।

एवं जनो जन्मफलं लभेत नो चेद्भवाब्धौ प्रपतेदधोऽधः ॥१३॥

तस्माद्भवेऽस्मिन् ह्यदि शङ्खचक्रगदाधरं देवमनन्तमीड्यम् ।

स्मरन्तु नित्यं वरदं मुकुन्दं सद्भक्तियोगेन निवृत्तकामाः ॥१४॥

अनास्तिकत्वात् कृपया भवद्भ्यो वदामि गुह्यं भवसिन्धुसंस्थाः ।

सर्वेषु भूतेषु च मित्रभावं भजन्त्वयं सर्वगतो हि विष्णुः ॥१५॥

दैत्यपुत्रा ऊचुः

प्रह्लाद त्वं वयं चापि बाल बालभावान्महामते ।

षण्डामर्कात्परं मित्रं गुरुं चान्यं न विद्महे ॥१६॥

त्वयैताच्छिक्षितं कुत्र तथ्यं नो वद निस्तुषम् ।

प्रह्लाद उवाच

यदा तातः प्रयातो मे तपोऽर्थं काननं महत् ॥१७॥

तदा चेन्द्रः समागत्य पुरं तस्य रुरोध ह ।

मृतं विज्ञाय दैत्येन्द्रं हिरण्यकशिपुं तदा ॥१८॥

इन्द्रो मे जननीं गृह्य प्रयातो मन्मथाग्निना ।

दह्यमानो महाभागाँ मार्गे गच्छति सत्वरम् ॥१९॥

तदा मां गर्भगं ज्ञात्वा नारदो देवदर्शनः ।

आगत्येन्द्रं जगादोच्चैर्मूढ मुञ्च पतिव्रताम् ॥२०॥

अस्या गर्भे स्थितो योऽसौ स वै भागवतोत्तमः ।

तच्छुत्वा नारदवचो मातरं प्रणिपत्य मे ॥२१॥

विष्णुभक्त्या प्रमुच्याथ गतः स्वं भुवनं हरिः ।

नारदस्तां समानीय आश्रमं स्वं शुभव्रतः ॥२२॥

मामुद्दिश्य महाभागामेतद्वै कथितं तदा ।

तथा मे विस्मृतं नैव बालाभ्यासाद्दनोः सुताः ॥२३॥

विष्णोश्चानुग्रहेणैव नारदस्योपदेशतः ।

मार्कण्डेय उवाच

एकदा गुप्तचर्यायां गतोऽसौ राक्षसाधिपः ॥२४॥

श्रृणोति रात्रौ नगरे जय रामेति कीर्तनम् ।

अवैत्पुत्रकृतं सर्वं बलवान् दानवेश्वरः ॥२५॥

अथाहूयाह दैत्येन्द्रः क्रोधान्धः स पुरोहितान् ।

रे रे क्षुद्रद्विजा यूयमतिमुमूर्षतां गताः ॥२६॥

प्रह्लदोऽयं मृषालापान् वक्त्यन्यान् पाठयत्यपि ।

इति निर्भर्त्स्य तान् विप्रान् श्वसन् राजाविशद गृहम् ॥२७॥

न च पुत्रवधे चिन्तां जहौ स्ववधकारिणीम् ।

आसन्नमरणोऽमर्षात्कृत्यमेकं विमृश्य सः ॥२८॥

अकृत्यमेव दैत्यादीनाहूयोपादिशद्रहः ।

अद्य क्षपायां प्रह्लादं प्रसुप्तं दुष्टमुल्बणैः ॥२९॥

नागपाशैर्दृढ़ बदध्वा मध्ये निक्षिपताम्बुधेः ।

तदाज्ञां शिरसाऽऽदाय ददृशुस्तमुपेत्य ते ॥३०॥

रात्रिप्रियं समाधिस्थं प्रबुद्धं सुप्तवत् स्थितम् ।

संछिन्नरागलोभादिमहाबन्धं क्षपाचराः ॥३१॥

बबन्धुस्तं महात्मानं फल्गुभिः सर्परज्जुभिः ।

गरुडध्वजभक्तं तं बदध्वाहिभिरबुद्धयः ॥३२॥

जलशायिप्रियं नीत्वा जलराशौ निचिक्षिपुः ।

