TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दुर्गा सप्तशती - उत्तमचरितस्य

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

उत्तमचरितस्य
ॐ अस्य उत्तमचरितस्य रुद्र ऋषिः ॥

महासरस्वती देवता ॥ अनुष्टुप् छंदः ॥ भीमा शक्तिः ॥ भ्रामरी बीजम् ॥ सूर्यस्तत्त्वम् ॥ सामवेदः स्वरुपम् ॥ महासरस्वतीप्रीत्यर्थे कामार्थे जपे विनियोगः ॥ ध्यानम् ॥ घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् ॥ गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्दिनीम् ॥ ॐ क्लीं ऋषिरुवाच ॥१॥
पुरा शुंभनिशुंभाभ्यामसुराभ्यां शचीपतेः ॥ त्रैलोक्यं यज्ञभागाश्च हता मदबलाश्रयात् ॥२॥
तावेव सूर्यतां तद्वदधिकारं तथैंदवम् ॥ कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥
तावेव पवनद्धिं च चक्रतुर्वह्निकर्म च ॥ ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥४॥
हताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ॥ महासुराभ्यां तां देवीं संस्मरंत्यपराजिताम् ॥५॥
तयाऽस्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ॥ भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥६॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ॥ जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥७॥
देवा ऊचुः ॥८॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥ नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥९॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ॥ ज्योत्स्नायै चेंदुरुपिण्यै सुखायै सततं नमः ॥१०॥
कल्याण्यै प्रणतामृद्ध्यै सिद्ध्यै कूर्म्यै नमो नमः ॥ नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥११॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ॥ ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥१२॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ॥ नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥१३॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ॥ नमस्तस्यै० नमो नमः ॥१४॥
या देवी० विष्णु० ॥ नमस्तस्यै० नमो नमः ॥१५॥
या देवी० विष्णु० ॥ नमस्तस्यै० नमो नमः ॥१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ॥ नमस्तस्यै० ॥१७॥
या० चेत० ॥ नमस्तस्यै० नमो नमः ॥१८॥
देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता ॥ नमस्तस्यै० ॥२०॥
या० बुद्धि० ॥ नमस्तस्यै० ॥२१॥
या० बुद्धि० ॥ नमस्तस्यै० ॥२२॥
या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ॥ नमस्तस्यै० ॥२३॥
या० निद्रा० ॥ नमस्तस्यै० ॥२४॥
या० निद्रा० ॥ नमस्तस्यै० नमो नमः ॥२५॥
या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ॥ नमस्तस्यै० ॥२६॥
या० क्षुधा० ॥ नमस्तस्यै० नमो० ॥२७॥
या क्षुधा० ॥ नमस्तस्यै० नमो नमः ॥२८॥
या देवी सर्वभूतेषु छायारुपेण संस्थिता ॥ नमस्तस्यै० ॥२९॥
या० छाया० ॥ नमस्तस्यै०॥३०॥
या० छाया० ॥ नमस्तस्यै० नमो नमः ॥३१॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता ॥ नमस्तस्यै० ॥३२॥
या० शक्ति० ॥ नमस्तस्यै० ॥३३॥
या० शक्ति० ॥ नमस्तस्यै० नमो नमः ॥३४॥
या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ॥ नमस्तस्यै० ॥३५॥
या० दे० तृष्णा० ॥ नमस्तस्यै० ॥३६॥
या देवी० तृष्णा० ॥ नमस्तस्यै० नमो नमः ॥३७॥
या देवी सर्वभूतेषु क्षांतिरुपेण संस्थिता ॥ नमस्तस्यै० ॥३८॥
या० क्षांति० ॥ नमस्तस्यै० ॥३९॥
या० क्षांति० ॥ नमस्तस्यै० नमो नमः ॥४०॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता ॥ नमस्तस्यै० ॥४१॥
या० जाति० ॥ नमस्तस्यै० ॥४२॥
या० जाति० ॥ नमस्तस्यै० नमो नमः ॥४३॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ॥ नमस्तस्यै० ॥४४॥
या० लज्जा० ॥ नमस्तस्यै० ॥४५॥
या लज्जा० ॥ नमस्तस्यै० नमो नमः ॥४६॥
या देवी सर्वभूतेषु शांतिरुपेण संस्थिता ॥ नमस्तस्यै० ॥४७॥
या० शांति० ॥ नमस्तस्यै० ॥४८॥
या० शांति० ॥ नमस्तस्यै० नमो नमः ॥४९॥
या देवी सर्वभूतेषु श्रद्धारुपेण संस्थिता ॥ नभस्तस्यै० ॥५०॥
या० श्रद्धा० नमस्तस्यै० ॥५१॥
या० श्रद्धा० ॥ नमस्तस्यै० नमो नमः ॥५२॥
या देवी सर्वभूतेषु कांतिरुपेण संस्थिता ॥ नमस्तस्यै० ॥५३॥
या० कांति० ॥ नमस्तस्यै० ॥५४॥
या० कांति० ॥ नमस्तस्यै० नमो नमः ॥५५॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ॥ नमस्तस्यै० ॥५६॥
या० लक्ष्मी० ॥ नमस्तस्यै० ॥५७॥
या० लक्ष्मी० ॥ नमस्तस्यै० नमो नमः ॥५८॥
या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता ॥ नमस्तस्यै० ॥५९॥
या० वृत्ति० ॥ नमस्तस्यै० ॥६०॥
या० वृत्ति० ॥ नमस्तस्यै० नमो नमः ॥६१॥
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ॥ नमस्तस्यै० ॥६२॥
या० स्मृति० ॥ नमस्तस्यै० ॥६३॥
या० स्मृति० ॥ नमस्तस्यै० नमो नमः ॥६४॥
या देवी सर्वभूतेषु दयारुपेण संस्थिता ॥ नमस्तस्यै० ॥६५॥
या० दया० ॥ नमस्तस्यै० ॥६६॥
या० दया० ॥ नमस्तस्यै० नमो नमः ॥६७॥
या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ॥ नमस्तस्यै० ॥६८॥
या० तुष्टि० ॥ नमस्तस्यै० ॥६९॥
या० तुष्टि० ॥ नमस्तस्यै० नमो नमः ॥७०॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ॥ नमस्तस्यै० ॥७१॥
या० मातृ० ॥ नमस्तस्यै० ॥७२॥
या० मातृ० ॥ नमस्तस्यै० नमो नमः ॥७३॥
या देवी सर्वभूतेषु भ्रांतिरुपेण संस्थिता ॥ नमस्तस्यै० नमो नमः ॥७४॥
या देवी० भ्रांति० ॥ नमस्तस्यै० नमो नमः ॥७५॥
या देवी० भ्रांति० नमस्तस्यै० नमो नमः ॥७६॥
इंद्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ॥ भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥७७॥
चितिरुपेण या कृत्स्नमेतद्वयाप्य स्थिता जगत् ॥ नमस्तस्यै० नमो नमः ॥७८॥
चितिरुपेण० ॥ नमस्तस्यै० नमो नमः ॥७९॥
चितिरुपेण० ॥ नमस्तस्यै० नमो नमः ॥८०॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथाऽसुरेंद्रेण दिनेषु सेविता ॥ करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः ॥८१॥