बलिनस्तेऽचलान् दैत्या तस्योपरि निधाय च ॥३३॥

शशंसुस्तं प्रियं राज्ञे द्रुतं तान् सोऽप्यमानयत् ।

प्रह्लादं चाब्धिमध्यस्थं तमौर्वाग्निमिवापरम् ॥३४॥

ज्वलन्तं तेजसा विष्णोर्ग्राहा भूरिभियात्यजन् ।

स चाभिन्नचिदानन्दसिन्धुमध्ये समाहितः ॥३५॥

न वेद बद्धमात्मानं लवणाम्बुधिमध्यगम् ।

अथ ब्रह्मामृताम्भोधिमये स्वस्मिन् स्थिते मुनौ ॥३६॥

ययौ क्षोभं द्वितीयाब्धिप्रवेशादिव सागरः ।

क्लेशात् क्लेशानिवोद्धूय प्रह्लादमथ वीचयः ॥३७॥

निन्युस्तीरेऽप्लवाम्भोधेः गुरुक्तय इवाम्बुधेः ।

ध्यानेन विष्णुभूतं तं भगवान् वरुणालयः ॥३८॥

विन्यस्य तीरे रत्नानि गृहीत्वा द्रष्टुमाययौ ।

तावद् भगवताऽऽदिष्टः प्रहष्टः पन्नगाशनः ॥३९॥

बन्धनाहीन् समभ्येत्य भक्षयित्वा पुनर्ययौ ।

अथाबभाषे प्रह्लादं गम्भीरध्वनिरर्णवः ॥४०॥

प्रणम्य दिव्यरुपः सन् समाधिस्थं हरेः प्रियम् ।

प्रह्लाद भगवद्भक्त पुण्यात्मन्नर्णवोऽस्म्यहम् ॥४१॥

चक्षुर्भ्यामथ मां दृष्ट्वा पावयार्थिनमागतम् ।

इत्यम्बुधिगिरः श्रुत्वा स महात्मा हरेः प्रियः ॥४२॥

उद्वीक्ष्य सहसा देवं तं नत्वाऽऽहासुरात्मजः ।

कदाऽऽगतं भगवता तमथाम्बुधिरब्रवीत् ॥४३॥

योगिन्नज्ञातवृत्तस्त्वमपराद्धं तवासुरैः ।

बद्धस्त्वमहिभिर्दैत्यैर्मयि क्षिप्तोऽद्य वैष्णव ॥४४॥

ततस्तूर्णं मया तीरे न्यस्तस्त्वं फणिनश्च तान् ।

इदानीमेव गरुडो भक्षयित्वा गतो महान् ॥४५॥

महात्मन्ननुगृह्णीष्व त्वं मां सत्संगमार्थिनम् ।

गृहाणेमानि रत्नानि पूज्यस्त्वं मे हरिर्यथा ॥४६॥

यद्यप्यैतैर्न ते कृत्यं रत्नैर्दास्याम्यथाप्यहम् ।

दीपान्निवेदयत्येव भास्करस्यापि भक्तिमान् ॥४७॥

त्वमापत्स्त्वपि घोरासु विष्णुनैव हि रक्षितः ।

त्वादृशा निर्मलात्मानो न सन्ति बहवोऽर्कवत् ॥४८॥

बहुना किं कृतार्थोऽस्मि यत्तिष्ठामि त्वया सह ।

आलपामि क्षणमपि नेक्षे ह्येतत्फलोपमाम् ॥४९॥

इत्यब्धिना स्तुतः श्रीशमाहात्म्यवचनैः स्वयम् ।

ययौ लज्जां प्रहर्षं च प्रह्लादो भगवत्प्रियः ॥५०॥

प्रतिगृह्य स रत्नानि वत्सलः प्राह वारिधिम् ।

महात्मन् सुतरां धन्यः शेते त्वयि हि स प्रभुः ॥५१॥

कल्पान्तेऽपि जगत्कृत्स्नं ग्रसित्वा स जगन्मयः ।

त्वय्येवैकार्णवीभूते शेते किल महात्मनि ॥५२॥

लोचनाभ्यां जगन्नाथं द्रष्टुमिच्छामि वारिधे ।

त्वं पश्यसि सदा धन्यस्तत्रोपायं प्रयच्छ मे ॥५३॥

उक्त्वेति पादावनतं तूर्णमुत्थाप्य सागरः ।

प्रह्लादं प्राह योगीन्द्र त्वं पश्यसि सदा हदि ॥५४॥

द्रष्टुमिच्छस्यथाक्षिभ्यां स्तुहि तं भक्तवत्सलम् ।

उक्त्वेति सिन्धुः प्रह्लादमात्मनः स जलेऽविशत् ॥५५॥

गते नदीन्द्रे स्थित्वैको हरिं रात्रौ स दैत्यजः ।

भक्त्यास्तौदिति मन्वानस्तद्दर्शनमसम्भवम् ॥५६॥

प्रह्लाद उवाच

वेदान्तवाक्यशतमारुतसम्प्रवृद्धवैराग्यवहिशिखया परिताप्य चित्तम् ।

संशोधयन्ति यदवेक्षणयोग्यतायै धीराः सदैव स कथं मम गोचरः स्यात् ॥५७॥

मात्सर्यरोषस्मरलोभमोहमदादिभिर्वा सुदृढैः सुषडभिः ।

उपर्युपर्यावरणैः सुबद्धमन्धं मनो मे क्व हरिः क्व वाहम् ॥५८॥

यं धातृमुख्या विबुधा भयेषु शान्त्यर्थिनः क्षीरनिधेरुपान्तम् ।

गत्वोत्तमस्तोत्रकृतः कथंचित् पश्यन्ति तं द्रष्टुमहो ममाशा ॥५९॥

अयोग्यमात्मानमितीशदर्शने स मन्यमानस्तदनाप्तिकातरः ।

उद्वेगदुः खार्णवमग्नमानसः स्त्रुताश्रुधारो नृप मूर्च्छितोऽपतत् ॥६०॥

अथ क्षणात्सर्वगतश्चतुर्भुजः शुभाकृतिर्भक्तजनैकवल्लभः ।

दुःस्थं तमाश्लिष्य सुधामयैर्भुजैस्तत्रैव भूपाविरभूद्दयानिधिः ॥६१॥

स लब्धसंज्ञोऽथ तदङ्गसङ्गादुन्मीलिताक्षः सहसा ददर्श ।

प्रसन्नवक्त्रं कमलायताक्षं सुदीर्घबाहुं यमुनासवर्णम् ॥६२॥

उदारतेजोमयमप्रमेयं गदारिशङ्खाम्बुजचारुचिह्नितम् ।

स्थितं समालिङ्ग्य विभुं स दृष्ट्वा प्रकम्पितो विस्मयभीतिहर्षैः ॥६३॥

तत् स्वप्नमेवाथ स मन्यमानः स्वप्नेऽपि पश्यामि हरिं कृतार्थम् ।

इति प्रहर्षार्णवमग्नचेताः स्वानन्दमूर्च्छां स पुनश्च भेजे ॥६४॥

ततः क्षितावेव निविश्य नाथः कृत्वा तमङ्के स्वजनैकबन्धुः ।

शनैर्विधुन्वन् करपल्लवेन स्पृशन मुहुर्मातृवदालिलिङ्ग ॥६५॥

ततश्चिरेण प्रह्लादः सम्मुखोन्मीलितेक्षणः ॥६६॥

ततश्चिरात्तं सम्भाव्य धीरः श्रीशाङ्कशायिनम् ।

आत्मानं सहसोत्तस्थौ सद्यः सभयसम्भ्रमः ॥६७॥

प्रणामायापतच्चोर्व्यां प्रसीदेति वदन्मुहुः ।

सम्भ्रमात् स बहुज्ञोऽपि नान्यां पूजोक्तिमस्मरत् ॥६८॥

तमथाभयहस्तेन गदाशङ्खारिधृक् प्रभुः ।

गृहीत्वा स्थापयामास प्रह्लादं स दयानिधिः ॥६९॥

कराब्जस्पर्शनाह्लादगलदश्रुं सवेपथुम् ।

भूयोऽथाह्लादयन् स्वामी तं जगादेति सान्त्वयन् ॥७०॥

सभयं सम्भ्रमं वत्स मद्गौरवकृतं त्यज ।

नैवं प्रियो मे भक्तेषु स्वाधीनप्रणयी भव ॥७१॥

नित्यं सम्पूर्णकामस्य जन्मानि विविधानि मे ।