या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ॥ या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥८२॥
ऋषिरुवाच ॥८३॥
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ॥ स्नातुमभ्याययौ तोये जाह्नव्या नृपनंदन ॥८४॥
साऽब्रवीत्तान्सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ॥ शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥८५॥
स्तोत्रं ममैतत्क्रियते शुंभदैत्यनिराकृतैः ॥ देवैः समेतैः समरे निशुंभेन पराजितैः ॥८६॥
शरीरकोशाद्यत्तस्याः पार्वत्या निः सृताम्बिका ॥ कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥८७॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ॥ कालिकैति समाख्याता हिमाचलकृताश्रया ॥८८॥
ततोऽम्बिकां परं रुपं बिब्राणां सुमनोहरम् ॥ ददर्श चण्डो मुण्डश्च भृत्यौ शुंभनिशुंभयोः ॥८९॥
ताभ्यां शुंभाय चाख्याता सातीव सुमनोहरा ॥ काप्यास्ते स्त्री महाराज भासयंती हिमाचलम् ॥९०॥
नैव तादृक् क्विचिद्रूपं दृष्टं केनचिदुत्तमम् ॥ ज्ञायतां काप्यसौ देवी गुह्यतां चासुरेश्वर ॥९१॥
स्त्रीरत्नमतिचार्वगी द्योतयंती दिशस्त्विषा ॥ सा तु तिष्ठति दैत्येंद्र तां भवान् द्रष्टुमर्हति ॥९२॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ॥ त्रैलोक्ये तु समस्तानि सांप्रतं भांति ते गृहे ॥९३॥
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ॥ पारिजाततरुश्चायं तथैवोच्चैः श्रवा हयः ॥९४॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ॥ रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥९५॥
निधिरेष महापद्मः समानीतो धनेश्वरात् ॥ किंजल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥९६॥
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ॥ तथायं स्यंदनवरो यः पुरासीत् प्रजापते ॥९७॥
मृत्योरुत्क्रांतिदा नाम शक्तिरीश त्वया हता ॥ पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥९८॥
निशुंभस्याब्धिजाताश्च समस्ता रत्नजातयः ॥ वहिरपि ददौ तुभ्यमग्निशौचे च वाससी ॥९९॥
एवं दैत्येंद्र रत्नानि समस्तान्याहतानि ते ॥ स्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥१००॥
ऋषिरुवाच ॥१॥
निशम्येचि वचः शुंभः स तदा चंडमुंडयोः ॥ प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥२॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम ॥ यथा चाभ्येति संप्रीत्या तथा कार्य त्वया लघु ॥३॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ॥ तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥४॥
दूत उवाच ॥५॥
देवि दैत्येश्वरः शुंभस्त्रैलोक्ये परमेश्वरः ॥ दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥६॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ॥ निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥७॥
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ॥ यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥८॥
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ॥ तथैव गजरत्नं च हतं देवेंद्रवाहनम् ॥९॥
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ॥ उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥११०॥
यानि चान्याचि देवेषु गंधर्वेषूरगेषु च ॥ रत्नभूतानि भूतानि तानि मय्येव शोभने ॥११॥
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ॥ सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥१२॥
मां वा ममानुजं वापि निशुंभमुरुविक्रमम् ॥ भज त्वं चंचलापांगि रत्नभूतासि वै यतः ॥१३॥
परमैश्चर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ॥ एतद्वुद्धया समालोच्य मत्परिग्रहतां व्रज ॥१४॥
ऋषिरुवाच ॥१५॥
इत्युक्ता सा तदा देवी गंभीरांतः स्मिता जगौ ॥ दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥१६॥
देव्युवाच ॥!७॥
सत्यमुक्तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् ॥ त्रैलोक्याधिपतिः शुंभो निशुंभश्चापि तादृशः ॥१८॥
किंत्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ॥ श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥१९॥
यो मां जयति संग्रामे यो मे दर्प व्यपोहति ॥ यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥१२०॥
तदागच्छतु शुंभोऽत्र निशुंभो वा महाबलः ॥ मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥२१॥
दूत उवाच ॥२२॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ॥ त्रैलोक्ये कः पुमाँस्तिष्ठेदग्रे शुभनिशुंभयोः ॥२३॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ॥ तिष्ठंति संमुखे देवि किं पुनः स्त्री त्वमेकिका ॥२४॥
इंद्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ॥ शुंभादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् ॥२५॥
सा त्वं गच्छ मयैवोक्ता पार्श्वे शुंभनिशुंभयोः ॥ केशाकर्षणनिर्घूतगौरवा मा गमिष्यसि ॥२६॥
देव्युवाच ॥२७॥
एवमेतद्वली शुंभो निशुंभश्चापि तादृशः ॥ किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥२८॥
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ॥ तदाचक्ष्वासुरेंद्राय स च युक्तं करोतु तत् ॥१२९॥
मार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पञ्चमः ॥५॥
उवाच ॥९॥
त्रिपान्मंत्राः ॥६६॥
श्लोकमंत्राः ॥५४॥
एवं ॥१२९॥
एवमादितः ॥३८८॥
॥ ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ॥ समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ॥ सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ॥ तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥४॥
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ॥ स हंतव्योऽमरो वापि यक्षो गंधर्व एव वा ॥५॥
ऋषिरुवाच ॥६॥