भक्तसर्वेष्टदानाय तस्मात् किं ते प्रियं वद ॥७२॥

अथ व्यजिज्ञपद्विष्णुं प्रह्लादः प्राञ्जलिर्नमन् ।

सलौल्यमुत्फुल्लदृशा पश्यन्नेवं च तन्मुखम् ॥७३॥

नाप्ययं वरदानाय कालो नैष प्रसीद मे ।

त्वद्दर्शनामृतास्वादादन्तरात्मा न तृप्यति ॥७४॥

ब्रह्मादिदेर्वैर्दुर्लक्ष्यं त्वामेव पश्यतः प्रभो ।

तृप्तिं नेष्यति मे चित्तं कल्पायुतशतैरपि ॥७५॥

नैवमेतद्धयतृप्तस्य त्वां दृष्ट्वान्यद् वृणोति किम् ।

ततः स्मितसुधापूरैः पूरयन् स प्रियं प्रियात् ॥७६॥

योजयन् मोक्षलक्ष्म्यैव तं जगाद जगत्पतिः ।

सत्यं मद्दर्शनादन्यद वत्स नैवास्ति ते प्रियम् ॥७७॥

किंचित्ते दातुमिष्टं मे मत्प्रियार्थं वृणीष्व तत् ।

प्रह्लादोऽथाब्रवीद्धीमान् देव जन्मान्तरेष्वपि ॥७८॥

दासस्तवाहं भूयासं गरुत्मानिव भक्तिमान् ।

अथाह नाथः प्रह्लादं संकटं खल्विदं कृतम् ॥७९॥

अहं तवात्मदानेच्छुस्त्वं तु भृत्यत्वमिच्छसि ।

वरानन्यांश्च वरय धीमन् दैत्येश्वरात्मज ॥८०॥

प्रह्लादोऽपि पुनः प्राह भक्तकामप्रदं हरिम् ।

प्रसीद सास्तु मे नाथ त्वद्भक्तिः सात्त्विकी स्थिरा ॥८१॥

अनयाथ च त्वां नौमि नृत्यामि त्वत्परः सदा ।

अथाभितुष्टो भगवान् प्रियमाह प्रियंवदम् ॥८२॥

वत्स यद्यदभीष्टं ते तत्तदस्तु सुखी भव ।

अन्तर्हिते च मय्यत्र मा खिद त्वं महामते ॥८३॥

त्वच्चितान्नापयास्यामि क्षीराब्धेरिव सुप्रियात् ।

पुनर्द्वित्रिदिनैस्त्वं मां द्रष्टा दुष्टवधोद्यतम् ॥८४॥

अपूर्वाविष्कृताकारं नृसिंहं पापभीषणम् ।

उक्त्वेत्यतः प्रणमतः पश्यतश्चातिलालसम् ॥८५॥

अतुष्टस्यैव तस्येशो माययान्तर्दधे हरिः ।

ततो हठाददृष्टा तं सर्वतो भक्तवत्सलम् ॥८६॥

हाहेत्यश्रुप्लुतः प्रोच्य ववन्दे स चिरादिति ।

श्रूयमाणेऽथ परितः प्रतिबुद्धजनस्वने ॥८७॥

उत्थायाब्धितटाद्धीमान् प्रह्लादः स्वपुरं ययौ ॥८८॥

अथ दितिजसुतश्चिरं प्रहष्टः स्मृतिबलतः परितस्तमेव पश्यन् ।

हरिमनुजगतिं त्वलं च पश्यन् गुरुगृहमुत्पुलकः शनैरवाप ॥८९॥

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावे त्रिचत्वारिंशोऽध्यायः ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2009-10-02T22:47:17.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Capacity

  • क्षमता 
  • धारकता 
  • सामर्थ्य 
  • स्त्री. क्षमता 
More meanings
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.