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ॥ वृत्तः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥७॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ॥ जगादोच्चैः प्रयाहीति मूलं शुंभनिशुंभयोः ॥८॥
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ॥ ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥९॥
देव्युवाच ॥१०॥
दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः ॥ बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥११॥
॥ ऋषिरुवाच ॥१२॥
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ॥ हुंकारेणैव तं भस्म सा चकाराम्बिका तदा ॥१३॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ॥ ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥१४॥
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ॥ पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥१५॥
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ॥ आक्रांत्या चाधरेणान्यान् जघान स महासुरान् ॥१६॥
केषांचित्पाटयामास नखैः कोष्ठानि केसरी ॥ तथा तल प्रहारेण शिरांसि कृतवान् पृथक् ॥१७॥
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ॥ पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥१८॥
क्षणेन तद्वलं सर्व क्षयं नीतं महात्मना ॥ तेन केसरिणा देव्या वाहनेनातिकोपिना ॥१९॥
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ॥ बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥२०॥
चुकोप दैत्याधिपतिः शुंभः प्रस्फुरिताधरः ॥ आज्ञापयामास च तौ चंडमुंडौ महासुरौ ॥२१॥
हे चंड हे मुंड बलैर्बहुभिः परिवारिती ॥ तत्र गच्छत गत्त्वा च सा समानीयतां लघु ॥२२॥
केशेष्वाकृष्य बद्धा वा यदि वः संशयो युधि ॥ तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥२३॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ॥ शीघ्रमागम्यतां बद्धा गृहीत्वा तामथांबिकाम् ॥२४॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये शुभ्म० षष्ठः ॥६॥
उवाच ॥४॥
अर्ध० ॥ ० ॥ श्लोकमंत्राः ॥२०॥
एवं ॥२४॥
एवमादितः ॥४१२॥
॥ ऋषिरुवाच ॥१॥
आज्ञप्तास्ते ततो दैत्याश्चंड मुंडपुरोगमाः ॥ चतुरंगबलोपेता ययुरभ्युद्यतायुधाः ॥२॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ॥ सिंहस्योपरि शैलेंद्रशृंगे महति कांचने ॥३॥
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ॥ आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः ॥४॥
ततः कोपं चकारोच्चैरंबिका तानरीन्प्रति ॥ कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ॥ काली करालवदना विनिष्क्रांतासिपाशिनी ॥६॥
विचित्रखट्वांगधरा नरमालाविभूषणा ॥ द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥७॥
अतिविस्तारवदना जिह्वाललनभीषणा ॥ निमग्ना रक्तनयना नादापूरितदिङ्मुखा ॥८॥
सा वेगेनाभिपतिता घातयन्ती महासुरान् ॥ सैन्ये तत्र सुरारीणामभक्षयत तद्वलम् ॥९॥
पार्ष्णिग्राहांकुशग्राहयोधघंटासमन्वितान् ॥ समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥१०॥
तथैव योधं तुरगै रथं सारथिना सह ॥ निक्षिप्य वक्त्रे दशनैश्चर्वयंत्यतिभैरवम् ॥११॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ॥ पादेनाक्रम्य चैवान्यमुरसाऽन्यमपोथयत् ॥१२॥
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ॥ मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥१३॥
बलिनां तद्वलं सर्वमसुराणां दुरात्मनाम् ॥ ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥१४॥
असिना निहताः केचित्केचित् खट्वांगताडिताः ॥ जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा ॥१५॥
क्षणेन तद्वलं सर्वमसुराणां निपातितम् ॥ दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणाम् ॥१६॥
शखर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ॥ छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः ॥१७॥
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ॥ बभुर्यथार्कबिंबानि सुबहूनि घनोदरम् ॥१८॥
ततो जहासातिरुषा भीमं भैरवनादिनी ॥ काली करालवदना दुर्दर्शदशनोज्ज्वला ॥१९॥
उत्थाय च महासिंहं देवी चंडमधावत ॥ गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥२०॥
अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम् ॥ तमप्यपातयद्भूमौ सा खङ्गभिहतं रुषा ॥२१॥
हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम् ॥ मुंडं च सुमहावीर्य दिशो भेजे भयातुरम् ॥२२॥
शिरश्चंडस्य काली च गृहीत्वा मुण्डमेव च ॥ प्राह प्रचंडाट्टहासमिश्रमभ्येत्य चंडिकाम् ॥२३॥
मया तवात्रोपहतौ चण्डमुण्डौ महापशू ॥ युद्धयज्ञे स्वयं शुभं निशुंभं च हनिष्यसि ॥२४॥
ऋषिरुवाच ॥२५॥
तावानीतौ ततो दृष्ट्वा चंडमुंडौ महासुरौ ॥ उवाच कालीं कल्याणी ललितं चंडिका वचः ॥२६॥
यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता ॥ चामुंडेति ततो लोके ख्याता देवी भविष्यसि ॥२७॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमा० चंडमुंड० सप्तमः ॥७॥
उवाच ॥२॥
श्लोकाः ॥२५॥
एवं ॥२७॥
एवमादितः ॥४३९॥
ऋषिरुवाच ॥१॥
चंडे च निहते दैत्ये मुंडे च विनिपातिते ॥ बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥२॥
ततः कोपपराधीनचेताः शुभ्मः प्रतापवान् ॥ उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥३॥
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ॥ कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥४॥
कोटिवीर्याणि पंचाशदसुराणां कुलानि वै ॥ शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥५॥
कालका दौर्हदा मौर्याः कालिकेयास्तथाऽसुराः ॥ युद्धाय सज्जा निर्यातु आज्ञया त्वरिता मम ॥६॥
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ॥ निर्जगाम महासैन्यसहस्त्रैर्बहुभिर्वृतः ॥७॥
आयांतं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ॥ ज्यास्वनैः पूरयामास धरणीगगनांतरम् ॥८॥
ततः सिंहो महानादमतीव कृतवान्नृप ॥ घण्टास्वनेन तान्नादानंबिका चोपवृहयत् ॥९॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ॥ निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥१०॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ॥ देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥११॥
एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् ॥ भवायामरसिंहानामतिवीर्यबलान्विताः ॥१२॥
ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः ॥ शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥१३॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥ तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥१४॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ॥ आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥१५॥
माहेश्वरी वृषारुढा त्रिशूलवरधारिणी ॥ महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥१६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ॥ योद्धुमभ्याययौ दैत्यानंबिका गुहरुपिणी ॥१७॥
तथैव वैष्णवी शक्तिर्गरुडोपरिसंस्थिता ॥ शंखचक्रगदाशार्ङ्गखङ्गहस्ताभ्युपापयौ ॥१८॥
यज्ञवाराहमतुलं रुपं या बिभ्रतो हरेः ॥ शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥१९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ॥ प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥२०॥
वज्रहस्ता तथैवैंद्री गजराजोपरिस्थिता ॥ प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥२१॥
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ॥ हन्यतामसुराः शीघ्रं मम प्रीत्याह चंडिकाम् ॥२२॥
ततो देवीशरीतात्तु विनिष्क्रांतातिभीषणा ॥ चंडिकाशक्तिरत्युग्रा शिषाशतनिनादिनी ॥२३॥
सा चाह धूम्रजटिलमीशानमपराजिता ॥ दूत त्वं गच्छ भगवन् पार्श्व शुंभनिशुंभयोः ॥२४॥
ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ ॥ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥२५॥
त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः ॥ यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२६॥
बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः ॥  तदागच्छत तृप्यंतु मच्छिवाः पिशितेन वः ॥२७॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ॥ शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥२८॥
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यात महासुराः ॥ अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२९॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ॥ ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥३०॥
सा च तान्प्रहितान्बाणाञ्छूलशक्तिपरश्वधान् ॥ चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ॥ खटवांगपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥३२॥
कमंडलुजलाक्षेपहतवीर्यान्हतौजसः ॥ ब्रह्माणी चाऽकरोच्छत्रून् येन येन स्म धावति ॥३३॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ॥ दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥३४॥
ऐंद्रीकुलिशपातेन शतशो दैत्यदानवाः ॥ पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥३५॥
तुंडप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ॥ वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥३६॥
नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् ॥ नारसिंही चचाराजौ नादापूर्णदिगंबरा ॥३७॥
चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः ॥ पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥३८॥
इति मातृगणं क्रुद्धं मर्दयंतं महासुरान् ॥ दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥३९॥
पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् ॥ योद्भुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥४०॥
रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः ॥ समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥४१॥
युयुधे स गदापाणिरिंद्रशक्त्या महासुरः ॥ ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ॥४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ॥ समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥४३॥
यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः ॥ तावंतः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसंभवाः ॥ समं मातृभिरत्युग्रं शस्त्रपातातिभीषणम् ॥४५॥
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ॥ ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ॥ गदया ताडयामास ऐंद्री तमसुरेश्वरम् ॥४७॥
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसंभवैः ॥  सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ॥ माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥४९॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ॥ मातृः कोपसमाविष्टो रक्तबीजो महासुरः ॥५०॥
तस्याहतस्य बहुधा शक्तिशलादिभिर्भुवि ॥ पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥५१॥
तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् ॥ व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५२॥
तान्विषण्णान्सुरान्दृष्ट्वा चंडिका प्राह सत्व रम् ॥ उवाच काली चामुंडे विस्तीर्ण वदनं कुरु ॥५३॥
मच्छस्त्रपातसंभूतान् रक्तबिंदून्महासुरान् ॥ रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५४॥
भक्षयंती चर रणे तदुत्पन्नान्महासुरान् ॥ एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥५५॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यंति चापरे ॥ इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ॥५७॥
ततोऽसावाजघानाथ गदया तत्र चंडिकाम् ॥ न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ॥५८॥
तस्याहस्त देहात्तु बहु सुस्राव शोणितम् ॥ यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति ॥५९॥
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ॥६०॥
देवी शूलेन वज्रेण बाणैरसिभिऋष्टिभिः ॥ जघान रक्तबीजं तं चामुंडा पीतशोणितम् ॥६१॥
स पपात महीपृष्ठे शस्त्रसंघसमाहतः ॥ नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥६२॥
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥६३॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये रक्तबीजवधोऽष्टमः ॥८॥
उवाच ॥१॥
अर्ध ॥१॥
श्लोकाः ॥६१॥
एवं ॥६३॥
एवमादितः ॥५०२॥
राजोवाच ॥१॥
विचित्रमिदमाख्यातं भगवन्भवता मम ॥ देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥२॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ॥ चकार शुंभो यत्कर्म निशुंभश्चातिकोपनः ॥३॥
ऋषिरुवाच ॥४॥
चकार कोपमतुलं रक्तबीजे निपातिते ॥ शुंभासुरो निशुंभश्च हतेष्वन्येषु पाहवे ॥५॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ॥ अभ्यधावन्निशुंभोऽथ मुख्ययाऽसुरसेनया ॥६॥
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ॥ संदष्टौष्ठपुटाः क्रुद्धा हंतुं देवीमुपाययुः ॥७॥
आजगाम महावीर्यः शंभोऽपि स्वबलैर्वृतः ॥ निहंतुं चंडिकां कोपात्कृत्वा युद्धं तु मातृंभिः ॥८॥
ततो युद्धमतीवासीद्देव्याः शुंभनिशुंभयोः ॥ शरवर्षमतीवोग्रं मेघयोरवि वर्षतोः ॥९॥
चिच्छेदास्ताञ्छरांस्ताभ्यां चंडिका स्वशरोत्करैः ॥ ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ ॥१०॥
निशुंभो निशितं खङ्गं चर्म चादाय सुप्रभम् ॥ अताड्यन्मूर्घ्नि सिंहं देव्या वाहनमुत्तमम् ॥११॥
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ॥ निशुंभस्याशु चिच्छेद चर्म चाप्यष्टचंद्रकम् ॥१२॥
छिन्ने चर्मणि खङ्गे च शक्तिं चिक्षेप सोऽसुरः ॥ तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥१३॥
कोपाध्मातो निशुंभोऽथ शूलं जग्रह दानवः ॥ आयांतं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥१४॥
आविध्याथ गदां सोऽपि चिक्षेप चंडिकां प्रति ॥ सापि देव्यास्त्रिशूलेन भिन्ना भस्मत्वमागता ॥१५॥
ततः परशुहस्तं तमायांतं दैत्यपुंगवम् ॥ आहत्य देवी बाणौघैरपातयत भूतले ॥१६॥
तस्मिन्निपतिते भूमौ निशुंभे भीमविक्रमे ॥ भ्रातर्यतीव संक्रुद्धः प्रययौहंतुमंविकाम् ॥१७॥
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ॥ भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नमः ॥१८॥
तमायांतं समालोक्य देवी शंखमवादयत् ॥  ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥१९॥
पूरयामास ककुभो निजघंटास्वनेन च ॥ समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥२०॥
ततः सिंहो महानादैस्त्याजितेभमहामदैः ॥ पूरयामास गगनं गां तथैव दिशो दश ॥२१॥
ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ॥ कराभ्यां तन्निनादेन प्राक्खनास्ते तिरोहिताः ॥२२॥
अट्टाट्टहासमशिवं शिवदूती चकार ह ॥ तैः शब्दैरसुरास्त्रेसुः शुंभः कोपं परं ययौ ॥२३॥
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहारांबिका यदा ॥ तदा जयेत्यमिहितं देवैराकाशसंस्थितैः ॥२४॥
शुंभेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ॥ आयांती वह्निकूटाभा सा निरस्ता महोल्कया ॥२५॥
सिंहनादेन शुंभस्य व्याप्तं लोकत्रयान्तरम् ॥ निर्घातनिः स्वनो घोरो जितवानवनीपते ॥२६॥
शुंभमुक्ताञ्छरान्देवी शुंभस्तत्प्रहिताञ्छरान् ॥ चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥२७॥
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ॥ स तदाभिहतो भूमौ मूर्च्छितो निपपात हा ॥२८॥
ततो निशुंभः संप्राप्य चेतनामात्त कार्मुकः ॥ आजघान शरैर्देवीं कालीं केसरिणं तथा ॥२९॥
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ॥ चक्रायुधेन दितिजश्छादयामास चंडिकाम् ॥३०॥
ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ॥ चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥३१॥
ततो निशुंभो वेगेन गदामादाय चंडिकाम् ॥ अभ्यधावत वै हंतुं दैत्यसैन्यसमावृतः ॥३२॥
तस्यापतत एवाशु गदां चिच्छेद चंडिका ॥ खङ्गेन शितधारेण स च शूलं समाददे ॥३३॥
शूलहस्तं समायांतं निशुंभममरार्दनम् ॥ हदि विव्याध शूलेन वेगाविद्भेन चंडिका ॥३४॥
भिन्नस्य तस्य शूलेन हदयान्निः सृतोऽपरः ॥ महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥३५॥
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ॥ शिरश्चिच्छेद खङ्गेन ततोऽसावपतद्भुवि ॥३६॥
ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ॥ असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥३७॥
कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ॥ ब्रह्माणीमंत्रपूतेन तोयेनान्ये निराकृताः ॥३८॥
माहेश्वरीत्रिशूलन भिन्नाः पेतुस्तथापरे ॥ वाराहीतुंडघातेन केचिच्चूर्णीकृता भुवि ॥३९॥
खंडं खंडं च चक्रेण वैष्णव्या दानवाः कृताः ॥ वज्रेण चैंद्रीहस्ताग्रविमुक्तेन तथापरे ॥४०॥
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ॥ भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥४१॥
मार्कण्डेयपु० सावर्णिके मन्वंतरे देवीमा० निशुंभव० नवमः ॥९॥
उवाच० ॥२॥
श्लोकाः ॥३९॥
एवं ॥४१॥
एवमादितः ॥५४३॥
ऋषिरुवाच ॥१॥
निशुंभं निहतं दृष्ट्वा भ्रातरं प्राणसमितम् ॥ हन्यमानं बलं चैव शुंभः क्रुद्धोऽब्रवीद्वचः ॥२॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ॥ अन्यासां बलमाश्रित्य युध्यसे चातिमानिनी ॥३॥
देव्युवाच ॥४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ॥ पश्यैता दुष्ट मय्येव विशंत्यो मद्विभूतयः ॥५॥
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ॥ तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदांविका ॥६॥
देव्युवाच ॥७॥
अहं विभूत्या बहुभिरिह रुपैर्यदा स्थिता ॥ तत्संहतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥८॥
ऋषिरुवाच ॥९॥
ततः प्रववृत्ते युद्ध देव्याः शुंभस्य चोभयोः ॥ पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥१०॥
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ॥ तयोर्युद्धमभूद्भूयः सर्वलोकभयंकरम् ॥११॥
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथांबिका ॥ बभञ्ज तानि दैत्येंद्रस्तत्प्रतीघातकर्तृभिः ॥१२॥
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ॥ बभञ्ज लीलयैवोग्रहुंकारोच्चारणादिभिः ॥१३॥
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ॥ सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥१४॥
छिन्ने धनुषि दैत्येंद्रस्तथा शक्तिमथाददे ॥ चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥१५॥
ततः खङ्गमुपादाय शतचंद्रं च भानुमत् ॥ अभ्यधावत तां देवीं दैत्यानामधिपेश्वरः ॥१६॥
तस्यापतत एवाशु खङ्गं चिच्छेद चंडिका ॥ धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ॥१७॥
अश्वांश्व पातयामास रथं सारथिना सह ॥ हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ॥१८॥
जग्राह मुद्गरं घोरमंबिकानिधनोद्यतः ॥ चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ॥१९॥
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ स मुष्टिं पातयामास हदये दैत्यपुंगवः ॥२०॥
देव्यास्तं चापि सा देवी तलेनोरस्यताड्यत् ॥ तलप्रहारामितो निपपात महीतले ॥२१॥
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ॥२२॥
तत्रापि सा निराधारा युयुधे तेन चंडिका ॥२३॥
नियुद्ध खे तदा दैत्यश्चंडिका च परस्परम् ॥ चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥२४॥
ततो नियुद्धं सुचिरं कृत्वा तेनांबिका सह ॥ उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥२५॥
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ॥ अभ्यधावत दुष्टात्मा चंडिकानिधनेच्छया ॥२६॥
तमायांतं ततो देवी सर्वदैत्यजनेश्वरम् ॥ जगत्यां पातयामास मित्त्वा शूलेन वक्षसि ॥२७॥
स गतासुः पपातोर्व्या देवीशूलाग्रविक्षतः ॥ चालयन्सकलां पृथ्वी साब्धिद्वीपां सपर्वताम् ॥२८॥
ततः प्रसनन्नमखिलं हते तस्मिन् दुरात्मनि ॥ जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नमः ॥२९॥
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ॥ सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥३०॥
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ बभूवुर्निहते तस्मिन् गंधर्वा ललितं जगुः ॥३१॥
अवादयंस्तथैवान्ये ननृत्युश्चाप्सरोगणाः ॥ ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥३२॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये शुंभवधो नाम दशमः ॥१०॥
उवाच ॥४॥
अर्ध ॥१॥
श्लोकमंत्राः ॥२७॥
एवं ॥३२॥
एवमादितः ॥५७५॥
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे शुम्भ० नाम दशमोऽध्यायः ॥१॥
ऋषिरुवाच ॥१॥
देव्या हते तत्र महासुरेंद्रे सेंद्राः सुरा वह्निपुरोगमास्ताम् ॥ कात्यायनीं तुष्टुवुरिष्टलाभाद्विकाशिवक्त्राब्जविकासिताशाः ॥२॥
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ॥ प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥३॥
आधारभूता जगतस्त्वमेका महीस्वरुपेण यतः स्थितासि ॥ अपांस्वरुपस्थितयात्वयैतदाप्यायते कृत्स्न मलंघ्यवीर्ये ॥४॥
त्वं वैष्णवी शक्तिरनंतवीर्या विश्वस्य बीजं परमासि माया ॥ संमोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥५॥
विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु ॥ त्वयैकया पूरितमंबयैतत्काते स्तुतिः स्तव्यपरा परोक्ति ॥६॥
सर्वभूता यदा देवि भुक्तिमुक्तिप्रदायिनी ॥ त्वं स्तुता स्तुतये कावा भवंतु परमोक्तयः ॥७॥
सर्वस्य बुद्धिरुपेण जनस्य हदि संस्थिते ॥ स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥
कलाकाष्ठादिरुपेण परिणामप्रदायिनि ॥ विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥९॥
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणी नमोऽस्तु ते ॥१०॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ॥ गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥११॥
शरणागतदीनार्तपरित्राणपरायणे ॥ सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१२॥
हंसयुक्तविमानस्थे ब्रह्माणीरुपधारिणी ॥ कौशांभः क्षरिके देवि नारायणि नमोऽस्तु ते ॥१३॥
त्रिशूलचंद्राहिधरे महावृषभवाहिनि ॥ माहेश्वरीस्वरुपेण नारायणि नमोऽस्तु ते ॥१४॥
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ॥ कौमारीरुपसंस्थाने नारायणि नमोऽस्तुते ॥१५॥
शंखचक्रगदाशार्ङ्गगृहीतपरमायुधे ॥ प्रसीद वैष्णवीरुपे नारायणि नमोऽस्तु ते ॥१६॥
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे ॥ वराहरुपिणि शिवे नारायणि नमोऽस्तु ते ॥१७॥
नृसिंहरुपेणोग्रेण हंतुं दैत्यान्कृतोद्यमे ॥ त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥
किरीटिनि महावज्रे सहस्त्रनयनोज्ज्वले ॥ वृत्रप्राणहरे चौंद्रि नारायणि नमोऽस्तु ते ॥१९॥
शिवदूतीस्वरुपेण हतदैत्यमहाबले ॥ घोररुपे महारावे नारायणि नमोऽस्तु ते ॥२०॥
दंष्ट्राकरालवदने शिरोमालाविभूषणे ॥ चामुंडे मुंडमथने नारायणि नमोऽस्तु ते ॥२१॥
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ॥ महारात्रि महामाये नारायणि नमोऽस्तु ते ॥२२॥
मेघे सरस्वति९ वरे भूति बाभ्रवि तामसि ॥ नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२३॥
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२४॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥ पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥२५॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ॥ त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२६॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ॥ सा घंटा पातु नो देवि पापेभ्योऽनः सुतानिव ॥२७॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ॥ शुभाय खङ्गो भवतु चंडिके त्वां नता वयम् ॥२८॥
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ॥ त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयांति ॥२९॥
एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् ॥ रुपैरनेकैर्बहुधात्ममूर्ति कृत्वाऽम्बिके तत् प्रकरोति काऽन्या ॥३०॥
विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या ॥ ममत्वगर्तेऽतिमहांधकारे विभ्रामयत्येतदतीव विश्वम् ॥३१॥
रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र ॥ दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥३२॥
विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीह विश्वम् ॥ विश्वेशवंद्या भवती भवन्ति विश्वात्रया ये त्वयि भक्तिनम्राः ॥३३॥
देवि प्रसीद परिपालय नोऽरिबीतेर्नित्यं यथाऽसुरवधादधुनैव सद्यः ॥ पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ॥३४॥
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ॥ त्रैलोक्यवासिनामीड्ये लोकांना वरदा भव ॥३५॥
देव्युवाच ॥३६॥
वरदाहं सुरगणा वरं यं मनसेच्छथ ॥ तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥२७॥
देवा ऊचुः ॥३८॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ॥ एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥३९॥
देव्युवाच ॥४०॥
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ॥ शुंभो निशुंभश्चैवान्यावुत्पत्स्येते महासुरौ ॥४१॥
नंदगोपगृहे जाता यशोदागर्भसंभवा ॥ ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥४२॥
पुनरप्यतिरौद्रेण रुपेण पृथिवीतले ॥ अवतीर्थ हनिष्यामि वैप्रचित्तांश्च दानवान् ॥४३॥
भक्षयंत्याश्च तानुग्रान् वैप्रचित्तान्महासुरान् ॥ रक्ता दंता भविष्यंति दाडिमीकुसुमोपमाः ॥४४॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ॥ स्तुवंतो व्याहरिष्यंति सततं रक्तदंतिकाम् ॥४५॥
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा ॥४६॥
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ॥ कीर्तयिष्यंति मनुजाः शताक्षीमिति मां ततः ॥४७॥
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ॥ भरिष्यामि सुराः शाकैरावृष्टैः प्राणधारकैः ॥४८॥
शाकम्बरीति विख्याति तदा यास्याम्यहं भुवि ॥४९॥
तत्रैव च वधिष्याभि दुर्गमाख्यं महासुरम् ॥ दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ॥५०॥
पुनश्चाहं यदा भीमं रुपं कृत्वा हिमाचले ॥ रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ॥५१॥
तदा मां मुनयः सर्वे स्तोष्यंत्यानम्रमूर्तयः ॥ भीमादेवीति विख्यातं तन्मे नाम भविष्यति ॥५२॥
यदारुणाख्यस्त्रैलोख्ये महाबाधां करिष्यति ॥ तदाहं भ्रामरं रुपं कृत्वासंख्येयषटपदम् ॥५३॥
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ भ्रामरीति च मां लोकास्तदा स्तोष्यंति सर्वतः ॥५४॥
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥५५॥
मार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये नारायणीस्तुतिर्नामैकादशः ॥११॥
उवाच ॥४॥
अर्धमंत्रः ॥१॥
श्लोकमंत्राः ॥५०॥
एवं ॥५५॥
एवमादितः ॥६३०॥
देव्युवाच ॥१॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ॥ तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥२॥
मधुकैटभनाशं च महिषासुरघातनम् ॥ कीर्तयिष्यंति ये तद्वद्वधं शुंभनिशुंभयोः ॥३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ श्रोष्यंति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥४॥
न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः ॥ भविष्यति न दारिद्यं न चैवेष्टवियोजनम् ॥५॥
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ॥ न शस्त्रानलतोयौघात्कदाचित्संभविष्यति ॥६॥
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥ श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥७॥
उपसर्गानशेषांस्तु महामारीसमुद्भवान् ॥ तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥८॥
यत्रैतत् पठ्यते सम्यङ नित्यमायतने मम ॥ सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥९॥
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ॥ सर्व ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥१०॥
जानताऽजानता वापि बलिपूजां यथा कृताम् ॥ प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् ॥११॥
शरत्काले महापूजा क्रियते या च वार्षिकी ॥ तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥१२॥
सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥ मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥१३॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ॥ पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥१४॥
रिपवः संक्षयं यांति कल्याणं चोपपद्यते ॥ नंदते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥१५॥
शांतिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शन ॥ ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥१६॥
उपसर्गाः शमं यांति ग्रहपीडाश्च दारुणाः ॥ दुःस्वप्नं च नृभीर्दृष्टं सुस्वप्नमुपजायते ॥१७॥
बालग्रहाभिभूतानां बालानां शांतिकारकम् ॥ संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥१८॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ॥ रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥१९॥
सर्व ममैतन्माहात्म्यं मम सन्निधिकारकम् ॥२०॥
पशुपुष्पार्घधूपैश्च गंधदीपैस्तथोत्तमैः ॥ विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ॥२१॥
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ॥२२॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ॥२३॥
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ तस्मिञ्च्छुते वैरिकृतं भयं पुंसां न जायते ॥२४॥
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ ब्रह्मणा च कृतास्तास्तु प्रयच्छंतु शुभां मतिम् ॥२५॥
अरण्ये प्रांतरे वापि दावाग्निपरिवारितः ॥ दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ॥२६॥
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ॥२७॥
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ॥२८॥
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ स्मरन्ममैतच्चरितं नरो मुच्येत संकटात् ॥२९॥
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ दूरादेव पलायंते स्मरतश्चरितं मम ॥३०॥
ऋषिरुवाच ॥३१॥
इत्युक्त्वा सा भगवती चंडिका चंडविक्रमा ॥ पश्यतां सर्वदेवानां तत्रैवांतरधीयत ॥३२॥
तेऽपि देवा निरातंकाः स्वाधिकारान्यथा पुरा ॥ यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ॥३३॥
दैत्याश्च देव्या निहते शुंभे देवरिपो युधि ॥ जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ॥३४॥
निशुंभे च महावीर्ये शेषाः पातालमाययुः ॥३५॥
एवं भगवती देवी सा नित्यापि पुनः पुनः ॥ संभूय कुरुते भूप जगतः परिपालनम् ॥३६॥
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ॥ सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥३७॥
व्याप्तं तयैतत्सकलं ब्रह्मांडं मनुजेश्वर ॥ महादेव्या महाकालीमहामारीस्वरुपया ॥३८॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ॥ स्थितिं करोति भूतानां सैव काले सनातनी ॥३९॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ॥ सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते ॥४०॥
स्तुता संपूजिता पुष्पैर्गधधूपादिभिस्तथा ॥ ददाति वित्तं पुत्रांश्च मर्ति धर्मे तथा शुभाम् ॥४१॥
मार्कडेयपुराणे सावर्णिके मन्वंतरे देव्याश्चरितमाहात्म्ये भगवतीवाक्यं द्वादशः ॥!२॥
उवाच० ॥२॥
अर्धमंन्त्रो ।२॥
श्लोकमन्त्राः ॥३७॥
एवं ॥४१॥
एवमादितः ॥६७१॥
ऋषिरुवाच ॥१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ॥२॥
एवेंप्रभावा सा देवी ययेदं धार्यते जगत् ॥ विद्या तथैव क्रियते भगवद्विष्णुमायया ॥३॥
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ मोह्यंते मोहिताश्चैव मोहमेष्यंति चापरे ॥४॥
तामुपैहि महाराज शरणं परमेश्वरीम् ॥ आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥५॥
मार्कडेय उवाच ॥६॥
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ प्राणिपत्य महाभागं तमृषिं संशितव्रतम् ॥७॥
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ जगाम सद्यस्तपसे स च वैश्यो महामुने ॥८॥
संदर्शनार्थमंबाया नदीपुलिनमास्थितः ॥ स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥९॥
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्ति महीमयीम् ॥ अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥१०॥
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ॥११॥
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका ॥!२॥
देव्युवाच ॥१३॥
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनंदन ॥ मत्तस्तत्प्राप्यतां सर्वे परितुष्टा ददामि ते ॥१४॥
मार्केडेयउवाच ॥१५॥
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ॥ अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥१६॥
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ॥ ममेत्यहमिति प्राज्ञः संगविच्युतिकारकम् ॥१७॥
देव्युवाच ॥१८॥
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥१९॥
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥२०॥
मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः ॥२१॥
सावर्णिको मनुर्नाम भवान् भुवि भविष्यति ॥२२॥
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥२३॥
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥२४॥
मार्कडेय उवाच ॥२५॥
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ बभूवांतर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥२६॥
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥२७॥
पुनः ॥ इति दत्त्वा तयो० ॥२८॥
पुनः ॥ एवं देव्या वरं० ।२९॥
क्लीं ॐ श्रीमार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशः ॥१३॥
एवं ॥२९॥
एवमादितः ॥७००॥
अथोत्तरन्यासाः ॥ ॐ ह्लींहदयाय नमः ॐ चंशिरसे० ॐ डिंशिखायै० ॐ कांकवचा० ॐ यैंनेत्रत्र० ॐ ह्लींचंडिकायै अस्त्राय० ॥ ॐ खङ्गिनी शूलिनी घोरा० हदयाय नमः ॥ शूलेन पाहि नो देवि० शिरसे स्वाहा ॥ प्राच्यां रक्ष प्रतीच्यां च० शिखायै वषट् ॥ सौम्यानि यानि रुपाणि० कवचाय हुं ॥ खङ्गशूलगदादीनि० नेत्रत्रयाय वौषट् ॥ सर्वस्वरुपे सर्वेशे० अस्त्राय फट् ॥ अथ ध्यानम् ॥ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ॥ हस्तैश्चक्रदरालिखेटविशिखांश्चापं गुणं तर्जनीं विभ्राणामनलात्मिकां जशिधरां दुर्गा त्रिनेत्रां भजे ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2009-06-17T21:26:12.1700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सांत

  • स्त्री. १ बाजार ; हाट . - ज्ञा १३ . ३२० . गोरस घेऊनी सांते निघाल्या गौळणी । - तुगा १२८ ; दहिसात . २ जत्रा ; मेळा . ३ ( गो . ) आठवडयाचा बाजार . साती - स्त्री . ( ना . ) लहान बाजार . 
  • वि. समग्र ; सर्व . यालागि बोलिले सांतें । - रास २ . ६३ . [ स + अंत ] 
  • स्त्री. एक विवक्षित मासा . 
  • स्त्री. साथीचा रोग ; सांथ . 
RANDOM WORD

Did you know?

मृतव्यक्तीच्या तेराव्याच्या जेवणात कोणकोणते पदार्थ करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site